________________ . नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / 193 कत्वादिना तदज्ञा(तज्ज्ञा)नस्य पूर्वमपि गवादिपदे सम्भवेन व्यभिचाराभावात् , न च पूर्वोत्तरीत्यानुभवजनकत्वस्याप्यव्यभिचारः, ' इदं पदमेतदर्थानुभवजनकम् ' इति स्वातन्त्र्येण पदेऽनुभवजनकत्वे वैशिष्ट्यज्ञानस्यैव हेतुतायाः परेणाभ्युपेतत्वात् तस्य चाधुनिकसङ्केतस्थले व्यभिचारदर्शनादिति दिक् / / - न च शब्दसम्बन्धमनपेक्ष्य संस्कारमात्रोपस्थितस्य " पङ्कजमानय " इत्यत्रान्वये पद्मत्वव्याप. कानां द्रव्यत्वादीनामन्वयः स्यादिति वाच्यम्, शब्दसम्बन्धोपगमेऽपि संस्कारप्राकट्यस्यावश्योपजीव्य. त्वात् , 'घटमानय' इत्यत्र छिद्रेतरघटत्वस्येव प्रकारस्यापि माने न लक्षणोच्छेद इति तूक्तप्रायम् , न च इत्यभिप्रायस्थले / व्यभिचारदर्शनात तत्र प्रथमत 'एतर्थज्ञानमेतत्पदजन्यत्वेनेच्छाविषयः' इति ज्ञानं यद्यप्यस्ति तथापि तद् 'एतदर्थज्ञानमेतत्पदजन्यम्' इत्याकारालिङ्गितमेव, न तु 'एतत्पदमेतदर्थविषयकानुभवजनकम् ' इति स्वरूपाकलितमिति देवदत्तरूपार्थविषयकानुभवजनकत्वज्ञानाभावेऽपि देवदत्तपदाद् देवदत्तरूपार्थविषयकानुभवभावेन व्यतिरेकन्यभिचारदर्शनात्, एवं च पद्मत्वप्रकारकपद्मविषयकानुभवजनकत्वं पद्मत्वप्रकारकपद्मविषयस्मरणजनकत्वं वा न पकजपदस्य पनरूपाय शक्तियन समुदायशक्तिस्तस्य पद्मत्वप्रकारकपद्मविषयकानुभवजनकस्य स्थात्, किन्तु ततो व्यतिरिक्तैव सङ्केतलक्षणा शक्तिः, सा पङ्कजपदस्य पद्मरूपाय नेष्यते, किन्तु व्युत्पत्तिग्रहापेक्षितपद्मत्वनियतशक्तिमहाहितसंस्कारादेव फलबलकल्प्योबोधितात् पद्मत्वोपस्थितिरिति / ननु यदि पङ्कजपदस्य न पद्मत्वेन रूपेण पद्मरूपार्थे शक्ति: किन्तु पद्मत्वनियतशक्तिग्रहाहितसंस्कारमात्रादेव पद्मः त्वोपस्थितिस्तर्हि पङ्कजनिकर्तृरूपार्थ या तस्यावयवशक्तिः सा यथा पद्मत्वनियता तथा पद्मत्वव्यापकद्रव्यत्वादिनियताऽपीति तादृशक्तिप्रहाहितसंस्कारात्. पद्मत्वस्येव द्रव्यत्वादीनामप्युपस्थितिसम्भवात् पङ्कजमानयेत्यत्र पकजपदासम्बद्धस्य संस्कार, मात्रोपस्थितस्य पद्मत्वस्येव पङ्कजपदासम्बद्धानां पद्मत्वव्यापकानां द्रव्यत्वादोनामपि संस्कारमात्रोपस्थितानामन्वयबोधः स्थादित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य ‘वाच्यम्' इत्यत्रान्वयः / पङ्कजपदावयवशकेर्यथा पद्मत्वनियतत्वं पकजनिकर्तरि पद्म पद्मत्वस्य