________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः / 209 नयामृत-आत्मत्वमिति / आत्मत्वमेव जीवपदप्रवृत्तिनिमित्तम् , पारिणामिकभावस्य काल. त्रयानुगत्वेन सत्यत्वात् , औदयिकभावस्य चौपाधिकत्वेन कालत्रयाननुगतत्वेन च तुच्छत्वात्, इति अयं सर्वसङ्ग्रहनयः सिद्धसाधारण्यं भवस्थतौल्यं निरस्य जीवत्वसाधने न प्रतिभूः, सर्वत्र तुल्यजीवत्वात्, एवम् ‘एको व्यवहारतो जीवोऽन्यश्च निश्चय[तः] ' इति विभागकरणमसमीक्षिताभिधानमेवापद्येत, सर्वसङ्ग्रह एव हि कर्मोपाधिनिरपेक्षशुद्धद्रव्यार्थिका, तेन च संसारिचैतन्यमपि निरुपरागं शुद्धमिति परेणेष्यत एव, तदुक्तं द्रव्यसङ्ग्रहे"मग्गण-गुणठाणेहि य चउदस य हवंति तह असुद्धगया / विण्णेया संसारी सव्वे सुद्धा उ सुद्धणया॥१३॥” इति ___ न च संसारिचैतन्यस्य सङ्ग्रहनयेन शक्त्या शुद्धचैतन्यनिश्चयेऽपि व्यक्त्या शुद्धचैतन्यस्य सिद्ध एव निश्चयान्न साधारण्यमिति शङ्कनीयम् , सङ्ग्रहस्य शक्तिग्राहकत्वेन व्यक्तिप्राहकताया व्यवहार एव विश्रान्तः, निश्चयतो द्विचेतनाशाली सिद्ध एव जीव इत्यस्य व्याघातात् // 49 // - एकोनपञ्चाशत्तमपद्यमवतारयति-नन्विति। तेन पर्यायार्थिकनयेषु शुद्धनिश्चयात्मकेनैवम्भूतनयेन। अस्मदुक्तानपपत्तावपि 'सिद्धो निश्चयतो जीवः' इति दिगम्बरोक्तस्यानुपपत्तावपि / तदुपपादयिष्यामः 'सिद्धो निश्चयतो जीवः इति दिगम्बरोक्तमुफ्पादयिष्यामः, द्रव्यार्थिकेषु शुद्धनिश्चयात्मकेन सङ्ग्रहेण सिद्धो जीव इत्युपपद्यत एवेत्यर्थः। "आत्मत्वमेव" इत्येकोनपञ्चाशत्तमपद्यं विवृणोति- आत्मत्वमितीति / 'जीवत्वम्' इति मूलस्य 'जीवपदप्रवृत्तिनिमित्तम्' इति विवरणम् / कथमात्मत्वमेव जीवपदप्रवृत्तिनिमित्तं न तु प्राणधारणलक्षणं जीवनं यज्जीवपदव्युत्पत्तिनिमित्तमित्यपेक्षायामाह-पारिणामिकमावस्येति- आत्मत्वं जीवस्य पारिणामिको भावस्तस्य कालत्रयेऽप्यात्मनि सत्वेन सत्यत्वात् , प्राणधारणलक्षणं जीवनं च जीवस्यौदयिको भावस्तस्यायुष्कर्मलक्षणोपाधिप्रभवस्यौपाधिकत्वेन यदैवायुकर्मात्मनि सम्बद्धं तदैव तस्यात्मनि सत्त्वमिति कालत्रयाननुगतत्वेन तुच्छत्वादित्यस्मात् कारणादात्मत्वमेव सत्यतया जीवपदप्रवृत्तिनिमित्तं तुच्छत्वाच न जीवनं जीवपदप्रवृत्तिनिमित्तमित्यभ्युपगन्ता सर्वसङ्ग्रहनयः सिद्धसाधारण्यं निरस्य जीवत्वे न प्रतिभूः। 