________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / पत्तिः, मुख्यार्थविशेषितस्यैव पनत्वस्य मानात् , तथा च वृत्तिद्वयविरोधस्य जागरूकत्वात् ' पर्ज कुमुदमानय 'इत्यत्र च पङ्कजपदे न लक्षणा, किन्तु पद्मत्वमुपस्थितमप्यन्वयायोग्यत्वाचालमित्यवयवार्थ एव परमन्वेतीति न किञ्चिदनुपपन्नम् , न च रूढ्या शीघ्रोपस्थितेन पद्मनावरुद्धतयोपस्थितस्य पङ्कजनिकर्तृत्वस्य कुमुदान्वये निराकासत्वात् स्वतन्त्रोपस्थितये लक्षणावश्यम्भावः, योगार्थस्य रूब्यर्थः विशेषणतायां तथाभावेऽपि विशेष्यतायां स्वातन्त्र्यानपायात् , अन्यथा 'इयेनेन यजेत' इत्यत्र बलवदलक्षणाप्रसङ्ग इति-पकजपदस्य पद्मत्वेन पर्दो समुदायशक्त्यभावेऽवयवशक्तिः पक्कजनिकर्तृरूपसामान्य एव, न तु पद्मत्वेन रूपेण पद्म इति पक्कजपदस्य पद्मत्वेन पदमे लक्षणाश्रयणादेव तथा बोध इति लक्षणाप्रसङ्ग इत्यर्थः / भवत पक्कजपदात् पद्मत्वेन रूपेण पद्मबोधो लक्षणया का नो हानिरिति लक्षणाप्रसङ्ग इष्टापादनत्वान दोषावह इत्या. शकां प्रतिक्षिपति-न'चेष्टापत्तिरिति / निषेधे हेतुमाह-मुख्यार्थविशेषितस्यैवेति-पकजपदस्यावयवशक्त्या प्रतिपाद्यत्वान्मुख्यो यः पङकजनिकर्तृत्वरूपोऽर्थस्तद्विशेषितस्य तत्सहितस्यैव पद्मत्वस्य पङ्कजपदजन्यबोधे भानादित्यर्थः / भवत्वेवं का क्षतिरित्यत आह-तथा चेति- पङ्कजपदजन्यबोधे पङ्कजनिकर्तृरूपमुख्यार्थविशेषितपद्मत्वरूपलक्ष्यार्थभाने चेत्यर्थः। वृत्तिद्वयेति- एक पदमेकदैकस्य प्रमातुः स्वशक्यार्थमात्रबोघं स्वलक्ष्यार्थमात्रबोधं वा जनयति, न तु स्वशक्यलक्ष्योभयार्थबोधमिति नियमेन वृत्तिद्वयविरोधस्य शक्तिलक्षणोभयवृत्तिग्रहसहकारेण शाब्दबोधाजनकत्वस्य / जागरूकत्वात् वादिकदम्बकाविप्रतिपत्त्या सद्भावात् / ननु पङ्कज कुमुदमानय' इत्यादौ पङ्कजपदशक्यार्थस्य पङ्कजनिकर्तृपद्मस्याभेदन कुमुदरूपार्थे नान्वयसम्भव इति तत्र पङ्कजपदलक्ष्यार्थस्यैव कुमुदेऽन्वय इति लक्षणाऽप्यावश्यकीति वृत्तिद्वयविरोधस्तवापि स्यादित्यत आह- 'पङ्कजं कुमुदमानय' इत्यत्र चेति- तत्र समुदायशक्त्योपस्थितस्यापि पद्मत्वस्य वाधात् कुमुदपदार्थे नान्वयः, किन्त्वयवशक्त्योपस्थितस्य पङ्कजनिकर्तुरेव तत्रान्वय इति पङ्कजपदं तत्रैकयैव शकिलक्षण. वृत्याऽर्थ बोधयतीति लक्षणाश्रयणाभावान वृत्तिद्वयविरोधस्यावकाश इत्यर्थः / ननु पङ्कजपदाद् यदैवावयवशक्त्या पङ्कजनिकर्तरुपस्थितिस्तदैव समुदायशक्त्या पद्मस्याप्युपस्थितिरिति समानकालीनोपस्थितिकत्वेन पद्म एवान्वेति पङ्कजनिकर्तृरूपोऽर्थ इति पद्मरूपार्थे विशेषणतयाऽन्वितस्य पङ्कजनिकर्तुनिराकाङ्क्षतया