________________ 200 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / कार्य जनयेताम् ? न द्वितीयः-उपपद-धातु-प्रत्ययप्रत्येक सङ्केतप्रतिसन्धानजस्मरणानि(नां) समुदायार्थस्मृतिकालेऽसत्त्वादुत्तरोत्तरेण पूर्वपूर्वनाशात्, न च प्रत्येकस्मरणजन्यसंस्कारसमुदायात् पक-जनिकर्तृत्वपद्मत्वानामेकमेव समूहालम्बनं स्मरणं कार्यदर्शनात् कल्प्यत इत्यपि युक्तम् , एवमपि हि पङ्कन-निकर्तृपमानयनान्वयः प्रत्येकं स्यात्, न तु विशिष्टवैशिष्ट्येन; किञ्च, द्वयेनान्वये वाक्यभेदप्रसङ्गः कथकारं वारणीयः ? कथं वा न गवादिपदेऽपि योगरूढिः ? को हि " गमे?" [पा० उणा० 225 ] " सप्तम्यां जनेर्डः" [पा० 3. 2. 97.] इत्यनयोर्विशेषः ? अनुशासनावधृतविभागप्रकृति-प्रत्ययशक्ति.. मिरुभयत्र योगरूढेरेव सम्भवादिति, उ(अत्रो)च्यते-' पङ्कजमानय ' इति वाक्यात् पङ्कजनिकर्तारं पञ समानयेति प्रतीतेः पङ्कजपदेन प्रत्येक-समुदायशक्तिप्रतिसन्धानसहकारिवशाद् मिलितगोचरमेकमेव पदरूपमेव, न तु वाक्यरूपमतः पङ्कजपदात् पद्माणस्य स्मरणमेव, न त्वनुभव इति पद्मांशे स्मरणसामग्रो, न त्वनुभवसामग्रीत्यर्थः / ते च निरुक्तानुभवसामग्रीनिरुक्तस्मरणसामग्यौ च, अनुभवसामग्री अनुभवं जनयति, . स्मरणसामग्रो स्मरणं जनयति; अनुभवत्वस्मरणत्वयोश्च विरोधान्नैकं ज्ञानमनुभवस्मरणात्मकं संभवतीति निरुतसामाग्यौ मिलिते अपि नैकं कार्य कर्तुमर्हत इति कथमेकं ज्ञानं निरुक्तसामग्यौ जनयेतामित्यर्थः / पकजपदेन 'पल्कजनिकर्तृ पद्मम्' इत्याकारकं ज्ञानं स्मरणरूपमुपजायत इति द्वितीयपक्षोऽपि न समीचीन इत्याह-न द्वितीय इति। निषेधे हेतुमाहउपपदेति-पङ्कजशब्दे पङ्कपदमुपपदं तस्य कर्दमरूपार्थे सङ्केतः, जन्धातुस्तस्योत्पत्तौ सङ्केतः, डप्रत्ययस्तस्स कर्तरि सकेत इति निरुक्तपदवयसकैतप्रतिसन्धानानि ऋमिकाणि, तेभ्यो जायमानानि कर्दमादिरूगर्थस्मरणान्यपि ऋमिकाणि, तेषां , चैकदा पकजनिकर्तृपद्मात्मकसमुदायार्थस्मृतिकालेऽसत्त्वाजन्धात्वर्थोत्पत्तिस्मरणसमये जन्धातुसडकेतस्मरणेनोपपदपकार्थकर्दमस्मरणस्य डप्रत्ययार्थकर्तृस्मरणसमये डप्रत्ययसङ्केतप्रतिसन्धानेन धात्वर्थोत्पत्तिस्मरणस्य च विनाशान्न पङ्कजनिक - पद्मपसमुदायार्थस्मरणं संभवतीत्यर्थः / ननु उपपदादिप्रत्येकपदसकेतप्रतिसन्धानप्रभवक्रमिकस्मृतिभ्यः पङ्कजेत्यखण्डपदसमुदायसङ्केतप्रतिसन्धानप्रभवपद्मरूपार्थस्मृत्या च प्रत्येक क्रमिकाः स्वसमानविषयकाः संस्काराः