________________ 'नयामृततरहिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। संस्कारपाकट्यात् प्रकारिणोऽप्युपस्थितेर्लक्षणोच्छेद एव, अत्रोक्तगङ्गापदान्यथानुपपत्त्याऽशक्यतात्पर्यस्यैव लक्षणाकल्पकत्वात् , यद्यपि 'गच्छ गच्छसि चेत् कान्त !' इत्यादावशक्यमरणतात्पर्यकत्वेऽपि न लक्षणा, अनुमानेनैव निर्वाहात्, तथाप्यसति गत्यन्तरे तात्पर्यस्य लक्षणाकल्पकत्वमित्यदोषः। ऋजुवस्तु-" घटादिपदानां विशेषतात्पर्यसाहाय्येन नीलघटादिबोधकत्ववत् पङ्कजपदस्यापि पङ्कजनिकर्तृविशेषपद्मतात्पर्यग्रहसाहाय्येन पद्मान्वयबोधकत्वसम्भवादपि न तत्र शक्तिः, न चैवं पङ्कजनिकर्तृत्वेनैव तदुपस्थितिः स्यान्न पद्मत्वेनेति वाच्यम् , इष्टापत्तेः, कथमन्यथा कदाचित् कुमुदेऽपि प्रयोगस्तव लक्षणया, मम तु तत्क्लप्तयाऽवयवशक्त्यैवाकासादिसमवहितया शक्यार्थविषयी कुमुदबोधसम्भव इति महान् विशेषः" इत्याहुः। यथा प्रकारे लक्षणाभावेऽपि संस्कारप्राकट्यात् तदुपस्थित्या शाब्दबोधे तस्य भानं तथैव धर्मिणोऽपि संस्कारप्राकट्यादुपस्थितितः शाब्दबोधे भानसम्भवात् प्रकारिण्यप्यशक्ये लक्षणा नाश्रयणीयेति लक्षणोच्छद इत्याशङ्कय प्रतिक्षिपति-न चेति / प्रकारिणोऽपि धर्मिणोऽपि / यदि -- गङ्गायां घोषः' इत्यत्र गङ्गापदस्य गङ्गातीरे शक्त्यभाववल्लक्षणाभावोऽपि तर्हि गङ्गापदं तत्रानर्थक्यानोच्चारणीयं स्यात् , उच्चार्यते च वृद्धपरम्परया तत्र गङ्गापदमिति तदन्यथानुपपत्त्या तत्प्रयोक्तुर्यदशक्ये गङ्गातीरे तात्पर्य 'गङ्गापदं गङ्गातीररूपार्थ बोधयतु' इत्याकारकं तदेव गङ्गापदस्य गणातीररूपार्थे लक्षणां 'कल्पयतीति न लक्षणोच्छेद इति प्रतिषेधहेतुमुपदर्शयति- अत्रेति-' गङ्गायां घोषः' इत्यादिवाक्य इत्यर्थः / अशक्य. तात्पर्यस्यैवेति-पङ्कजमानय' इत्यादौ तु पद्मत्वाबोधनेऽपि पङ्कजनिकर्तृरूपार्थबोधकतया सार्थकं पङ्कजपदमिति न तस्यान्यथानुपपत्तिरित्यशक्ये पद्मवे न तस्य तात्पर्य किन्तु दर्शितयुक्त्यैव संस्कारप्राकय्यादुपस्थितस्य पद्मत्वस्यान्वयबोधे भानमिति पद्मत्वविषयकतात्पर्याभावान्न तत्र लक्षणा कल्प्यत इत्याशयः। गत्यन्तराभावे सत्यशक्यतात्पर्यस्य लक्षणाकल्पकत्वं न तु अशक्यतात्पर्य मात्रस्येत्याह- यद्यपीति / “गच्छ गच्छसि चेत् कान्त!" इत्यादाविति-अत्रादिपदात् " पन्थानः सन्तु ते शिवाः / ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान्" // इति चरणत्रयस्य