________________ 204 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः। तदेवं नयमतस्य विचित्रत्वात् प्रसिद्धधात्वर्थपुरस्कारेणैवम्भूतनयप्रवृत्तिरिति व्यवस्थापितम् , एवं च सति यत् सिद्धं तदाह सिद्धो न तन्मते जीवः, प्रोक्तः सत्त्वादिसंइयपि / महाभाष्ये च तत्वार्थभाष्ये धात्वर्थबाधतः // 4 // नयामृत-सिद्ध इति / तन्मते- एवम्भूतनयमते, सत्त्वादिसंज्यपि- 'सत्तायोगात् सत्त्वः, अतति स्वान् पर्यायानित्यात्मा' इत्यादिसंज्ञाधार्यपि, सिद्धो महाभाष्ये- विशेषावश्यके, तत्त्वार्थभाष्ये च, धात्वर्थबाधतो- 'जीव प्राणधारणे' इति धात्वर्थानन्वयाज्जीवो न प्रोक्तः, तथा च विशेषावश्यकवचनम्- " एवं जीवं जीवो संसारी पाणधारणानुभवो। सिद्धो पुणो अजीवो जीवणपरिणामरहिउ ति" [विशेषावश्यकभाष्यगाथा-२२५६ ] // 40 // एतदेव तत्त्वार्थवचनमनूध व्यवस्थापयति जीवोऽजीवश्च नोजीवो, नोअजीव इतीहिते / जीवः पञ्चस्वपि गतिविष्टो भावैर्हि पञ्चभिः॥४१॥ नयामृत-जीव इति / जीवोऽजीवो नोजीवो नोअजीवश्चेति चतुर्भिः समैः पदैः कोऽर्थः प्रतिपाद्य इति ईहिते- प्रश्नयोग्यविचारविषयीकृते, सिद्धान्तिना गतिमार्गणायां पश्चस्वपि गतिषु-नारक रूढिज्ञानस्य योगार्थभानप्रतिबन्धकत्वमिति मीमांसकमतमपि न युक्तम् , तथा सति पङ्कजपदजन्यशाब्दबोधे नियमतः पङ्कजनिकर्तृरूपयोगार्थस्य भानं न स्यात् , 'स्याद् यौगिक एव शब्दः, स्याद्रूढ एव शब्दः' इत्यादिसप्तमीलक्षण. स्याद्वादजन्यशाब्दबोधे तु कथविद्योगार्थ कथञ्चिद्रव्यर्थयोरुभयोरपि भानस्यानुभवसिद्धत्वादित्याह- एतेनेति- स्याद्वादमहाराजस्य नयद्वययुद्धवारणसमर्थत्वेनेत्यर्थः, अस्य 'निरस्तः' इत्यनेनान्वयः / उपसंहरति-इतीति- एवंप्रकारेणेत्यर्थः, नययोजनयैव स्यात्पदलाञ्छितनयवाक्यघटितसप्तभङ्गीप्रवृत्तिलक्षणनययोजनयैव // 39 // चत्वारिंशत्तमपद्यमवतारयति-तदेवमिति। 'प्रसिद्धधात्वर्थपुरस्कारेणैवम्भूत' इलि स्याने 'प्रसिद्धधात्वर्थपुरस्कारेणैवैवम्भूत' इति पाठो युक्तः, व्यवस्थापितमित्यन्तोक्तिः पूर्वपद्येन सहोत्तरपद्यस्य सङ्गतिप्रदर्शनार्था / एवं च सति प्रसिद्धधात्वर्थपुरस्कारेणैवैवम्भूतनयप्रवृत्तिरित्यस्य व्यवस्थापने च सति / “सिद्धो न तन्मते जीवः" इति चत्वारिंशत्तमपद्यं विवृणोति-सिद्ध इतीति- सत्त्वादिसंश्यपि सिद्धो धात्वर्थबाधतस्तन्मते न जीव इति महाभाष्ये तत्त्वार्थभाष्ये चोक्त इत्यन्वयः / 'तन्मते' इत्यस्य 'एवम्भूतनयमते' इति विवरणम् , एवमग्रेऽपि मूलमुल्लिख्य विवृतम् / सत्त्वसंज्ञाधारी कथं सिद्ध इत्याकाङ्क्षानिवृत्तये उक्तम्- सत्तायोगादिति / 'सत्त्वादि' इत्यादिपदग्राह्यात्मसंज्ञाधारित्वप्रतिपत्तये अततीत्यादि तद्युत्पत्त्युपदर्शनम् , 'अतति स्वान् पर्यायान्' इत्यस्य स्थाने 'अतति ताँस्तान् पर्यायान् ' इति पाठः सम्यग् , ताँस्तान् पर्यायानित्यस्य प्रसिद्धान् ज्ञान-दर्शन-सुखादिपर्यायानित्यर्थः, अततीत्यस्य गच्छतीत्यर्थः / सिद्धो जीवो न प्रोक्तः कुत्रेत्यपेक्षायामाह-महाभाष्य इति / तस्य विवरणम्-विशेषावश्यक इति / 'धात्वर्थबाधतः' इत्यस्य विवरणम्- “जीव प्राणधारणे" इति धात्वर्थानन्वयादिति / विशेषावश्यकवचनमुल्लिखति-एवमिति- "एवं जीवन् जीवः संसारी प्राणधारणानुभवः / सिद्धः पुनर्न जीवो जीवनपरिणामरहित इति" इति संस्कृतम् // 40 // - एकचत्वारिंशत्तमपद्यमवतारयति-पतदेवेति- जीवनपरिणामरहितत्वात् सिद्धस्याजीवत्वमेवेत्यर्थः, अस्य व्यवस्थापयति' इत्यनेनान्वथः / "जीवोऽजीवश्चेति" इति पद्यं विवृणोति-जीव इतीति / 'ईहिते' इत्यस्य विवरणम्-'प्रश्नयोग्य hammar