________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / 195 नैगमनयानुसारिणो नैयायिकास्तु-" संस्कारमात्रवशात् पनत्वभाने नियमतः कल्प्यमानेऽगृहीत, समुदाया(य)शक्केरप्यनुभूतपद्मत्वस्य तदानापत्तिः, पटोत्तरजपदस्यैव संस्कारोबोधकस्य त्वया वाच्यत्वात्, न च प्रत्येकव्युत्पन्नस्य समुदायव्युत्पत्ति विना पद्मवप्रकारकपद्मानुभवो जायते, न च पद्मत्वा. न्वयतात्पर्यग्रहे स जायत एव, तदअहे तु तत एव स न स्यादिति वाच्यम् , तथापि प्रत्येकाव्युत्पन्नस्य, पाजपदात् पद्मत्वप्रकारकप्रतीतेः, कोशेषु पङ्कज पद्मपदयोः पर्यायताकीर्तनस्य च समुदायशक्तिसाधकत्वात्, शब्दानुपस्थितस्य शाब्दविषतयाऽभ्युपगमे च घटादावव्युत्पन्नस्य घटविषय(क)प्रबलसंस्कारात् रूपेण पद्मबोधाभ्युपगमे / 'कुमुदेऽपि प्रयोगस्तव लक्षणया' इत्यस्य स्थाने 'कुमुदेऽपि प्रयोगः स्यादतः कुमुदें. प्रयोगस्तव लक्षणया' इति पाठः समोचीनः, पजपदस्य पद्म समुदायशक्तिरपीत्यभ्युपगन्तुस्तव मते पद्मानधिकरणे, सरोविशेषे कुमुदवति पङ्कजनिकर्तृकुमुदरूपार्थमुपादाय पङ्कजमस्तीति प्रयोगः शक्त्या कथं स्यादपि तु न स्यात् , किन्तु, पहजपदस्य लक्षणया कुमुदरूपार्थमाश्रित्य तथा प्रयोगो भवेत्, तस्यावयवशक्तिमात्रमभ्युपगच्छतः समभिरूढनयावलम्बिनो मम पुनः पङ्कजनिकर्तृत्वस्य कुमुदेऽपि सत्त्वात् पङ्कानिकर्तृत्वेन कुमुदरूपार्थमुपादाय शक्त्यैव तत्र पङ्कजमस्तीति प्रयोग उपपद्यत इति न तत्र लक्षणाश्रयणमिति भवन्मतापेक्षयाऽस्मन्मते महान् विशेष इति सरला वदन्तीत्यर्थः / ___ पहजपदस्य पने समुदायशक्तिमभ्युपगच्छतां नैगमनयानुसारिणां नैयायिकानां मतमुग्दर्शयति-नैगमनयानुसारिणो नैयायिकास्विति-अस्य व्यवहितेन येन योगत्यागेऽपसिद्धान्तः स्यात्' इत्यनन्तरम् ‘आहः' इति कलिल पनत्वभाने पजपदजन्यान्वयबोधे पद्मभाने / अगृहीतसमुदायशकेरपि येन प्रमात्रा पहजपदस्य, पद्म समु.. दायशकिः पूर्व न गृहीता तस्यापि / अनुभूतपनत्वस्य प्रत्यक्षादितः पूर्व गृहीतं पद्मत्वं येन तस्य, एतावता पनत्वर विषयकसंस्कारस्तस्य प्रमातुः पद्मत्वविषयकस्मरणप्रयोजकः समस्तीत्यावदितम् / तद्भानापत्तिः पङ्कजमस्तीत्यादिवाक्या, जन्यशान्दबोधे पद्मत्वभानापत्तिः / ननु संस्कारमात्रान स्मरणं किन्तूबुद्धसंस्कारादेवेत्युद्बोधकाभावात् सतोऽपि पद्मत्व.. विषयकसंस्कारस्य प्राकव्याभावान पनत्वस्मरणमतो न तस्य प्रमातुः पङ्कजमस्तीति वाक्यजन्यशाब्दबोधे