________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो नयोपदेशः / 199 भवेऽतिप्रसङ्गादिति वाच्यम् , पूर्वपूर्वतरज्ञानविषयत्वस्यैव सम्बन्धत्वात् , तस्य चानादित्वादिति वाच्यम् / उक्तानुभव-स्मरणजनकत्वमेव शक्तत्वमित्यभ्युपगमे गङ्गापदादेस्तीरत्वप्रकारकतीराद्यनुभवजनकत्वेन तत्र शक्तिप्रसक्तो लक्षणामात्रोच्छेदप्रसङ्गात् ; अथ लाक्षणिकमननुभावकमेव -- गङ्गायां घोषः' इत्यत्र पोषादिपदस्यैव लक्षणास्मारिततीरान्वयानुभवजनकत्वात् , तस्य च शक्तत्वादेव. नोक्तदोष इति चेत् ? न.- तथापि तत्प्रकारकतद्विषयकज्ञानजनकत्वाप्रतिसन्धानेऽपि * देवदत्तादिपदादसौ बोद्धव्यः' इत्यभिः / प्रायप्रतिसन्धानादर्थोपस्थितेर्दर्शनात् सर्वत्र तत्तदर्थविशेषेऽभिप्रायविशेषविषयत्वस्यैव पदानां वाचकत्वस्य व्यवस्थितेः, न च देवदचादिपदे सङ्केतज्ञानस्य कारणतावधारणात् पूर्व गवादिपदेषु सङ्केतकल्पकप्रमाणा चेति-अस्य 'वाच्यम्' इत्यनेनान्वयः / तदभावे अतिरिक्तशक्त्यभावे / असम्बद्धस्यानुभावकत्वं स्मारकत्वं वा नाङ्गीक्रियते येनातिप्रसङ्गः स्यात् , किन्तु पूर्वपूर्वतरज्ञानविषयत्वमेवार्थेन सह पदस्य सम्बन्धः, ज्ञानं च समूहालम्बनं पदार्थयो ह्यमिति नातिप्रसङ्ग. इति निषेधहेतुमुपदर्शयति- पूर्वेति / तस्य च पूर्वपूर्वतरज्ञानविषयत्वलक्षणसम्बन्धस्य पुनः / अनादित्वात् ज्ञानस्य सादित्वे तत्समानकालीनस्य तद्विषयत्वस्यापि यद्यपि सादित्वमेव तथापि पूर्वपूर्वतरज्ञानपरम्पराया अनादित्वेन तदाश्रयणेन तद्विषयत्वस्य प्रवाहतोऽनादित्वमिति बोध्यम् / पद्मत्वग्रकारकपद्मविशेष्यकानुभवजमकत्वतथाविधस्मरणजनकत्वयोः शक्तित्वप्रतिषेधे हेतुमुपदर्शयति-उक्तानुभवेति- पद्मत्वप्रकारकपद्मविशेष्यकानुभवेत्यर्थः / गङ्गापदादेरिति- 'गङ्गायां घोषः' इत्यत्र 'गङ्गातीरे घोषः' इति शाब्दबोधानुरोधेन गङ्गापदस्य गङ्गातीरत्वप्रकारकतीरविशेध्यकानुभवजनकत्वमवश्यमेषितव्यमिति गङ्गापदस्योक्तानुभवजनकत्वलक्षणं गङ्गातीरशक्तत्वमेव भवेत् , एवं यस्य पदस्य यस्मिन्नर्थे लक्षणा शाब्दानुभवानुरोधेनोपेयते तस्य पदस्य तदर्थविषयकानुभवजनकत्वलक्षणतच्छकत्वमेव स्यादिति लक्षणात्मकशब्दवृत्तेरुच्छेदप्रसङ्गादित्यर्थः। ननु पदानां शक्ति लक्षणान्यतरसम्बन्धनेतरपदार्थान्वितस्वशक्यार्थबोधं प्रति जनक। त्वमेवानुभावकत्वम् 'गङ्गायां घोषः' इत्यत्र गङ्गापदस्य घोषपदार्थान्वितस्वशक्यार्थशाब्दबोधजनकत्वाभावेन नानुभावकत्वं किन्तु घोषपदस्यैव गङ्गापदार्थगङ्गातीरान्वितस्वशक्यार्थघोषविषयकशाब्दबोधजनकत्वेनानुभावकत्वमिति