________________ 368 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलहतो नवोपदेशः / अनाकलने वा कमाश्रित्य व्यभिचारः शङ्कथेत, तथा च सुतरामनुमानस्वीकारः, एवं च देशान्तरेऽपि वक्तव्यम् , स्वीकृतमनुमानं सुहृद्भावेन पृच्छामः कथमाशङ्का निवर्तनीयेति चेत् ? न- यावदाशङ्कं तर्कप्रवृत्तेः, तेन हि वर्तमानेनोपाधिकोटौ तदायत्तव्यभिचारकोटौ वाऽनिष्टमुपनयतेच्छा विच्छिद्यते, विच्छिन्नविपक्षेच्छश्च प्रमाता भूयोदर्शनोपलब्धसाहचर्य लिजमनाकुलोऽधितिष्ठति, अधिष्ठिताच करणात् क्रियापरिनिष्पत्तिरिति किमनुपपन्नम् / ननु तर्कोऽप्यविमाभावमपेक्ष्य प्रवर्तते, ततोऽनवस्थया भवितव्यम् , न- शङ्काया व्याघातावधित्वात् , तदेव ह्याशङ्कयते यस्मिन्नाशयमाने स्वक्रियाव्याघातादयो नावतरन्तीति लोकमर्यादा, नहि हेतुफलभावो न भविष्यतीति शङ्कितुमपि शक्यते, तथा सति शङ्खव न स्यात्, सर्व मिथ्या भविष्यतीत्यादिवत्, तथाप्यतीन्द्रियोपाधिनिषेधे किं प्रमाणमित्युच्यतामिति चेत् ? न वै कश्चिदतीन्द्रियोपाधिः प्रमाणसिद्धोऽस्ति यस्याभावे प्रमाणमन्वेषणीयम्, केवलं साहचर्ये निबन्धनान्तरमात्रं शङ्कयते, ततः शव फलतः स्वरूपतच निवर्तनीया, तत्र फलमस्याविपक्षस्यापि जिज्ञासा तर्कादाहत्य निवर्तते, ततोऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीति सर्व सुस्थम्, न चेतदागमम् , न्यायातया तक व्युत्पादयतः सूत्रकारस्याभिमतत्वात् , अन्यथा तद्वथुत्पादनवैयादिति / अनुमानस्य / प्रामाण्य तत एव संवादिप्रवृत्तिजनकत्वहेतुना शब्दजधियोऽपि प्रामाण्यं सिद्धयत्येव, प्रमाणं भवतु शब्दः किन्तु तस्यानुमानेऽन्तर्भाव इति न पृथक् प्रमाणमिति वैशेषिकमतं चाशङ्कच कुसुमाञ्जलावेव दूषितम्, तद्न्थश्चायम्-"शब्दोऽपि व बाधकमनुमानानतिरेकादिति वैशेषिकादयः, तथाहि- यद्यप्येते पदार्था मिथः संसर्गवन्तो वाक्यत्वादिति व्यधिकरणम् , पदार्थत्वादिति चानैकान्तिकम्, पदैः स्मारितत्वादित्यपि तथा, यद्यपि चैतानि पदानि स्मारितार्थसंसर्गवन्ति तत्स्मारकत्वादित्यादौ साध्याभावः, नह्यत्र मत्वर्थः संयोगः समवायस्तादात्म्यं विशेषण-विशेष्यभावो वा संभवति, जाप्यज्ञापकभावस्तु स्वातन्त्र्येणानुमानान्तर्भाववादिभिर्नेष्यते, न च लिङ्गतया ज्ञापकत्वम् , यल्लिङ्गस्य विषयस्तदेव तस्य, परस्पराश्रय प्रसङ्गात् तदुपलम्भे हि व्याप्तिसिद्धिस्तत्सिद्धौ च तदनुमानमिति, तथाप्याकालादिमद्भिः पदैः स्मारितत्वात् गामभ्याजेति पदार्थवदिति स्यात् , न च विशेषासिद्धिर्दोषः, संसर्गस्य संसृज्यमानविशेषादेव विशिष्टत्वात् , यद्वा एतानि पदानि स्मारितार्थसंसर्गज्ञानपूर्वकानि आकाङ्कादिमत्त्वे सति तत्स्मारकत्वात्, गामभ्याजेतिपदवत्, न