सत्त्वात् तथा पद्मत्वव्यापकद्रव्यत्वादिनियतत्वमपि द्रव्यत्वादीनामपि तत्र सत्त्वादित्यावेदयितुं 'पद्मत्वव्यापकानाम्' इति 'द्रव्यत्वादीनाम् ' इत्यस्य विशेषणम् / शब्दस्य शक्तिलक्षणसम्बन्धस्यार्थे सत्वेऽपि पूर्वानुभवाहितशक्तिविषयकसंस्कारः प्राकट्यलक्षणोद्बोधशाली यावन्न भवति तावच्छक्तिस्मरणं न भवतीति शकिस्मरणे तत्संस्कारोबोधोऽवश्यमपेक्षितव्यः, शक्तिस्मरणाचार्थस्मरणं तदैव भवति यदि तदर्थविषयकसंस्कारः प्रकटो भवति नान्यथेति संस्कार प्राकव्यस्य संस्कारोबोधस्वभावस्यावश्यमर्थोपस्थितावुपजीव्यत्वेन पङ्कजपदस्य पद्मत्वे समुदायशक्तिलक्षणसम्ब. न्धाभावेऽपि पद्मत्वनियतावयवशक्तिमहाहितपद्मत्वविषयकात् संकारादुद्बोधलक्षणप्राकट्यालिङ्गितात् पद्मत्वोपस्थितिः सम्मवति, द्रव्यत्वादीनां चोकशक्तिव्यापकत्वेऽपि न तद्विषयकः संस्कारस्तादृशशक्तिमहाहितो नवा ततः प्रकटितः स इति 'पङ्कज. मानय' इत्यत्र सस्कारमांत्रोपस्थितस्य पनत्वस्यवान्वयबोधो न द्रव्यत्वादीनामिति प्रतिक्षेपहेतुमुपर्शयति-शब्दसम्बर धोपगमेऽपीति- शब्दस्यार्थेन सह शक्तिलक्षणसम्बन्धोपगमेऽपीत्यर्थः / ननु पङ्कजपदस्य न पद्मत्वे शफिर्नवा लक्षणाऽ. थापि पद्मत्वस्य प्रकारविधयाऽन्वयबोधे भान यदि तदा 'गङ्गायां घोषः" इत्यत्रापि गङ्गापदस्य गङ्गातीरे लक्षणात्मकसम्बन्धाभावेऽपि तस्यान्वयबोधे भानसम्भवाल्लक्षणोच्छेद इत्यत आह- "घटमानय' इत्यत्रेति- जलधारणादिकार्यार्थ घटस्यानयनमभिप्रेतम्, न च च्छिद्रघटेन जलधारणादिकं सम्भवति ततश्छिद्रेतरघटत्वेन घटे घटपदस्य शक्त्या भावेऽपि 'घटमानय' इति वाक्यजन्यशाब्दबोधे छिद्रेतरघटत्वं प्रकारतया भासते तथा पद्मत्वरूपप्रकारस्य पदासम्बद्धस्य शाब्दबोधे भानेऽपि प्रकारिणो धर्मिणो न पदासम्बद्धस्य शाब्दबोधे भानमिति गङ्गातीरत्वस्य लक्ष्यतावच्छेदकस्य प्रकारी भूतस्य पदासम्बद्धस्य शाब्दबोधे भानसम्भवात् तत्र लक्षणाभावेऽपि धार्मणो गातीरस्य पदासम्बद्धत्वे तद्भानासम्भवात् तद्भानाथ महातीरे गङ्गापदस्य लक्षणाऽऽवश्यकीति न लक्षणोच्छेद इत्यर्थः / उक्तप्रायमिति-'अथ लाक्षणिकमननुभावक्रमव' इत्यादिप्रन्धेन प्रकारान्तरेण लक्षणाया आवश्यकत्वमुक्तमित्यत उक्तप्रायमित्युक्तम्, 'भाने न' इत्यत्र 'प्रकारस्यापि 'त्यपेः 'भाने' इत्यनन्तरं सम्बन्धः तेन प्रकारस्य भानेऽपि न लक्षणोच्छेद इत्यन्वये उक्तोऽर्थः स्पष्टमेवावभासत इति / ननु