तत्र घोषपदस्यैव शकत्वं न तु गङ्गापदस्य, किन्तु तस्य गङ्गातीररूपार्थे लाक्षणिकत्वमेवेति न लक्षणोच्छेद इति शङ्कते- अथेति / लाक्षणिकस्याननुभावकत्वे कथं लाक्षणिकार्थस्य शाब्दबोधे भानमित्यपेक्षायामाह - गङ्गायां घोष इत्यत्रेति-तथा च यस्मिन् वाक्ये सर्वाण्येव पदानि शक्तानि तत्र सर्वेषामेव पदानां तद्धटकानामनुभावकत्वम् , यत्र तु किञ्चिदेव पदं शक्तं तत्र तस्यैव शक्तस्य पदस्यानुभावकत्वम् , तथा च 'गङ्गायां घोषः' इत्यत्र घोषपदस्य लक्षणया गङ्गापदस्मारितगङ्गातीररूपार्थान्वयानुभवजनकत्वाल्लाक्षणिकार्थस्य शाब्दबोधे भानं संभवतीत्यर्थः / तस्य च घोषपदस्य च / नोक्तदोषः न लक्षणामात्रोच्छेदप्रसङ्गः / समाधत्ते- नेति / तथापि उक्तदिशा लक्षणोच्छेदप्रसङ्गपरिहारेऽपि, पदस्य शक्तिलक्षणवृत्तिज्ञानसहकारेणार्थोपस्थितिद्वारा शाब्दबोधजनकत्वं भवति, तथा च यज्ज्ञानमर्थोपस्थितौ पदस्य सहकारि भवति तस्यैव शक्तित्वं कल्पयितुमुचितम् , तथा च देवदत्तपदादसौ बोद्धव्य इत्याकारकस्याभिप्रायस्य ज्ञानाद् देवदत्तपदाद् देवदत्तरूपार्थोपस्थित्या देवदत्तरूपान्वयबोधो भवतीति तादृशाभिप्रायस्य शक्तित्वम्, एवमन्यत्रापीति सकेत एक शक्तिः, देवदत्तत्वप्रकारकदेवदत्तविषयकानुभवजनकत्वस्य ज्ञानाभावेऽपि निरुक्ताभिप्रायज्ञानाद् देवदत्तान्वयानुभवोत्पादेन व्यभिचारेण नोकानुभवजनकत्वज्ञानस्यार्थोपस्थितौ पदस्य सहकारित्वमिति नोकानुभवजनकत्वं निरुक्तस्मृतिजनकत्वं वा शक्तिरिति पकजपदस्य पश्यत्वप्रकारकपद्मविषयकानुभवजनकत्वेऽपि तथाविधस्मृतिजनकत्वेऽपि वा न समुदायशक्तरावश्यकत्वं शक्तनिरुक्तानुभवजनकत्वादितो भिन्नत्वादित्याशयेनाह-तत्प्रकारकेति- देवदत्तत्वप्रकारकेत्यर्थः / तद्विषयकेति-देवदत्तविषयकेत्यर्थः / सर्वत्र घट-पटादिपदऽपि / ननु देवदत्तादिपदे उक्ताभिप्रायविशेषलक्षणसङ्केतज्ञानस्य देवदत्तपदाद् देवदत्तोपस्थितौ कारणखेऽवधृते एव तदृष्टान्ताद् गवादिपदाद् गवाद्यर्थोपस्थितावपि निरुक्तसङ्केतज्ञानस्य कारणत्वावधारणतो गवादिपदस्य गवाद्यर्थे सहेतलक्षणा शक्तिः सिद्धयेत् , यदा तु देवदत्तादिपदस्यानुपस्थित्या न ततोऽर्थोपस्थितौ निरुक्तशक्तिज्ञानस्य कारणत्वमवधृतं. तदानी प्रमाणाभावान्न निरुक्ताभिप्रायविशेषलक्षणसङ्केतस्य गवादिपदेषु सिद्धिः, अथापि गवादिपदादर्थविशेषप्रतिपत्तिरनुभयत इति व्यभिचारेण नोकाभिप्रायविशेषज्ञानस्यार्थोपस्थिती हेतुत्वमिति नोक्ताभिप्रायस्य शक्तित्वमित्याशङ्कां प्रतिक्षि