________________ 192 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो मयोपदेशः / भावादर्थप्रतीतेश्चानुभवसिद्धत्वाद् व्यभिचारेण नेदं हेतुः, किन्तु तद्विषयानुभवजनकत्वज्ञानमेव, न च देवदत्तादिपदे व्यभिचारान्न तस्यापि हेतृत्वम एतदर्थज्ञानमेतत्पदजन्यत्वेनेच्छाविषयः' इति ज्ञानेऽर्थज्ञाने पदजन्यत्ववैशिष्ट्यभाने ध्रुवे पदेऽपि तजनकत्वज्ञानसम्भवादिति वाच्यम् , सङ्केतत्वेन रूपेण तदज्ञा. (तज्झा) नस्य हेतुत्वानभ्युपगमेन तेन रूपेण व्यभिचारज्ञानेऽप्यदोषात् , तद्धी जनकतावच्छेदकतावच्छेद पति-न चेति-अस्य 'वाच्यम्' इत्युत्तरेण योगः / अर्थप्रतीतेश्च गवादिपदा गवादिरूपार्थप्रतीतेश्च / व्यभिचारेणेति'गोपदाद् गोरूपार्थो बोद्धव्यः' इत्याकारकाभिप्रायरूपस्य सङ्केतस्य ज्ञानाभावेऽपि गोरूपार्थप्रतीतेर्भाव इत्येवं व्यतिरेकव्यभिचारेणेत्यर्थः। नेदं हेतुः निरुक्ताभिप्रायरूपसङ्केतज्ञानं नार्थप्रतीतिनिबन्धनम्, तथा च नाभिप्रायविशेषलक्षणसङ्केतः शक्तिरित्याशयः। यदि नोक्तसङ्केतज्ञानमर्थप्रतीति निबन्धनं तर्हि किमर्थप्रतीतिनिबन्धनमिति पृच्छति-किन्विति / उत्तरयति-तद्विषयेति- गोत्वप्रकारकगोविषयकानुभवजनकत्वज्ञानमेव गोरूपार्थप्रतीतिजनकमिति तद्विषयकानुभवजनकत्वमेव तत्र शक्तत्वमित्याशयः। ननु देवदत्तोऽस्तीत्यादिवाक्यस्थले 'देवदत्तपदादसौ बोद्धव्यः' इत्यभिप्रायविशेषस्य ज्ञानादेव देवदत्तरूपार्थप्रतीतिर्न तु 'देवदत्तत्वप्रकारक-देवदत्तविषयकानुभवजनकं देवदत्तपदम् ' इत्याकारकाद् देवदत्तविषयकानुभवजनकत्वज्ञानादिति व्यभिचारेण तद्विषयकानुभवजनकत्वज्ञानमपि नार्थप्रतीतिनिबन्धनमिति तद्विषयकानुभवजनकत्वमपि न पदस्य तत्र शक्तत्वमित्याशय प्रतिक्षिपति-न चेति / न तस्यापि हेतुत्वं तद्विषयकानुभवजनकत्वज्ञानस्यापि न तदर्थप्रतीतिजनकत्वम् , एवं च न तद्विषयकानुभवजनकत्वस्य शक्तिरूपत्वमित्याशयः। निषेधे हेतुमाह-एतदर्थेति- 'देवदत्तपदादसौ बोद्धव्यः' इत्यभिप्रायविशेषज्ञानस्य तत्रार्थप्रतीतिनिबन्धनत्वं यदुपेयते ततोऽपि 'तद्विषयकानुभवजनकमेतत् पदम्' इति ज्ञानस्यार्थप्रतीतिनिबन्धत्वमायात्येव, यतो 'देवदत्तरूपार्थज्ञानं देवदत्तपदजन्यत्वेनेच्छाविषयः' इत्येवं स्वरूपपर्यवसिते 'देवदत्तपदादसौ बौद्धव्यः' इत्यभिप्रायस्य ज्ञाने देवदत्तरूपार्थविषयकज्ञाने देवदत्तपदजन्यत्ववैशिष्ट्यस्य भाने सति देवदत्तपदेऽपि देवदत्तरूपार्थविषयकज्ञानजनकत्वस्य ज्ञानसम्भवादित्यर्थः / निरुक्ताशङ्काप्रतिक्षेपहेतुमुपदर्शयति-सङ्केत.. त्वेन रूपेणेति। तज्ज्ञानस्य सङ्केतज्ञानस्य / हेतुत्वानभ्युपगमेन अर्थप्रतीतौ कारणत्वानभ्युपगमेन। तेन रूपेण सङ्केतत्वेन रूपेण। व्यभिचारक्षानेऽपि सङ्केतत्वेन रूपेण सङ्केतज्ञानाभावेऽपि गवादिपदाद् गवाद्यर्थप्रतीतिभावन व्यतिरेकव्यभिचारज्ञानेऽपि / अदोषात् देवदत्तादिपदे सङ्केतज्ञानस्येत्यादिनोपदर्शितस्य दोषस्याभावात् / तदर्थासङ्केतितपदज्ञानतोऽतिप्रसङ्गभयतस्तदर्थविषयकानुभवस्यानभ्युपगन्तव्यत्वेन तदर्थसङ्केतितपदज्ञानमेव तदर्थप्रतीतिकारणमिति तदर्थप्रतीतिजनकता तदर्थसङ्केतितपदज्ञाननिष्ठा, विषयतासम्बन्धेन तन्निरूपिताऽवच्छेदकता पदनिष्ठा, तन्निरूपितावच्छेदकता सङ्केतनिष्ठेति तद्रूपेण सङ्केतज्ञानस्यार्थोपस्थितितः प्राग् गवादिपदतो गवाद्यर्थानुभवस्थले सम्भवेन तद्रूपेण सङ्केतज्ञानस्यार्थप्रतीतौ कारणत्वे व्यभिचाराभावादित्याह- तद्धीजनकतेति- अर्थप्रतीतिजनकतेत्यर्थः। तज्ज्ञानस्थ सङ्केतज्ञानस्य / पूर्वमपि देवदत्तादिपदे सङ्केतज्ञानस्य कारणत्वावधारणात् पूर्वमपि, यद्यपि सङ्केतितपदज्ञानत्वेनार्थोपस्थितौ पदज्ञानस्य कारणत्वे सड्केतत्वेन सङ्केतज्ञानस्य पूर्व सत्त्वमावश्यकमेवेति तेन रूपेण व्यभिचारज्ञानात् तद्रूपेण. तज्ज्ञानस्य न कारणत्वमिति दोषः स्यादेव, तथापि शक्तिपदज्ञानत्वेनैव कारणत्वम् , शक्तिश्च तदर्थविषयकानुभवजनकत्वरूपा परेण स्वीक्रियते, तदतिरिक्तशक्तिवादिना च निरुक्ताभिप्रायविशेषलक्षणसङ्केतरूपा सा स्वीक्रियते, तज्ज्ञानं च सङ्केतत्वज्ञानं विनापि शक्तित्वेन रूपेण सम्भवतीति बोध्यम् / ननु यथोक्तदिशा सङ्केतज्ञानस्यार्थानुभवे व्यभिचारपरिहारो भवता क्रियते तथा 'एतदर्थज्ञानमेतत्पदजन्यत्वेन' इत्यादिग्रन्थेनैतदर्थविषयकानुभवजनकत्वज्ञानस्यापि व्यभिचारः परिहियते एवेति विनिगमनाविरहात् किमित्यर्थविषयकानुभवजनकत्वज्ञानस्यार्थविषयकप्रतीतौ न कारणत्वमित्यशाक्य परिहरति-न चेति / 'पूर्वोक्तरीत्याऽ. नुभवजनकत्वस्य' इति स्थाने 'पूर्वोक्तरीत्याऽनुभवजनकत्वज्ञानस्य' इति पाठो युक्तः। निषेधहेतुमाह-इदमिति / 'स्वातन्त्र्येण' इत्यनेन 'एतदर्थज्ञानमेतत्पदजन्यत्वेनेच्छाविषयः' इति, ज्ञाने साक्षादर्थज्ञाने पदजन्यत्ववैशिष्ट्यभाने सति तदनन्तरं पदे यदर्थविषयकानुभवजनकत्वज्ञानं तस्य यत् पारतन्त्र्येण कारणत्वं तस्य व्यवच्छेदः। 'पदेऽनुभवजनकत्वे वैशिष्ट्यशानस्यैव' इति स्थाने 'पदेऽनुभवजनकत्ववैशिष्ट्यज्ञानस्यैव' इति पाठो युक्तः। परेण तदर्थविषयकानुभवजनकत्वमेव पदे तत्र शक्तत्वमिति वादिना / तस्य च 'इदं पदमेतदर्थविषयकानुभवजनकम् ' इत्याकारकस्य स्वातव्येण पदे तदर्थविषयकानुभवजनकत्ववैशिष्ट्यज्ञानस्य च / आधुनिकसङ्केतस्थले 'देवदत्तपदादसौ बोद्धव्यः'