________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। 201 स्मरणं जन्यते, तत्रासत्तिवशेन * विशेष्ये विशेषणम्' इति रीत्या पङ्कजनिकर्तृत्व-पद्मत्वविशिष्टानयनस्यैकदैवान्वयबोधः, यद्वा पङ्क-जनि-कर्तृत्वादीनां प्रत्येकपदोपस्थितानां प्रथमस्तावदन्वयबोधस्तदनन्तरं तेन समं पद्मत्वस्यानन्तरमानयनान्वय इत्यागृह्यम् ; न चैकस्य पङ्कजपदस्य पद-वाक्यभावविरोधः, समु. दायापेक्षया पदत्वम् , अवयवापेक्षया च वाक्यत्वमित्येवमविरोधात् ; न च गवादिपदेऽपि योगरूढेः(दिः), 'डो' प्रत्यये शक्यवधारकाभावानियतैकप्रकृतिकत्वेनावापोद्वापकल्पनासम्भवात् , अनुशासनं तु रेखा. गवयेन सत्यगवयज्ञानवत् साधुत्वाद् व्याख्यानमात्रपरम् ; न च धेन्वादिपदेऽप्येवं स्यात् , जानु-दानु पद्मद्वयविषयकम् / भवतु मिलितविषयकमेकं स्मरणं योगरूढिप्रतिसन्धानलक्षणसहकारिसहकृतात् पङ्कजपदादेवमपि कथमेक. दैव पकजनिकर्तृत्वविशिष्टपद्मान्वयबोध इत्यपेक्षायामाह-तत्रेति-मिलितगोचरैकस्मरणे सतीत्यर्थः / आसत्तिवशेन पङ्कजेत्येकपदोपस्थाप्यत्वलक्षणासत्तिबलेन / विशेष्य इति-विशेष्ये आनयने कर्मताद्वारा पद्मस्य तत्र कर्तुस्तत्र जनस्तत्र पकजस्यान्वय इत्येवं 'विशेष्ये विशेषणं तत्रापि विशेषणान्तरम्' इति रीत्या पङ्कजनिकर्तत्वविशिष्टपद्मत्वविशिष्टानयनस्यैकदैवान्वयबोधः सम्भवति, यतो विशिष्टवैशिष्ट्यबोध एव विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वम्, प्रकृतान्वय. बोधोऽपि यदि विशिष्टवैशिष्ट्यावगाहिबोधः स्यात् तदा विशेषणतावच्छेदकप्रकारकनिश्चयस्य तत्र कारणत्वं भवेदिति पङ्कजनिकर्तत्वविशिष्टपद्मत्वलक्षणविशेषणतावच्छेदकप्रकारकनिश्चयो निरुक्तपद्मत्वप्रकारकस्मरणरूप इति निरुक्तपद्मत्वविशिष्टे पङ्कजपदसकेतप्रतिसन्धानाभावान्निरुक्तपद्मत्वप्रकारकस्मरणाभावे निरुक्तशाब्दबोधो न भवेदपि, 'विशेष्ये विशेषणम्' इति रीत्या निरुक्तबोधाभ्युपगमे तु स बोध उपलक्षितवैशिष्ट्यावगाह्येव, तत्र च न विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वं किन्तु विशिष्टबुद्धिरूपं तं प्रति विशेषणज्ञानमेव कारणम् , मिलितगोचरमेकं स्मरणं च विशेषणज्ञानं भवत्येवेति तत उक्तरीत्याऽन्वयबोधः स्यादेवेत्यर्थः। अथवा पङ्कजपदसन्निविष्टानामुपपद-धातु-प्रत्ययपदानां प्रत्येकशक्त्योपस्थितानां पङ्क-जनिकर्तत्वानां प्रथमं पङ्कजनिकर्तेत्येवमन्वयबोधस्तदनन्तरं समुदायशक्त्योपस्थितेन पद्मत्वविशिष्टेन समं पङ्कजनिकर्तुरभेदेनान्वयबोधस्तदनन्तरं पङ्कजनिकर्तृत्वविशिष्टपद्मस्य कर्मत्वरूपद्वितीयार्थद्वाराऽऽनयनान्वयबोध इत्येवमभ्युपगमेऽपि न किश्चिदनुपपन्नमित्याह-यद्वेति / तेन समं पङ्कजनिकर्तत्वविशिष्टेन समम्। 