न कुमुदपदार्थेन सममन्वयः सम्भवतीति पद्माविशेषणतया स्वातन्त्र्येण पङ्कजनिक रुपस्थितये तत्र लक्षणाऽऽवश्यकीति वृत्तिद्वयविरोधः स्यादेवेत्याशङ्कय प्रतिक्षिपति-न चेति / सख्या समुदायशक्त्या, अवरुद्धतया एकत्र विशेषणत्वेनोपस्थितस्य नान्यत्र विशेषणतयाऽन्वय इति नियमात् पद्म विशेषणतयोपस्थितस्य पङ्कजनिकर्तुने कुमुदेऽन्वय इति विशेष्यीभूतेन पद्मन स्वातिरिक्त विशेषणतया पङ्कजनिकर्तुः स्वविशेषणस्यान्वयप्रतिबन्धकेनावरुद्धतयाऽन्यत्रान्वेतुमयोग्यतयोपस्थितस्यावयवशक्त्योपस्थितस्येत्यर्थः / स्वतन्त्रोपस्थितये पद्माविशेषणतया पङ्कजनिकर्तरुपस्थितये। प्रतिक्षेपहेतुमुपदर्शयति-योगार्थस्थति- अवयशक्तिजन्योपस्थितिविषयस्य पङ्कजनिकर्तुरित्यर्थः। रूढ्यर्थविशेषणतायां समुदायशक्तिजन्योपस्थितिविषयपद्मरूपार्थविशेषणतायां सत्याम् / तथाभावेऽपि कुमुदपदार्थे विशेषणतयाऽन्वये निराकासत्वेऽपि / विशेष्यतायां पङ्कजनिकर्तृरूपयोगार्थस्य समुदायशक्त्यर्थपद्मनिरूपितविशेष्यतायाम् / स्वातन्त्र्यानपायात् अन्यत्र विशेषतयाऽनुपस्थितत्वलक्षणस्य स्वातन्त्र्यस्यानपायात् सत्त्वात् , तथा .च स्वातन्त्र्येणोपस्थितस्य पङ्कजनिकर्तृरूपयोगार्थस्य कुमुदपदार्थेऽभेदेन विशेषणतयाऽन्वये साकालत्वमनाकुलमेव, एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतया नान्वय इति नियमस्य विरोधाभावादित्यर्थः / ननु यथाऽवयवशक्त्या पङ्कजनिकर्तुः पृथगेवोपस्थितत्वात् स्वातन्त्र्यं तथा समुदायशक्त्या पद्मस्यापि पृथगेवोपस्थितत्वात् स्वातन्त्र्यमेव, तस्य च बाधादभेदेन न कुमुदरूपार्थेऽन्वयसम्भवः, न च रूब्यर्थ पद्मं परित्यज्य योगार्थस्य केवलस्यैव कुमुदपदार्थे योग्यत्वादन्वय इति वक्तुं युक्तं तथा कुत्राप्यदृष्टत्वादित्यत आह- अन्यथेति-अन्वयायोग्यमेकमर्थ परित्यज्य योग्यस्यापरार्थस्य पदार्थान्तरेइन्वयबोधस्यानभ्युपगमे इत्यर्थः / श्येनेन यजेतेति- 'दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेत' इत्यादौ सर्वत्र बलवदनिष्टाननुबन्धित्वमिष्टसाधनत्वं कृतिसाध्यत्वं चेत्येतत्रयं विध्यर्थः, नहि प्रयोजनमनुद्दिश्य मन्दोऽपि प्रवर्तत इति प्रवृत्ति प्रतीष्टसाधनताशानमवश्यं कारणमभ्युपगन्तव्यम्, तथेष्टसाधनेऽपि चन्द्रमण्डलानयने कृत्यसाध्ये न प्रवर्तत इति कृतिसाध्यताशानमपि प्रवृत्तिं प्रति कारणं स्वीकर्तव्यम्, तथा मधुविषसम्पृकानमक्षणे इष्टसाधने. कृतिसाध्येऽपि च मरणरूपबलवदनिष्टानुबन्धिनि न प्रवृत्तिरतो बलवदनिष्टाननुबन्धित्वज्ञानमपि प्रवृत्तिकारणम्, एवं च प्रवर्तकत्वानुरोधाद् विधे