________________ 19. नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः / प्रतिबन्धकत्वं कल्पनीयं 'गो-बलीवी ' इत्यत्र बलीवर्दसमभिव्याहृतगोपदस्य बलीवर्दस्मरण इव, तेन न कुमुदप्रियस्य कुमुदस्मरणेन पद्म एव प्रयोगप्रतिबन्धः। न चैवं लक्षणयापि पङ्कजपदात् कुमुदानुपस्थिति. प्रसङ्गः, शक्या तदुपस्थितावेव तत्प्रतिबन्धकत्वात् , अत एवावयवश कावेव केचित् कोज्यं कल्पयन्ति न च, पनत्वप्रकारकपद्मविषयानुभवजनकत्वात् तादृशस्मरणजनकत्वाद् वान्यत् पदस्य शक्तत्वम् , तदशा( तज्ज्ञा)नस्य नैयायिक-मीमांसकयोः पदार्थप्रत्यये व्यभिचारेणाकरणत्वात् , तदनुपयुक्तायाश्च शक्तित्वस्य परिभाषामात्रत्वादिति समुदायशक्तेरावश्यकत्वम् , न च तदभावेऽनुभावकत्वस्यैवानुपपत्तिः, असम्बद्वानु. द्युत्तरजपदस्य कुमुदादिस्मारकत्वमपि संभवति, ततो न तस्य कुमुदादिस्मरणप्रतिबन्धकत्वमित्येवकारेण तस्यापि व्यव. च्छेदः, एवं पद्मत्वस्मरणस्य कुमुदादौ पङ्कजादप्रयोगप्रतिवन्धकत्वस्य व्यवच्छेद इति लाघवम् / उक्तप्रतिबन्धकत्वकल्पनस्य सम्यक्त्वावगतये दृष्टान्तमाह-गो-बलीववित्योति- यत्र 'गौरस्ति' इति वाक्ये केवलं गोपदमस्ति तत्र गोपदादू' गोत्वेन रूपेण बलोवर्दस्यापि स्मरणं भवत्येवेति बलोवर्दपदासमभिव्याहृतस्य गोपदस्य न बलीवर्दस्मरणप्रतिबन्धकत्वं किन्तु बलीवर्दसमभिव्याहृतगोपदस्येति बोध्यम् / पद्मत्वस्मरणस्य कुमुद पङ्कजपदप्रयोगप्रतिबन्धकत्वे यस्य प्रमातुः कुमुदमेव कमलापेक्षयाऽतिप्रिय तस्य पङ्कजादात् कुमुदस्मरणमपि पद्मे पङ्कजपदप्रयोगप्रतिबन्धकं किमिति न भवेदिति दोषोऽपि पङ्कपदो. त्तरजपदत्य कुमुदस्मरणप्रतिबन्धकत्वपक्षे न सम्भवति, ज्ञाते पङ्कपदोत्तरजपदे कुमुदस्मरणस्यैवाभावादित्याह- तेनेति- पकपदोत्तरजपदस्य कुमुदस्मरणप्रतिबन्धकत्वेनेत्यर्थः / नञः 'प्रयोगप्रतिबन्धः' इत्यनेनान्वयः / प्रयोगप्रतिबन्धः पङ्कजपदप्रयोगप्रतिबन्धः / ननु यदि पङ्कपदोत्तरजपदस्य कुमुदस्मरणप्रतिबन्धकत्वं तदा यत्र लक्षणया पङ्कजपदं कुमुदे प्रयुज्यते तत्र लक्षणारूपवृत्तिग्रहसहकारेण पङ्कजपदाद् यत् कुमुदस्मरणं भवति तदपि न स्यात् तत्रापि पङ्कपदोत्तरजपदस्य कुमुदस्मरणप्रतिबन्धकस्य सद्भावादित्याशङ्का प्रतिक्षिपति-न चैवमिति / एवं पङ्कपदोत्तरजपदस्य कुमुदस्मरणप्रतिबन्धकत्वकल्पने / शक्त्यात्मकवृत्तिग्रह जन्मकुमुदस्मरणं प्रत्येव पङ्कपदोत्तरजपदस्य प्रतिबन्धकत्वं कल्प्यते, एवं च लक्षणात्मकवृत्तिप्रहजन्यकुमुरस्मरणस्य निरुक्तप्रतिबध्यतावच्छेदकधर्मानाक्रान्तत्वादेव