________________ 198 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / निष्टानुबन्धित्वमयोग्यत्वान्नान्वेतीति सिद्धान्तभङ्गप्रसङ्गात् , यत् तूक्तम्-' प्रत्यक्षोपस्थितेनापि कलापेन तात्पर्यप्रहं सहकारिणमासाद्य ' पचति ' इत्यत्रान्वयबोध इष्यत' इति, तत् तदा शोभते यदि तात्पर्य. प्रहस्य वाक्यार्थप्रतिपत्तावङ्गत्वमीक्षामहे, तदेव तु नास्ति प्रमाणाभावात्, प्रत्युत तात्पर्यमस्य न ज्ञायते अस्माद् वाक्यादयमर्थस्तावदवगम्यत एवेति विचिन्त्य परावृत्त्य कुत्रास्य तात्पर्यमिति पृच्छति (प्र)योज्यवृद्ध इति; न लाक्षणिकपदार्थोपस्थितान्वय-व्यतिरेकाभ्यां तात्पर्यग्रहस्य हेतुत्वावधारणादन्यत्रापि तस्कल्पनं युक्तम् , सत्यां पदार्थोपस्थितौ तात्पर्यप्रहविलम्बेन वाक्यार्थानुभवविलम्बानुपलब्धेः; न पुरुषान्तरोदीरि. तकलायपदार्थोपस्थितावपि तात्पर्यग्रहसत्त्वा-ऽसत्त्वाभ्यामन्वयबो(धा-ऽबो)धदर्शनाद् वाक्यार्थानुभवेऽपि तद्धेतुत्वम् , आसत्तिसत्त्वा-ऽसत्त्वाभ्यामेव तौ, न तात्पर्यग्रहसत्त्वासत्त्वाभ्यामिति, पुरुषान्तरोदीरितकला रुकत्रितयार्थकत्वं व्यवस्थितम् , एवमपि -- श्येनेनाभिचरन् यजेत' इत्यादौ शत्रुवधकामनया क्रियमाणस्य श्येनयागस्य मरणोद्देश्यकमरणानुकूलव्यापारात्मकहिंसारूपतया बलवदनिष्टनरकसाधनत्वेन बलदनिष्टाननुबन्धित्वाभावेन विधिशक्त्योपस्थितस्यापि बलवदनिष्टाननुबन्धित्वस्य परित्यागेनैव विध्यर्थयोरिष्टसाधनत्वकृतिसाध्यत्वयोः श्येनयागेऽन्वय इत्येवं बलवदमिष्टाननुबन्धित्वमयोग्यत्वाच्छयेनयागे बाधितत्वाचान्वेतीति सिद्धान्तस्य भङ्गप्रसङ्गात् , अतो यथा तत्र बलवदनिष्टाननुबन्धित्वरूपविध्यर्थपरित्यागेनेष्टसाधनत्व-कृतिसाध्यत्वरूपविध्यर्थस्य श्येनयागेऽन्वयस्तथा 'पङ्कज कुमुदमानय इत्यत्र कुमुदेऽन्वयानहत्वात् समुदायशक्त्योपस्थितस्यापि पद्मरूपार्थस्य परित्यागेनावयवशक्त्योपस्थितस्य पङ्कजनिकर्तृरूपार्थस्य कुमुदपदार्थेऽन्वय उपपद्यते इत्यर्थः। यदपि समुदायशक्त्यनभ्युपगन्तुः पद्मत्वस्य पदानुपस्थितस्य संस्कारमात्रोपस्थितस्य शाब्दबोधे भानमित्यस्योपपत्तये न च संस्कारोपस्थितस्य शान्दबोधेऽप्रवेशोऽन्यथा किं पचतीत्युक्त प्रत्यक्षोपस्थितं कलायमादाय' इत्यादिग्रन्थेन प्रमाणान्तरोपस्थितस्यापि शाब्दबोधे भानमिति मतमुपपादितं शङ्का-समाधानाभ्यां तदपि न युकभित्युपदर्शयति-यत् तूकमिति / तत् तात्पर्यग्रहसहकारेण पचतीत्यत्र प्रत्यक्षोपस्थितस्य कलायस्य कर्मतया पाकेऽन्वयबोधाभ्युपगमनम् / तदेव तु नास्ति तात्पर्यग्रहस्य