________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / तिर्यगू-नराऽ मर-सिद्धिगतिलक्षणासु, हि-निश्चितम् , पञ्चभिर्भावैः- औदयिक-क्षायिक-क्षायोपशमिकोपशमिक-पारिणामिकलक्षणैः, जीव इष्टः, व्युत्पत्तिनिमित्तजीवनलक्षणोदयिकभावोपलक्षितात्मत्वरूपपारि. णामिकभावविशिष्टस्य जीवस्य भावपञ्चकात्मनो जीवपदार्थत्वात् , न चात्मत्वप्रवृत्तिनिमित्तोपादानेनैवानतिप्रसङ्गे किं व्युत्पत्तिनिमित्तोपलक्षणप्रहणेन ? इति वाच्यम् , संभवति तदुपलक्षकभावे तत्त्यागस्यान्याय्यत्वात् , अन्यथा मण्डपा-ऽश्वकर्णादिपदतुल्यताप्रसङ्गादिति दिक् // 41 / / ननि सर्वनिषेधार्थे पर्युदासे च संश्रिते / पुद्गलप्रभृति द्रव्यमजीव इति संज्ञितम् // 42 // नयामृत-ननीति / सर्वनिषेधार्थे- जीवत्वावच्छिन्नान्योन्याभाववदर्थे, नबि- विवक्षिते, विचारविषयीकृते' इति / 'सिद्धान्तिना' इत्यस्य 'इष्टः' इत्यनेनान्वयः / गतिमार्गणायां कस्यां गतौ केन भावेनालिङ्गितो जीव इष्ट इत्यन्वेषणायाम् / व्युत्पत्तीति-जीवपदव्युत्पत्तिनिमित्तो यो जीवनलक्षण:-प्राणधारणस्वरूप औदयिकभावस्तेनोपलक्षित:-प्रतियोगिव्यधिकरणतदभावासमानाधिकरणो यदा कदाचित्तेन सममेकाधिकरणवृत्तिर्य आत्मत्वरूपपारिणामिकमावस्तद्विशिष्टस्येत्यर्थः / भावपञ्चकात्मनः अनन्तरोपदर्शितौदयिकादिभावपञ्चकस्वरूपस्य, जैनराद्धान्ते धर्मधर्मिणोः कथश्चित्तादात्म्यमिति भावपञ्चकात्मकत्वं जीवस्य युज्यते, 'नच' इत्यस्य 'वाच्यम्' इत्यननान्वयः / आत्मत्वेति- आत्मत्वं यजोवपदस्य प्रवृत्तिनिमित्तं तदुपादाननैव-तद्ब्रहणेनैव, अर्थादात्मत्वविशिष्टो जीवपदार्थ इत्युक्त्यैव / अनतिप्रसले आत्मभिन्न घट-पटादिपदार्थ जीवपदार्थत्वप्रसङ्गाभावे / 'किम्' इति काकूक्तेर्न किञ्चिद् व्युत्पत्तिनिमित्तोपलक्षणग्रहणेनेत्यर्थो लभ्यते, व्युत्पत्तिनिमित्तं यजीवपदस्य जीवनं तदात्मकोपलक्षणग्रहणेन न किञ्चित् प्रयोजनमित्यर्थः। निषेधे हेतुमाह-संभवतीति. जीवनलक्षणं यदात्मत्वस्योपलक्षकं-ज्ञापकं तद्भावे संभवति सति, जीवनस्यात्मत्वोपलक्षकत्वे सम्भवतीति यावत् , जीवपदार्थस्वरूपव्यावर्णने तत्यागस्य जीवनलक्षणव्युत्पत्तिनिमित्तत्यागस्य। अन्याय्यात्वात् न्यायापेतत्वात्, यत्रार्थे व्युत्पत्तिनिमित्तधर्मो न घटते तत्र बाधात् तत्परित्यागस्य न्यायादनपेतत्वेऽपि जीवपदार्थे