समुत्पन्नास्तेषां च युगपत् सद्भावात् तत्समुदायनककालवतिना पङ्कजनिकर्तृपद्मरूपार्थस्मरणं समूहालम्बनं भविष्यतीत्याशक्रय प्रतिक्षिपति-न चेतिअस्य ‘युक्तम् ' इत्यनेनान्वयः / कार्यदर्शनादिति-यदि तत्तदर्थस्मरणप्रभवसंस्कारसमुदायो न भवेन्न पकजनिकर्तृपद्मानां समूहालम्बनात्मकस्मरणमुपलभ्येतेति तादृशसमूहालम्बनस्मरणरूपकार्यदर्शनादेवं कल्प्यत इत्यर्थः / भवतूक्तदिशा पक-जनिकर्तृ-पद्मत्वानां सम्हालम्बनस्मरणं तथाप्यानयनरूपपदार्थान्तरेण समं स्मृतानां तेषां प्रत्येकमेवान्वयः, यद्रूपेणैकपदार्थस्मरणं तपेणैव तस्यापरपदार्थेन सममन्वय इति नियमात् , पङ्कपदार्थस्य कर्दमस्य धात्वर्थजनने तस्य च प्रत्ययार्थकर्तरि तस्य च समुदायार्थपोऽन्वयतो नियमतो निष्पन्नस्य पछकजनिकर्तपद्मरूपार्थस्य विशिष्टस्यानयनरूपपदार्थान्तरेण सममन्वयः स्यात्, पङ्कजनिकर्तपद्मत्वेन रूपेण निरुक्तविशिष्टरूपार्थस्य पदादनुपस्थितेरिति निषेधहेतुमुपदर्शयति एवमपीति-निरुक्कसंस्कार समुदायान्निरुक्तार्थानां समूहालम्बनकस्मरणसम्भवेऽपीत्यर्थः / पकजपदस्यावयवशक्तिसमुदायशक्त्योरुपगमे दोषान्तरमुपदर्शयतिकिश्चेति / द्वयेनेति-पङ्कजमानय' इत्यत्रानयनरूपपदान्तरार्थस्य पङ्कजनिकर्तरूपावयवार्थेन पद्मरूपसमुदायार्थेन च सममन्वये द्वितीयाविभक्त्यर्थकर्मत्वं मध्ये सन्निवेश्य तद्वारा स्वीक्रियमाणे पङ्कजनि कर्मकानयनबोधः पद्मकर्मकानयनबोधश्च ततो भवेदिति साक्षात् परम्परया परस्परानन्वितविभिन्नार्थबोधकत्वलक्षणवाक्यभेदात्मकदोषोऽत्र भवन् कथङ्कारं चारणीयः ? न कथञ्चित् स वारयितुं शक्य इत्यर्थः / यथा च पकजपदेऽवयवशक्ति-समुदायशक्त्योः सद्भावाद् योगरूढिस्तथा गवादिपदेऽपि तयोः सद्भावाद् योगरूढिः किं न भवद्भिरुपेयते ? इत्याह -कथं वेति-गमनार्थकगमिधातो?प्रत्यये सति गौरिति पदं निष्पद्यते, तत्र गमिधातोर्गमनमर्थः, डोप्रत्ययस्य च कर्ताऽर्थः, तथा च गमनकर्ताऽवयवशक्त्याऽर्थः समुदायशक्त्या गोत्ववानर्थः, एवं च गमनकर्ता गौरिति गोशब्दार्थः, पङ्कजपदेऽपि पकपदार्थः कर्दमः, जनिधातोर्जननमर्थः, डप्रत्ययस्य कर्ताऽर्थः, समुदायशक्त्या च पदुममर्थ इति पङ्कजनिक पदममित्यर्थः पटक जपदस्य, इत्थं चानयोर्न कश्चिद विशेष इति गवादिपदं रूढमेव पकजादिपदं योगरूढमिति विभागकल्पना नयायिकानां दुष्कल्पनैवेत्साह-को हीति / अनयोः डोविधायक-डविधायकयोः / अत्र उक्ताशलकायाम्। उच्यते प्रतिविधानं कथ्यते / मिलितगोचरं पकजनिकर्तृ