वाक्यार्थप्रतिपत्तावात्वमेव नास्ति / न केवलं तात्पसंग्रहस्य वाक्यार्थप्रतिपत्त्यङ्गत्वे प्रमाणाभावः, अपि तु तात्पर्यग्रहं विनापि . वाक्यार्थप्रतिपत्तिर्जायमानाऽनुभूयते, यतः कस्यचिद् वाक्यस्यार्थ तात्पर्यग्रहमन्तराऽप्यवगत्यानन्तरं प्रयोज्यवृद्धः प्रयोजकवृद्धं पृच्छतीत्थं भवदुकवाक्यादयमों मया ज्ञायते, भवतस्तु कुत्र तात्पर्यमित्याह-प्रत्यतेति / अस्य प्रयोजकवृद्धोच्चरितस्य श्रयमाणविशेषस्य। अस्माद वाक्यात् / प्रयोजकवृद्धोचरिताच्छ्रयमाणाद् वाक्यविशेषात् / अयमर्थः स्वीयतद्वाक्यजन्यशाब्दबोधेऽवभासमानोऽर्थः / परावृत्य प्रयोजकवृद्धासम्मुखीनः प्रयोजकवृद्धसम्मुखो भूत्वा / कुत्र कस्मिन्नर्थे / अस्य निरुतवाक्यस्य / ननु लाक्षणिकपदघटितवाक्यस्थले यत्रार्थे वक्तृतात्पर्यग्रहस्तत्रार्थे लक्षणावृत्तिज्ञानालक्ष्यार्थोपस्थित्या लक्ष्यार्थविषयकान्यबोधो भवतीति लक्षणात्मकवृत्तिजन्योपस्थितिजन्यशाब्दबोधे तात्पर्यग्रहस्य कारणत्वमवश्यमेषितव्यम् , तत्र लक्षणात्मकवृत्तिमहप्रयोज्यशाब्दत्वावच्छिन्नं प्रति तात्पर्यज्ञानं कारणमित्येवं कार्यकारणभावकल्पनापेक्षया लाघवात् सामान्यतः शाब्दत्वावच्छिन्नं प्रति तात्पर्यज्ञानं कारणमित्येव कार्यकारणभावः कल्प्यत इत्यस्त्येव तात्पर्यग्रहस्य वाक्यार्थप्रतिपत्त्यङ्गत्वे प्रमाणमित्याशङ्कय प्रतिक्षिपति-न चेति / न लाक्षणिकपदार्थोपस्थितान्वय-व्यतिरेकाभ्याम्' इत्यस्य स्थाने 'न च लाक्षणिकपदार्थोपस्थिताबन्वय-व्यतिरेकाभ्याम्' इति पाठो युकः, 'नच' इत्यस्य युक्तमित्यनेनान्वयः. तात्पर्यप्रहसत्त्वे लाक्षणिकार्थस्योपस्थितिर्भवति तात्पर्यग्रहाभावे लाक्षणिकार्थस्योपस्थितिन भवतीत्येवमन्वय-व्यतिरेकाभ्यामित्यर्थः। अन्यत्रापि शकपद. मात्रघटितवाक्यस्थले शक्यपदार्थोपस्थितिजन्यशाब्दबोधे संस्कारमात्रप्रयोज्योपस्थितिजन्यशाब्दबोधेऽपि च। तत्कल्पनं तात्पर्यग्रहस्य कारणत्वकल्पनम् , यद्विलम्बाद् यस्य विलम्बस्तस्यैव तं प्रति कारणत्वम् , तात्पर्यग्रइविलम्बेऽपि पदार्थोपस्थिती सत्यां शाब्दबोधो भवत्येव न तु शाब्दबोधविलम्ब उपलभ्यत इत्यर्थः / ननु एकेन पचतीत्युक्तौ परेण किं पचलीति प्रश्न तदन्यैन कलायमित्युक्तो कलायपदात् कलायरूपार्थोपस्थितावपि 'कलायमिति पदं कलायककपाकान्वयबोधपरम्' इति तात्पर्यग्रहसत्त्वे कलायकर्मकपाकान्वयविषयकशाब्दबोधो भवति, निरुकतात्पर्यग्रहाभावे निरुक्तशाब्दबोधो न भक्तीयन्वय-व्यतिरेकाभ्यां तात्पर्यग्रहस्य वाक्यार्थबोधं प्रति कारणत्वं सिद्धयत्येवेत्याशय प्रतिक्षिपति-नति / /