'सिद्धसाधारण्यम्' इत्यस्य विवरणम्-भवस्थतौल्यमिति / 'जीवत्व' इत्यस्य विवरणम्- 'जीवत्वसाधने' इति / प्रतिभूरित्यस्य साक्षीत्यर्थः। कथं न प्रतिभूरित्यपेक्षायामाह-सर्वत्रेति-जीवपदप्रवृत्तिनिमित्तमात्मत्वं यथा सिद्धे वर्तते तथा भवस्थेऽपि तेन सिद्धे जीवत्वसाधने भवस्थेऽपि जीवत्वं सिद्धयत्येव, तथा च सिद्ध एव निश्चयतो जीव इति न स्यात् , आत्मत्वं यदि सिद्ध एव वर्तेत न तु भवस्थे तदा स्यात् तेन सिद्धमात्रवर्तिना सिद्धस्यैव जोवत्वसाधनं सर्वसमहतः, न चैवमित्यर्थः / आत्म. स्वस्य जीवपदप्रवृत्तिनिमित्ततया सर्वसङ्ग्रहनयाभिमतस्य सिद्धे संसारिणि च सत्त्वेन ततो जीवपदव्यपदेश्यत्वमात्ममात्र एवेति निश्चयत एव सर्वे आत्मानो जीवा इति व्यवहारनिश्चयाभ्यां जीवविभागकरणमपि दिगम्बरस्यासमीक्षिताभिधानमेव स्यादित्याह-एवमिति। निश्चयनये यदि संसारिणां जीवपदव्यपदेश्यत्वं नोपपद्येत तदा व्यवहारतस्तेषां जीवपदव्यपदेश्यत्वो. पपत्तये विभागकरणमुपपद्येत, न चैवम् , दिगम्बराभिमतेन सर्वसङ्ग्रहलक्षणनिश्चयनयेनैव सर्वेषां जीवपदव्यपदेश्यत्वोपपत्तेरि• स्याह-सर्वसह एव हीति / तेन च सर्वसङ्ग्रहेण च / निरूपराग कर्मोपाधिरूपोपरागमुक्तम् , यद्यपि संसारी कर्ममलदिग्ध एव व्यवहारतः, तथापि शुद्धद्रव्यप्राहिसर्वसमहतः सोऽपि वस्तुगत्या कर्ममलविमुक्त एवेत्याशयः। उक्तार्थे द्रव्यसमहवचनसंवादमाह-तदुक्कमिति / मग्गण० इति-"मार्गणा-गुणस्थानश्च चतुर्दशभिश्च भवन्ति तथा अशुद्धनयात् / विशेयाः संसारिणः सर्वे शुद्धास्तु शुद्धनयात्" / / इति संस्कृतम् / नच' इत्यस्य 'शकुनीयम्' इत्यनेनान्वयः, संसारिचैतन्यमपि संसारदशायां कर्मावृततयोपलभ्यत इति व्यक्त्याऽशुद्धं कर्ममलापगमे शुदं तद्भविष्यतीति शक्त्या समहस्वरूपनिश्चयनयेन शुद्धचैतन्यत्वं निश्चीयते, सिद्धे तु व्यक्त्या शुद्धचैतन्यस्य निश्चयाद् व्यक्त्या शुद्धचैतन्यरूपत्वस्यात्मत्वस्य जीवपदप्रवृत्तिनिमित्तस्य न सिद्धसंसारिसाधारण्यमिति शङ्कितुर्दिगम्बरानुयायिनोऽभिसन्धिः। निषेधहेतुमुपदर्शयति-संग्रहस्येतिशक्तिरूपेण शुद्ध चैतन्यं सर्वदाऽवतिष्ठत इति शक्तिईव्यम्, व्यक्तिस्तु न त्रिकालानुगामिनीति पर्यायरूपाऽशुद्धद्रव्यरूपा वा