परिप्रहः, [साहित्यप्रन्थे] इयं च स्वामिनं प्रति तत्परदेशगमनप्रतिषेधार्थ भार्याया उक्तिः, त्वं चेत् गच्छसि चेत् तदानीमेवाहं निये. तस्मान्मम जीवनं वाञ्छसि चेद् मा गच्छति वक्च्या भार्यायास्तापर्यम् , इत्थं चोक्तवाक्यघटकस्य कस्यापि पदस्य मरणं न शक्यमित्यशक्ये मरणे उक्तवाक्यस्य तात्पर्यसत्त्वेऽपि न तत्र लक्षणा, तामन्तरेणैव मरणरूपार्थप्रतीतिसम्भवात् , उक्तवाक्यप्रयोगकाले जीवन्त्यास्तस्या भर्तुर्यत्र गमनं तत्र जन्म तदैव सम्भवति यदि तद्गमनसमनन्तरमेव तस्या मरणं भवेदिति भर्तृगन्तव्य. देशीयतजन्मना तदीयमरणमनुमीयत इत्यनुमानादेव मरणावतिसम्भवान्न तत्र लक्षणया प्रयोजनमिति न मरण. तार्पयस्य लक्षणाकल्पकत्वमित्यर्थः। तथापि तत्रानुमानेन तात्पर्यविषयीभूताशक्यमरणरूपार्थावगतिसम्भवेऽपि / असतीतिघस्य तात्पर्यविषयीभूताशक्यार्थस्य नानुमानादितोऽवगतिसम्भवस्तस्मिन्नर्थेऽशक्ये तात्पर्यस्य गत्यन्तरविरहेण तदवगतये लक्षणाया आवश्यकत्वमिति तादृशतार्पयस्य लक्षणाकल्पकत्वेन न लक्षणोच्छेदलक्षणो दोष इत्यर्थः / - पङ्कजपदस्य पनत्वेन पद्मबोधने समुदायशक्ति प्रकारान्तरेण निराकुर्वतामृजूनां मतमुपदर्शयति-ऋजवस्त्विति-अस्य * आहुः' इत्यनेन सम्बन्धः / विशेषतात्पर्यसाहाय्येनेति-घटपदं नीलघटं बोधयतु, पीतघटं बोधयतु' इत्यादि. विशेषतात्पर्यसहकारेणेत्यर्थः / न तत्र शक्तिः न पङ्कजपदस्य पद्मरूपार्थे समुदायशक्तिः। ननु पङ्कजपदस्य यदि पद्मत्वेन पापाथ न समुदायशक्तिः, किन्तु पङ्कजनिकर्तृत्वेन रूपेणावयवशक्तिरेव तर्हि पङ्कजनिकर्तृत्वेनैव रूपेण पद्मोपस्थितिः स्यान तु पनत्वेन रूपेण पद्मोपस्थितिरित्याशङ्कामिष्टापत्त्या प्रतिक्षिपति-न चेति-अस्य ‘वाच्यम् ' इत्यनेनान्वयः / एवं पङ्कजपदस्य पनत्वेन रूपेण पञ समुदायशक्त्यनभ्युपगमे / तदुपस्थितिः पद्मोपस्थितिः / इष्टापत्तेरितिपङ्कपदात् पङ्कजनिकर्तृत्वेनैव पद्मस्य बोधो न तु पनत्वेनेत्यापादनस्येष्टापत्तिरूपत्वेनादोषत्वादित्यर्थः / यदि भवन्मते पङ्कजेपदात् पद्मत्वेन रूपेण बोधस्तदा पद्मत्वस्य कुमुदे बाध.त् कुमुदे पङ्कजपदप्रयोगः कदाचिज्जायमानो विरुध्येत, अतः कुमुदे लक्षणया तत्प्रयोगः कल्पनीयः, अस्मन्मते तु पङ्कजनिकर्तृत्वस्य कुमुदेऽपि सत्त्वाच्छक्त्यैव तत्र तत्प्रयोगस्य सम्भवाल्लक्षणा - श्रयणं न कर्तव्यमिति भवन्मतापेक्षयाऽस्मन्ते विशेषोऽपीत्याह-कथमिति / अन्यथा पङ्कजपदात् समुदायशच्या पद्मत्वेन