आत्मनि प्राणधारणस्वरूपजीवनस्य घटमान त्वात् तत्त्यागोऽनुचित इत्याशयः। अन्यथा व्युत्पत्तिनिमित्तस्य प्रवृत्तिनिमित्तोपलक्षकभावे सम्भवत्यपि तत्परित्यागेन प्रवृ. * 'तिनिमित्तविशिष्टस्यैव पदार्थत्वाभ्युपगमे। मण्डपेति-मण्डपे-गृहविशेष मण्डपानकर्तृत्वस्य बाधात् तत्परित्यागेन गेहत्व. व्याप्यमण्डपत्वविशिष्टस्य वाचकं यन्मण्डपपदम् , यच्चाश्वस्य पशुविशेषस्य कर्णोऽश्वकर्ण इति व्युत्पत्तिनिमित्तमश्वसम्बन्धि कर्णत्वं तस्यौषधिविशेषे बाधात् तत्परित्यागेनौषधित्वव्याप्याऽश्वकर्णत्वविशिष्टस्य वाचकं यदश्वकर्णपदम् , तदादितुल्यत्वस्य जीवपदे प्रसङ्गादित्यर्थः / एतेनात्मा पञ्चस्वपि गतिषु वर्तमानो जीवपदार्थ इति भावितम् // 11 // अजीवपदार्थः क इत्यत्रोत्तरप्रतिपादक "नञि सर्वनिषेधार्थ" इति द्विचत्वारिंशत्तमपद्यं विवृणोति-नप्रीतीति / 'सर्वनिषेधार्थ इति मूलस्य विवरणम्-'जीवत्वावच्छिन्नान्योन्याभाववदर्थे' इति / नजि जोवो नेत्यजीव इति समस्तेऽजीवशब्दे अकारस्य नस्थानीयत्वेन तेन नम्पदमुपस्थाप्यते, तस्मिन् नचदे, यदि नज एव जीवत्वावच्छिन्नप्रतियोगिताकमेदवानयस्तदा जीवपदमनर्थकं प्रसज्यत इति न शङ्कनीयम् , यतो नजोऽन्योऽन्याभाव एवार्थः अन्योऽन्याभाव. वति तु तस्य लक्षणव, तदैकदेशेऽन्योऽन्याभावे जीवत्वविशिष्टस्य जीवपदार्थस्य प्रतियोगितासम्बन्धनान्वये जीवत्वस्यापि स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वय इति तद्बलादेव जीवत्वावच्छिन्नप्रतियोगिताकभेदवानित्यर्थः, अथवा नओ लक्ष. णाया आवश्यकत्वे जीवत्वावाच्छिन्नप्रतियोगिताकभेदवत्येव तस्य लक्षणा, उक्तार्थे नअपदस्य तात्पर्यग्राहकत्वाच्च जीवपदं सायकर्मिति / 'नमि' इत्यस्य 'संश्रिते' इत्यनेनान्वयं प्रतिसन्धाय 'विवक्षिते' इत्युक्तम् / 'पर्युदासे' इति मूलस्य विवरणम्-'साहश्ये' इति, 'पर सः सदृग्ग्राही इति वचनात् / तत्र जीवत्वावच्छिन्नप्रतियोगिताकान्योन्याभाववति / 'समित' इति मूलस्य विवरणम् - 'तात्पर्यविषयीकृते' इति, 'पुद्गलप्रभृति' इत्यस्य विवरणम्-पुद्गलादिकमिति, पदेनेति पूरणम् / सादृश्यार्यकस्य पर्युदासनत्रः कथमाश्रयणमित्यपेक्षायामाह-पर्युदासानाश्रयणे विति-भेदप्राहिनयेन द्रव्येण सहगुष-पर्याययोमेंद इष्यते, अभेदप्राहिनयेन द्रव्येण सह गुण-पर्याययोरभेद इष्यते, इति नयद्वययोजनया स्या