पद्मत्वस्य, भानमित्यत आह-पङ्कपदोत्तरजपदस्यैवेति / त्वया समुदायशक्त्यनभ्युपगन्त्रा, तथा च पकपदोतरजसदस्य पद्मावसंस्कारोबोधकस्य तत्र सत्त्वात् संस्कारप्राकट्यं स्यादेवेति ततः स्मृतस्य पद्मवस्य शाब्दबोधे भानं प्रसज्यत इत्यर्थः / / उक्तप्रसजस्येष्टापत्तिरूपताश्रयणेनादोषत्वं नाभ्युपगन्तुं शक्यमित्याह-न चेति- अस्य 'जायते' इत्यनेनान्वयः / प्रत्येक व्युत्पन्नस्य पङ्कपदस्य कर्दमे शक्तिः, जपदस्य जनितरि शक्तिरित्येवं. जानानस्य / समुदायव्युत्पत्ति विना पहजपदं पद्मत्वावच्छिन्ने शक्तमित्याकारकसमुदायशक्तिप्रहणमन्तरेण / ननु पङ्कजमस्तीत्यत्र 'पङ्कजप पद्मवावच्छिन्नविषयकबोधेच्छयोच्चरितम् ' इत्याकारकतात्पर्य ज्ञाने सति समुदायशक्तिग्रहाभावेऽपि पद्मवप्रकारकपद्मविषयकानुभवो भवत्येव, निरुक्ततात्पर्यग्रहाभावे तु निरुततात्पर्यग्रहरूपकारणामावादेव निरुक्तानुभवाभावो न तु समुदायशक्तिमहाभावादित्याशय, प्रतिक्षिपति-न चेति- अस्य वाच्यम् ' इत्यनेनान्वयः / सः पद्मत्वप्रकारकपद्मविषयकानुभवः, एवमग्रेऽपि / तदनहे. . . तु पङ्कजपदं पद्मत्वप्रकारकपद्मविषयकानुभवेच्छयोच्चरितमिति तात्पर्यग्रहाभावे पुनः। तत एव निरुततात्पर्यग्रहाभावादेव / / प्रतिक्षेपहेतुमुपदर्शयति-तथापीति- उक्तदिशा समुदायशक्तिग्रहमन्तरेणापि निरुततात्पर्यग्रहभावाऽभावाभ्यां पद्मत्वप्रकारकपद्मविषयकानुभवभावाऽभावयोरुषपादनेऽपोत्यर्थः / प्रत्येकेति- यस्य प्रमातुः पङ्कपदं कर्दमे शतं जपदं जनिकर्तरि शक्तमित्येवमवयवशक्तिग्रहो नास्ति तस्यापि प्रत्येकाव्युत्पन्नस्य प्रमातुः पङ्कजपदात् पद्मत्वप्रकारका विषयकानुभवस्य भावात् पहजपदस्य पने शक्तिरवश्यमभ्युपेया, अन्यथा तस्य प्रमातुः पङ्कजपदे शक्तिसामान्यस्यैव प्रहाभावाच्छक्तिप्रहरूपसहकारिणोऽभावात् पङ्कजपदात् पद्मप्रतीतिरेव न भवेत् , नहि शकि-लक्षणान्यतरवृत्तिग्रहमन्तरेण शब्दादर्थानुभव उपेयते, न च कस्मिन्नप्यर्थे शक्तिपहमन्तरेण शक्यसम्बन्धरूपलक्षगाग्रहस्यापि सम्भव इति / कोशेब्धिति- कोशेष्वेकार्थवाचकतया पहज-पद्मपदयोः कीर्तनमस्ति तत्र पद्मपदं न पङ्कजनिकर्तरि शतं किन्तु पद्मत्वावच्छिन्नशकमेवेति 'पहजपदमपि यदि पद्मत्वावच्छिन्नशक्तं भवेत् स्यात् तदैकधर्मावच्छिन्नवाचकत्वलक्षणपर्यायतेति तद्बलात् पङ्कजपदस्य पने शक्तिरिति समुदायशक्तिसिद्धिरित्यर्थः / पहजपदेनानु स्थितस्य पद्मस्य संस्कारमात्रोपस्थितस्य शाब्दबोधविषयत्वाभ्युप