चैवमर्थासिद्धिः, ज्ञानावच्छेदकतयैव तस्सिद्धेः, तस्य च संसृज्यमानोपहितस्यैवावच्छेदकत्वान्न विशेषाप्रतिलम्भ इति, अत्रोच्यते- "अनेकान्तः परिच्छेदे सम्भवे च न निश्चयः / आकाढासत्तया हेतुर्योग्यासत्तिरबन्धना // 1 // " एते पदार्था मिथः संसर्गवन्त इति संसृष्टा एवेति मियमो वा साध्यः ? सम्भावितसंसर्गा वा.? न प्रथम:- अनाप्तपदकदम्बस्मारितैरनेकान्तात् , आप्तोक्त्या विशेषणीयमिति चेत् ? न- वाक्यार्थप्रतीतेः प्राक् तदसिद्धेः न यविप्रलम्भकत्वमिहाप्तशब्देन विवक्षितम् , तदुक्तेरपि पदार्थसंसर्गव्यभिचारात्, अपि तु तदनुभवप्रामाण्यमपि, न चैतच्छक्यमसर्वज्ञेन सर्वदा सर्वविषये सत्यज्ञानवानयमिति निश्चेतुम् , भ्रान्तेः पुरुषधर्मत्वात् , यत्र क्वचिदाप्तत्वमनाप्तस्याप्यस्तीति न तेनोपयोगः, ततोऽस्मिन्नर्थेऽयमभ्रान्त इति केनचिदुपायेन ग्राह्यम्, न चैतत् संसर्गविशेषमप्रतीत्य शक्यम् , बुद्धेरर्थभेदमन्तरेण निरूपयितुमशक्यात् , पदार्थमात्रे चाभ्रान्तत्वसिद्धौ न किञ्चित् , अनातसाधारण्यात्, एतेषां संसर्गेऽयमभ्रान्त इति शक्यमिति चेत् ?, न- एतेषां संसर्गे इत्यस्या एव बुद्धरसिद्धः, अननुभूतचरे स्मरणायोगात्, तदनुभवस्य लिङ्गाधीनतया तस्य च विशेषणासिद्धत्वेनानुपपत्तेरिति / नापि द्वितीयः-योग्यतामात्रसिद्धावपि संसर्गानिश्चयात् , वाक्यस्य च तदेकफलत्वात् , योग्यतामात्रस्य प्रागेव सिद्धेः, अन्यथा तदसिद्धावासन्नसाकाङ्क्षपदस्मारितत्वादित्येव हेतुः स्यात्, तथा चाग्निना सिञ्चेदित्यादिना स्मारितैरनेकान्तः, तथाविधानां सर्वथा संसर्गायोग्यत्वादिति / द्वितीयेऽपि प्रयोगे हेतुराकाङ्खादिमत्त्वे सतीति, तत्र केयमाकाङ्क्षा नाम, न तावद् विशेषणविशेष्यभावः, तस्य संसर्गस्वभावतया साध्यत्वात् नापि तद्योग्यता, योग्यतयेव गतार्थत्वात् , नाप्यविनाभावः, नीलं सरोजमित्यादौ तदभावेऽपि वाक्यार्थप्रत्ययात् , तत्रापि सामान्याक्षिप्तविशेषयोरविनाभावोऽस्तीति चेत् !, न- अहो विमलं जलं नद्याः, कच्छे महिषश्वरतीत्यादौ वाक्यभेदानुपपत्तिप्रसङ्गात् !, नापि प्रतिपत्तुर्जिज्ञासा, पटो भवतीत्यादौ शुक्लादिजिज्ञासायां रक्तः पटो भवतीत्यस्यैकदेशवत् सर्वदा वाक्यापर्यवसानप्रसङ्गात् , गुण क्रियाद्यशेषविशेषजिज्ञासायामपि पदस्मारितविशेषजिज्ञासा आकाला, पट इत्युक्ते किंरूपः कुत्र किं करोतीत्यादिरूपजिज्ञासा, तत्र भवतीत्युक्ते किं करोतीत्येव परस्मारितविषया, न तु किंरूप इत्यादिरपि, यदा तु रक्त इत्युच्यते तदा किंरूप इत्येषाऽपि स्मारितविषया स्यात् , इति न किञ्चिदनुपपन्नमिति चेत् ? एवं तर्हि चक्षुषी निमील्य, परिमावयतु भवान्-- किमस्यां जातायामन्वयप्रत्ययोऽथ ज्ञातायामिति, तत्र प्रथमे नानया व्यभिचार