________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / 207 'अ मा नो ना प्रतिषेधे' इत्यनुशासनतौल्येऽपि संसर्गाभावोऽन्योन्याभावश्च नमोऽर्थः, नोशब्दस्य त्वभाव एकदेशो वा, तत्र चान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वं तदेकदेशत्वादि व्युत्पत्तिबललभ्यमिति सिद्धान्तपरिभाषेति निगर्वः // 44 // उक्त मतं कियतां नयनामित्याह नैगमो देशसङ्ग्राही, व्यवहारर्जुसूत्रको / शब्दः समभिरूढ-श्चेत्येवमेते प्रचक्षते // 45 // नयामृत-नैगम इति / नैगमो- नैगमनयः, देशसङ्ग्राही- अवान्तरसङ्ग्रहः, सर्वसङ्ग्रहस्य सन्मात्रार्थत्वात् तत्त्यागः, व्यवहारर्जुसूत्रकौ- व्यवहारनय ऋजुसूत्रनयश्च, शब्दः समभिरूढश्चेत्येते नया एवं प्रचक्षते // 45 // भावमौदयिकं गृह्णन् , एवम्भूतो भवस्थितम् / .जीवं प्रवक्त्यजीवं तु, सिद्धं वा पुद्गलादिकम् // 46 // नयामृत-भावमिति / एवम्भूतनयस्तु औदयिकं भावं व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्ततया गृहन् , भवस्थितं-संसारिणं जीवम् , प्रवक्ति- जीवशब्देन व्यपदिशति, अजीवम्- अजीवपदार्थ तु सिद्धं वा पुद्गलादि द्रव्यं वेच्छत्यसौ // 46 // चतुर्णामपि अमानोनाशब्दानामविशेषेण सामान्यतः प्रतिषेधार्थकत्वमनुशास्तीत्येवं निरुक्तानुशासनस्याविशिष्टत्वेऽपीत्यर्थः / नमोऽर्थः अजीवशब्दसन्निविष्टनकारस्थानीयाकारस्यार्थः / ‘नोशब्दस्य' अजीवशब्दाव्यवहितपूर्ववर्तिनो नोशब्दस्य / तत्र च नोशब्दार्थे अभावे एकदेशे च / अन्वयितेति- यदा अभावो नोशब्दार्थस्तदा अन्वयितावच्छेदकं यजीवत्वावच्छिन्नप्रतियोगिताकभेदरूपमजीवत्वं तदवच्छिन्नप्रतियोगिताकत्वमभावे व्युत्पत्तिविशेषबललभ्यम् , यदा तु नोशब्दस्यकदेशोऽर्थस्तदाऽन्वयितावच्छेदकं यनिरुक्तमजीवत्वं तदवच्छिन्नैकदेशत्वं तदवच्छिन्न प्रदेशत्वं वा व्युत्पत्तिविशेषबललभ्यमिति जैनसिद्धान्तसंकेत इति तदभिज्ञस्य नोअजीवपदव्यपदेश्य उक्तदिशा जीवो वा अजीवदेशो वा अजीवप्रदेशो वा सम्भवतीति भावार्थ इत्यर्थः // 44 // पञ्चचत्वारिंशत्तमपद्यमवतारयति-उक्त मतमिति- 'जीवः' इत्याकारिते पञ्चस्वपि गतिषु औदयिकादिभावपञ्चकलक्षितो जीवो जीवपदव्यपदेश्यः प्रतीयते, अजीवपदाच्च पुदलप्रमृत्यजीवद्रव्यं प्रतीयते, नोजीवपदादजीवो जीवदेशो जीवप्रदेशो वा प्रतीयते, नोअजीवपदाच्च जीवो अजीवदेशोऽजीवप्रदेशो वा प्रतीयत इत्येवमुपदर्शितमतं कियतां नयानामित्याकालानिवृत्तये वक्तीत्यर्थः। "नैगमो देशसमाही" इति पञ्चचत्वारिंशत्तमपद्यं विवृणोति-नगम इतीति / अवान्तरसङ्गहः महासामान्यसत्ताव्याप्यद्रव्यत्वादिरूपेण सकलद्रव्यादीनामैक्याभ्युपगन्ताऽपरसङ्ग्रहः / सदेवैकमिति महासामान्यसत्तारूपेण सर्ववस्तूनामैक्ययमेवेत्यभ्युपगन्तृपरसङ्घहस्तु सन्मात्रग्राहित्वात् प्रत्येकं जीवाजीवादि वस्तु तदर्थकजीवाऽजीवादिशब्दं च नाङ्गीकरोती. स्यतस्तत्परित्याग इत्याह- सर्वसङ्ग्रहस्येति / तत्यागः सर्वसमहत्यागः / अन्यत् स्पष्टम् // 45 // एवम्भूतनयवक्तव्यप्रतिपादकं षट्चत्वारिंशत्तमं "भावमौदयिकं गृहन्" इति पद्यं विवृणोति-भावमितीति / असो एवम्भूतनयः / अन्यत् सुगमम् // 46 //