________________ 202 मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / भानु-शब्दादावावापोद्वापक्रमेण तत्र शक्तिः कल्प्या, तद्वरं रूढिरेव, नहि धेन्वादिपदे योगरूढिरिति गौतमवचनमस्ति, येन योगत्यागेऽपसिद्धान्तः स्याद् " इति / __व्यवहारनयानुसारिणस्तु-" पङ्कजादिपदेऽपि रूढिरेव, व्युत्पत्तेः सर्वत्र साधुत्वार्थत्वात् , अत एवं योगत्यागेन स्थलपद्मे पङ्कजपदस्य(प्रयोगः)" इत्याहुः।। वयं तु ब्रूमः-व्युत्पत्तिरहितत्वं रूढित्वम् , व्युत्पत्तिसहिष्णुत्वं यौगिकत्वम् , तदसहिष्णुत्वं च मिश्र. त्वम्, इति पदानां यौगिकादिविभागः पारिभाषिक एव, परमार्थतस्तु योग-रूढिनययोः स्वस्वजन्यः शाब्दबोधे मिथः प्रतिबन्धकत्वेन ' स्याद् यौगिक एव शब्दः, स्याद्रुढ एव' इत्यादिरीत्या सप्तभङ्गीप्रवृत्तिरेव युक्ता, नयद्वयजन्याकाङ्क्षयोः सप्तभङ्गयुत्थापकत्वस्य सर्वसिद्धत्वात् , अत एवावयव समुदाय शक्तिभ्यां बोधकत्वम् ; पङ्कजादिपदे योगरूढित्वमिति न्यायनयकान्तो न युक्तः, तन्नये नाम-धात्वोः सम्भूयाबोधकत्वेन तयोस्तात्पर्यप्राहकतायाः, 'ड'प्रत्ययस्यैव च पङ्कजनिकर्तरि लक्षणायाः स्वीकारात्, न लौकिक-परीक्षकाभ्यां गौरित्यनेन गोत्वविशिष्ट एवार्थः प्रतीतिगोचरीक्रियत इति / नन्वेवं धेन्वादिपदस्यापि गोत्वविशिष्ट एव रूढिः स्पान तु धानकर्मत्वविशिष्टे योगोऽपीत्याशकामिष्टापत्त्या परिहरति-न चेति / एवं स्यात् गवादिपदवढिरेव स्यान्न तु योगोऽपि / अत्रेष्टापत्तिरेव निषेधहेतुरित्याह-जान्विति-जान्वादिपदे नुशब्दसत्त्वेऽपि धेशब्दासत्त्वे धानकर्मत्वं न प्रतीयते, तत्रैव जादिस्थाने धेशब्दोपादाने धानकर्मत्वं प्रतीयते इत्यन्वय व्यतिरेकलक्षणावापोदापाभ्यां धानकर्मत्वविशिष्टे धेनुपदस्यावयवशक्तिः प्रकल्पनीया, तदपेक्षया गोत्वविशिष्टे समुदायशक्तिमात्रमेव तस्य वरमित्यर्थः, यथा च पकजादिपदं योगरूढमिति नैयायिकवृद्धानामनुशासनं नैवं धेन्वादिपदं योगरूढमित्यनुशासनं तेषां समस्ति यद्बलाद्योगरूढिरपि तस्याभ्युपेया. स्यादित्याह- नहीति / कस्यचिन्नव्यनैयायिकस्य धेन्वादिपदे योगरूढोक्तिर्न न्यायदर्शनसिद्धान्तो येन तस्य योगत्यागेडपसिद्धान्तो भवेत् , न्यायदर्शनप्रणेतुर्महर्षेौतमस्यैव वचनं न्यायसिद्धान्तः, न च धेन्वादिपदं योगारूढमिति गौतमवचनं समस्तीति योगपरित्यागेऽप्यपसिद्धान्तो नात्र पदं धत्ते इत्यावेदनाय 'गौतमवचनम्' इत्युक्तिः / ___पकजपदं योगरूढमित्यभ्युपगच्छतां नैगमनयानुसारिणां नैयायिकानां मतमुपदर्य पङ्कजादिपदं रूढमेवेत्यभ्युपगन्तॄणां व्यवहारनयानुसारिणां मतमुपदर्शयति-व्यवहारनयानुसारिणस्त्विति-अस्य 'आहुः' इत्यनेन सम्बन्धः / ननु पङ्कजपदे रूढेरेव भावे पकाबायत इति पङ्कजमिति व्युत्पत्तिरनर्थिका स्यादित्यत आह- व्युत्पत्तेरिति-यथा गच्छतीति गौरित्येवं गवादिपदव्युत्पत्तिरित्यादिपदस्य साधुत्वार्थिका न तु ततो गमनकर्ताद्यर्थः परिकल्प्यत एवं पङ्कजादिपदेऽपीत्यर्थः / अत एव 'पङ्काजायते इति व्युत्पत्तिः साधुत्वार्थिकैव, न त्ववयार्थबोधिकेत्यभ्युपगमादेव, अन्यत् सुगमम् / .. अत्र जैनानां सिद्धान्तं प्रन्थकृदावेदयति-वयं तु ब्रूम इति / 'तदसहिष्णुत्वं च 'इति स्थाने 'तत्सहिष्णुत्वे सति तदसहिष्णुत्वं च ' इति पाठो युकः / 'रूढित्वम्' इत्यत्र रूढत्वमिति पाठः सम्यग्। मिश्रत्वं योगरूढत्वम् , तथा च व्युत्पत्तिसहितत्वे सति व्युत्पत्तिरहितत्वं योगरूढत्वमित्यर्थः / इति एवंप्रकारेण / पारिभाषिक एव स्वेच्छाकल्पित एव / तर्हि कोऽत्र वास्तविक इत्यपेक्षायामाह-परमार्थतस्त्विति / योग-रूढिनययोः अवयवशक्त्यभ्युपगन्त-समुदायशक्त्यभ्युपगन्तुनययोः / स्वस्वेति-अवयवशक्त्यभ्युपगन्तनयस्य समुदायशक्तिमात्रजन्यशाब्दबोधे प्रतिबन्धकस्वेन समुदायशक्त्यभ्युपगन्तृनयस्यावयवशक्तिमात्रजन्यशाब्दबोधे प्रतिबन्धकत्वेन च यौगिक एव शब्दो रूढ एव च शब्द इत्येवमे. कान्तवचनप्रवृत्तिन सम्भवति, किन्तु स्याद् यौगिक एव शब्दः 1 स्याद्रूढ एव शब्दः 2 स्याद् यौगिक एव स्याढ एव च शब्दः 3 स्यादवक्तव्य एव शब्दः 4 स्याद् यौगिक एव स्यादवक्तव्य एव च शब्दः 5 स्यादूढ एव स्यादवक्तव्य एव च शब्दः 6 स्याद् यौगिक एव स्याद्रूढ एव स्यादवक्तव्य एव च शब्दः 7 इत्येवं सप्तभनीव वनप्रवृत्तिरेव युक्त्यर्थः / कथमित्थमत्र सप्तभङ्गोप्रवृत्तिरित्यपेक्षायामाह-नयद्वयेति-योगाभ्युपगन्तृनयरून्यभ्युपगन्तृनयद्वयेत्यर्थः / अत एव नयद्वयजन्याकाङ्क्षयोः सप्तभङ्गायुस्थापकत्वादेव / 'योगरूढित्वमिति' इति स्थाने 'योगरूढत्वमिति' इति पाठो