'पद्मत्वस्य' इत्यनन्तरम् 'अन्वयबोध' इत्यस्यानुकर्षेण सम्बन्धः / 'आनयनान्वयः' इत्यस्य पद्मत्वविशिष्टस्य कर्मत्वद्वाराऽऽनयनेन सममन्वयबोध इत्यर्थः। नन्वेकस्यैव पङ्कजपदस्योपपद-धातु-प्रत्ययैः प्रत्येकं स्वस्वशक्त्युपस्थितार्थानामन्वयबोधजनकत्वेन वाक्यत्वं समुदायशक्त्या च पद्मरूपै. कार्थोपस्थितिमात्रजनकत्वेन पदत्वमित्येवं पदत्व-वाक्यत्वयोरेकस्मिन् समावेशो विरोधान्न संभवतीत्याशय प्रतिक्षिपति न चेति / पदत्व-वाक्यत्वयोरेकापेक्षयैकत्रावृत्तित्वमेव विरोधो न त्वपेक्षाविनिर्मोकेणैकत्रावृत्तित्वम् , पकजयदे च समुदाया- पेक्षया पदत्वमवयवापेक्षया च वाक्यत्वमित्येकापेक्षयैकत्रावृत्तित्वलक्षणस्य विरोधस्यापेक्षाभेदेनैकत्र सत्त्वेऽपि न हानिरिति निषेधहेतुमुपदर्शयति-समुदायापेक्षयेति / ननु गोपदेऽपि गमिधातु-डोप्रत्ययाभ्यां गमनकर्तृत्वान्वयबोधकत्वस्य समुदायशक्त्या गोरूपार्थोपस्थितिजनकत्वस्य च सम्भवेन योगरूढिः स्यादित्याशय प्रतिक्षिपति-न चेति / निषेधे हेतुमाहडोप्रत्यय इति डोप्रत्ययस्य कर्तरि शक्तिरित्येवं निश्चयकारणं नास्ति, ‘गमे?' [पा० उणा. 225] इत्यनेन गमिधातुत एव डोप्रत्ययस्य विधानमिति नियतकप्रकृतिकत्वेन गोपदसाधुत्वार्थमेव डोप्रत्ययविधानम् , न तु डोप्रत्ययसद्भावे गमनकर्तरूपार्थप्रत्ययभावः, डोप्रत्ययभावे गमनकर्तृरूपार्थप्रत्ययाभाव इत्येवमन्वय-व्यतिरेकलक्षणावापोद्वापकल्पनायाः शक्तिपाहिकाया अभावात् , यतः पदे गमिधातु स्ति, अथ च डोप्रत्यय इत्येवं गमिधातोरभावे डोप्रत्ययसद्भावे गमनातिरिकार्यकर्तत्वाव. बोधस्यादर्शनेन डोप्रत्यये कर्तृत्वे शक्त्यवधारणासम्भवादित्यर्थः / यदि डोप्रत्ययस्य न कर्तृत्वरूपार्थे शक्तिः, तर्हि किमर्थ गमिधातुतो डोप्रत्ययविधानमित्यपेक्षायामाह-अनुशासनं त्विति-गवयानभिज्ञस्य सत्यगवयस्वरूपावगतये यथा गवथाकृति रेखया दर्शयति ततो रेखागवयेन सत्यगवयस्वरूपमवगच्छति पुरुषस्तथा गमिधातुतो डोप्रत्ययविधानतो गोपदसाधुत्वमात्रा. .वगतिर्भवति, तदर्थमेव तु "गमे?" इति गौरिति व्याख्यानमात्रम्, अर्थाद् धातुप्रत्ययार्थसमाश्रयणेन गौरित्यस्य गच्छतीति गौरिति व्याख्यानमात्रपरं प्रकृतिप्रत्ययविभागसमाश्रयणम्, न तु वस्तुगत्या गमनकर्तेति गोपदात् प्रतीयते, मित्येकापेक्षया राघो न त्वीमावेशो विरो