________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। 213 चिन्ता, सा च केन सहाव्यवधानं गवेषयेत ? स्वरूपं तु प्रसिद्ध्यनुरोधेन संसारिण्येव पर्यवसाययेत् , न तु सिद्ध इति महान् विशेषः / स्यादेतत्, धर्मपदेऽपि धात्वर्थो धारणसामान्यमेव, तच्च यथा विशेषतात्पर्यवशात् सिद्धिधारणरूपविशेषे पर्यवस्यति, तथा जीवपदार्थोऽपि विशेष पर्यवस्यन् सिद्ध एव दत्तपदो भविष्यति ? मैवम्- " जीव प्राणधारणे" इत्यत्र प्राणपदसम( भि )व्याहृतधारणस्य भूरिप्रयोगवशादौदयिकप्राणधारण एव पर्यवसानात्, अत एव गोपदस्य नानार्थत्वेऽपि ततो भूरिप्रयोगवशात् सास्नादिमत एवोपस्थितिः, अश्वादेस्तु पदान्तरसमभिव्याहारादिनेति तु तान्त्रिकाः / तदेवमेवम्भूतनयाभिप्रायेण सिद्धो न जीव इति व्यवस्थापितम् / यदि पुनः प्रस्थकन्यायाद् विशुद्धतरनैगम. भेदमाश्रित्य प्रागुक्तखान्थगाथा व्याख्यायते परैः, तदा न किञ्चिदस्माकं दुष्यतीति किमल्पीयसि दृढतरक्षोदेन ? // 52 // ऐन्द्री ततिः प्रणयपुण्यमिवाङ्करात्रैर्यत्पादपद्मकिरणैः कलयत्युदी(ण)तम् / स्नात्राम्भसा दलितयादवदुष्टकष्टं शङ्केश्वरं प्रभुमिमं शरणीकरोमि // 1 // एवं सामान्यतः सप्तानामपि नयानामर्थानुक्त्वा ततः शुद्ध्यशुद्धिज्ञानोपायं वक्तुं प्रक्रमतेसर्वदा विद्यत इति तद्धारणमात्मनि धर्मपदार्थ इति / इह तु जीवपदार्थे पुनः 'धातुगा' इति मूलस्य विवरणम्धात्वर्थावच्छिन्नस्वरूपविषयिणीति- जीवधात्वर्थो यः प्राणधारणलक्षणस्तदवच्छिन्नं यदात्मस्वरूपं तद्विषयिणी. त्यर्थः / सा च धात्वर्थावच्छिन्नस्वरूपविषयिणी चिन्ता पुनः / केन सहेति-फलस्य कारणप्रभवत्वेन कारणस्य फलसाधनत्वेन तयोरव्यवधानस्यावश्यम्भावेन तत्रैकस्यापरेण सहाव्यवधानचिन्तासम्भवेऽपि प्रकृते चिन्ताविषयस्य धात्वर्थस्वरूपावच्छिन्नस्य फलसाधनभावेन चिन्ताया अविषयत्वेन केनापि सहाव्यवधानाकाङ्क्षाया अनुदयेन व्यवधानगवेषणाया अप्रसरादित्यर्थः / स्वरूपं विति-जीवधात्वर्थस्वरूपं पुनः, “जीव प्राणधारणे" इत्यत्र प्राणशब्दस्य सामान्यतः प्राणवचनत्वेऽपि लौकिकपरीक्षकाणामविगानेन द्रव्यप्राणवाचित्वन प्रसिद्धतया तदनुरोधेन द्रव्यप्राणधारणलक्षणं तत् संसारिमात्रगतं न तु सिद्धगतमित्यर्थः / इति एवं स्वरूपो धर्मशब्द- जीवशब्दयोर्महान् विशेषः / अत्र परः शङ्कते-स्यादेतदिति / तश्च धारणसामान्यं च, अन्यत् सुगमम् , | समाधक्ते-मैवमिति / अत एव सामान्यस्य यस्किश्चिद्विशेषस्वरूपमादाय पर्यवसानसम्भवेऽपि सामान्यवाचिशब्दस्य यस्मिन्नेव विशेषे भूरिप्रयोगस्तं विशेषमुपादायैव सामान्यस्य, पर्यवसानमित्यस्य युक्तत्वादेव / नानार्थत्वेऽपि किरण-वाणीप्रभृत्यनेकार्थवाचकत्वेऽपि / ततः गोपदात् / अश्वाहे. स्त्विति- गच्छतीति गौरिति व्युत्पत्तिलभ्यगमनकर्तत्वस्याश्वादौ सत्त्वेऽपि तद्वाचकाश्वादिपदासमभिव्याहृतगोपदान्नाश्वा-. देरुपस्थितिः किन्तु सास्नादिमत एवोपस्थितिः, अश्वादिपदसमभिव्याहृतगोपदात् पुनरश्वादेरुपस्थितिरित्येवं तान्त्रिका आमनन्तीत्यर्थः / उपसंहरति-तदेवमिति / प्रस्थकन्यायात् प्रस्थकवसतिप्रदेशादिकं समाश्रित्य नैगमादिनयमननभेदो. पपादकयुक्तः / प्रागुतग्रन्थगाथा "तिक्काले च" इति गाथा / परैः दिगम्बरेः / अस्माकं श्वेताम्बराणाम् // 52 // ... इत्थं नयार्थमननं मम जिनप्रवरश्रीशङ्खश्वरभक्तिभरादेवेत्यवेदयितुं ग्रन्थमध्यमङ्गलस्वरूपां श्रीशङ्केश्वरप्रभुस्तुति प्रश्नाति-ऐन्द्री ततिरिति- अङ्कुरागैरिब यत्पादपद्मकिरणैरुदितं प्रणयपुण्यमैन्द्री ततिः कलयति, तच्छन्दस्य यच्छन्दश्रुतिबलादायातत्वेन तमिमं स्नात्राऽम्भसा दलितयादवदुष्टकष्टं शङ्केश्वरं शरणीकरोमीत्यन्वयः। ऐन्द्री इन्द्रम्बन्धिनी ततिः-पतिः, इन्द्रसमूह इति वक्तव्ये ऐन्द्री ततिरिति यदुक्तं तेन 'ऐ' इति सरस्वतीमन्त्रस्य स्वगतकवित्ववित्त्वाबन्ध्यकारणस्य मङ्गलतयाऽवस्थानमाहतमिति / यत्पादेति-यस्य भगवतः श्रीशर्केश्वरस्य पादाविव पद्मं तस्य किरणैस्तत्र नम्रीभूते शिरसि पतितैः, अङ्कुराप्रैरिव क्षेत्र-भू-रेण्वाच्छादितबोजाङ्कुरस्योपरि किश्चिदृश्यमानाप्रभागसदृशैः, प्रणयपुण्यं . भक्तिभररचितमणतिप्रभवपुण्यम् , उदितम्(उदीर्णम्) उदयमागतं फलप्रदानाभिमुखमिति यावत् , कलयति जानीते, तमिमं