पङ्कजपदादुत्पत्तावपि न क्षतिरिति निषेधहेतुमुपदर्शयति-शक्त्येति / तदुरस्थितावेव स्मरणात्मककुमुदोपस्थिगवेव, एवकारेण लक्षणया कुमुदोपस्थितेर्व्यवच्छेदः / तत्प्रतिबन्धकत्वात् पङ्कपदोत्तरजपदस्थ प्रतिबन्धकत्वात् / अत एव शक्तिग्रह जन्यकुमुदस्मरणे पङ्कपदोत्तरजपदस्य प्रतिबन्धकत्वकल्पनादेव / यदि पङ्कजपदस्य पने समुदायशक्ति भ्युपेयते तदाऽवयवशक्तेः कुमुदे सत्त्वात् किमिति न कुमुदप्रतीतिरिति न वाच्यम् , शक्तिग्रहजन्यकुमुदस्मरणे पकपदोत्तरजपदस्य प्रतिबन्धकत्वेन तत्र सत्या अप्यवयवशक्तेः कुण्ठितत्वादि. त्येवं केचित् कल्पयन्तीत्यर्थः / ननु पकजपदस्य पद्मे समुदायशक्तिर्नास्तीत्येवमुक्तदिशा व्यवस्थापनमयुक्तम्, यतः पल्कजपदस्य पद्मत्वप्रकारकपद्मविशेष्यकानुभवं प्रति यत् कारणत्वम् , यद्वा पद्मत्वप्रकारकपद्मविशेष्यकस्मरणं प्रति यत् कारणत्वम्, तस्यैव शक्तित्वं न तूक्तकारणत्वादतिरिका शक्तिः समस्ति, तज्ज्ञानाभावेऽपि पदार्थानुभवस्य पदार्थस्मरणस्य वा भावेन व्यभिचारेण तज्ज्ञानस्य कारणत्वासम्भवात् , तथा च निरुक्तानुभवजनकत्वरूपाया निरुक्तस्मरणजनकत्वरूपाया वा समुदायशतः पङ्कजपदे सद्भावात् समुदायशक्तिर्नास्तीति कथनमयुक्तमित्याशा प्रतिक्षिपति-न चेति-अस्य 'वाच्यम्' इति. व्यवहितेन सम्बन्धः। 'ताहशस्मरणजनकत्वाद वाऽन्यत् पदस्य शक्तत्वम्' इत्यस्य स्थाने “तादृशस्मरण. जनकत्वाद् वा नान्यत् पदस्य शक्तत्वम्" इति पाठो युक्तः / निरुक्तजनकत्वलक्षणशक्तिश्च स्वरूपसत्येवोपयुका न तु ज्ञाता, तज्ज्ञानाभावेऽपि पदार्थप्रत्ययोदयेन व्यभिचारादित्याह- तज्ज्ञानस्येति-निरुक्तशक्तिज्ञानस्येत्यर्थः / निरुक्तानुभवजनकत्व-निरुक्तस्मरणजनकत्वव्यतिरिका च शक्तिर्न पदार्थप्रत्यये उपयुज्यते इति तां परिकल्प्य तस्याः शक्तित्वस्य परि• भाषामात्रत्वेन न परीक्षकैरुपादेयत्वमित्याह-तदनुपयुकायाश्चेति- पदार्थप्रत्ययानुपयुक्तायाश्चेत्यर्थः / ननु पद्मत्वप्रकारकपद्मविशेष्यकानुभवजनकत्व-पद्मत्वप्रकारकपद्मविशेष्यकस्मरणजनकत्वाभ्यां व्यतिरिक्ता या समुदायशक्तिस्तस्या एवानावश्यकत्वं समभिरूढनयवादिनोऽभिमतम् , यश्च भवद्भिनिरुक्तानुभवजनकत्व-निरुक्तस्मरणजनकत्वस्यैव समुदायशक्तित्वमभिप्रेत्य समुदाय. शक्तरावश्यकत्वं प्रतिपाद्यते तन्न युक्तं समुदायशकेरभावे निरुक्तानुभवजनकत्व-निरुक्तस्मरणजनकस्वयोरेवानुपपत्तेः, नहि यच्छन्दो येनार्थेनासम्बद्धः स. शब्दस्तमर्थमनुभावयितुं स्मारयितुं वा समर्थोऽतिप्रसङ्गादिति तटस्थाशक प्रतिक्षिपति-न