________________ 212 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो नयोपदेशः / नैवम्भूताभिधानपूर्वमेवाभिधानं युक्तम्, अन्यथाऽप्राप्तकालत्वप्रसङ्गात्, तस्मात् व्यवहाराद्यभिमत. व्युत्पत्त्यनुरोधेनौदयिकभावमात्रग्राहकत्वमेवास्य सूरिभिरुक्तं युक्तमिति स्मर्त्तव्यम् / न चेन्द्रियरूपप्राणानां क्षायोपशमिकत्वात् कथमेवम्भूतस्यौदयिकभावमात्रप्राहकत्वमित्यप्याशङ्कनीयम्, प्राधान्येनायुःकर्मोदयलक्षणस्यैव जीवनार्थस्य प्रहात् , उपहतेन्द्रियेऽप्यायुरुदयेनैव जीवनिश्चयादिति दिक् / / 51 // शङ्काशेषमुपन्यस्य परिहरति__ शैलेश्यन्त्यक्षणे धम्मों, यथा सिद्धस्तथाऽसुमान् / - वाच्यं नेत्यपि यत् तत्र, फले चिन्तेह धातुगा // 52 // नयामृत-शैलेश्यन्त्यलक्षण इति / शैलेश्या-अयोगिगुणस्थानस्य, अन्त्यक्षणे-चरमक्षणे, यथा निश्चयतो धर्मः, तदर्वातनकालभावी तु व्यवहारत एव, तदुक्तं धर्मसङ्ग्रहण्यां हरिभद्राचार्य:"सो उभयक्खयहेऊ सेलेसीचरमसमयभावी जो। सेसो पुण णिच्छयओ तस्सेव पसाहगो नेओ // 26 // " - तथाऽसुमान- जीवोऽपि निश्चयतः सिद्ध एव भविष्यतीत्यपि न वाच्यम् , यतस्तत्र- ' सो उभयक्खयहेऊ' इति गाथायाम् , धारयति सिद्धिगतावात्मानमिति धर्म इति फले-फलरूपे धात्वर्थे चिन्ता, सा च कुर्वद्रूपत्वेन कारणत्वं वदत एवम्भूतनयस्य मते शैलेश्यन्त्यक्षण एव धर्मपदार्थसिद्धिसाक्षिणी, तदनन्तरं सिद्धिसाधारणरूपा सा फलाऽव्यवधानात्, इह तु धातुगा- धात्वर्थावच्छिन्नस्वरूपविषयिणी vouriterarmirmananrana........................ स्वरूपनिश्चयनयस्य। प्राकनेति-आयुरादिद्रव्यप्राणधारणलक्षणजीवनरूपजीवधातुव्युत्पत्तिनिमित्तावच्छिन्ने जीवपदसङ्केतग्राहिणो व्यवहारनयोपजीव्येवम्भूतस्वरूपनिश्चयस्य यदभिधानं तत् पूर्व यस्येति बहब्रोहिणा 'निमक्काभिधानपूर्वम्' इत्यस्य 'निरुकाभिधानपूर्वकम्' इत्यर्थः, ततश्च निरुक्ताभिधानानन्तरमेव सिद्ध एव चैतन्यद्वयलक्षणभावप्राणधारित्वाजीवपदव्यपदेश्य इत्यभिधानं युक्तमित्यर्थः / अन्यथा व्यवहारनयाभिधानानन्तरं व्यवहारोपजीविनिश्चयाभिधानमकृत्वैव निश्चयोपजीविनिश्चयाभिधाने / अप्राप्तकालत्वप्रसङ्गात् व्यवहारनयानन्तरव्यवहारोपजीविनिश्चयाभिधानोत्तरकालो निश्चयोप. जीविनिश्चयाभिधानकालः, न तु व्यवहाराभिधानाव्यवहितोत्तरकालस्तस्य काल इति अप्राप्तः कालो -यस्य सोऽप्राप्तकालस्तस्य भावोऽप्राप्तकालत्वं तस्य प्रसादित्यर्थः / उपसंहरति-तस्मादिति-अप्राप्तकालत्वप्रसाभयादित्यर्थः / अस्य एवम्भूतनयस्य / 'न च' इत्यस्य / 'आशनीयम्' इत्यनेनान्वयः / निषेधे हेतुमाह-प्राधान्येनेति / शङ्का-प्रति विधानयोरथों सुखावबोधौ / / 51 // द्विपञ्चाशत्तमपद्यमवतारयति-शङ्काशेषमिति-दिगम्बराशङ्काऽवशिष्टभागमित्यर्थः / विवृणोति-शैलेश्यलक्षण इतीति / धर्म इति-धारणाद् धर्म इति व्युत्पत्त्या धारणलक्षणो धर्मपदार्थो निश्चयनयतो यथा शैलेश्यन्त्यक्षणे इत्यर्थः। तदर्वाकनकालभावी तु शैलेश्यन्यक्षणप्राक्तनकालभावी धर्मपदार्थस्तु / व्यवहारत एव व्यवहारनयत एव, एवकारेण तस्य निश्चयनयसम्मतत्वस्य व्यवच्छेदः / उक्कार्थे हरिभद्रसूरिवचनं पराभितप्रमाणतयोपदर्शयति-तदुक्तमिति / सो इति-"स उभयक्षयहेतुः शैलेशीचरमसमयभावी यः। शेषः पुननिश्चयतः तस्यैव प्रसाधको ज्ञेयः"॥ इति संस्कृतम् / 'तत्र' इति मूलस्य विवरणम्- "सो उमयक्खयहेऊ" इति गाथायाम् इति / 'फले' इति मूलस्य 'फलरूपे धात्वर्थे' इति विवरणम् / सा च निरुक्तचिन्ता पुनः, अस्य 'साक्षिणी इत्यनेनान्वयः। धर्मपदार्थसिद्धि. साक्षिणी सिद्धिगतावात्मानं धारयतीति व्युत्पत्त्या धर्मपदार्थः सिद्धिस्तस्यां साक्षिणी / तदनन्तरं शैलेश्यन्त्यक्षणानन्तरम् / 'सिद्धिसाधारणरूपा' इति स्थाने 'सिद्धिधारणरूपा' इति पाठः सम्यम्, धारयति धर्म इति, सिद्धिं धारयतीति व्युत्पत्तिपर्यवसायिनी चिन्ता / फलाम्यवधानात सिद्धिरूपफलन सह व्यवधानाभावात् , शैलेश्यन्त्यक्षणानन्तरं सिबिरूपफलं