________________ मयामृततरबिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः। तृणनेन व्यभिचारज्ञानस्य तेनैव रूपेण कारणताग्रहविरोधित्वात् , अवच्छेदकौदासीन्येन तृणखसमानाव्यावर्तनाय हेतुर्विशेषणीयः, मनःसंयोगादिवत् सत्तामात्रणोपयोगात्, आसत्तियोग्यतामात्रेण विशिष्टस्तु निश्चितोऽपि न गमकोऽयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ व्यभिचारात्, द्वितीयस्तु स्यादपि, यद्यनुमानान्तरवत् तत्सद्भावेऽपि तज्ज्ञानवैधुर्यादन्वयप्रत्ययो न जायते, न त्वेतदस्ति, आसत्तियोग्यतामात्रप्रतिसन्धानादेव साकासस्य सर्वत्र वाक्यार्थप्रत्ययात्, निवृत्ताकाङ्क्षस्य च तदभावात् , कथमेष निश्चयः साकाल एव प्रत्येति न तु ज्ञाताकाल इति चेत् ? तावन्मात्रेणोपपत्तावनुपलभ्यमानशानकल्पनाऽनुपपत्तेः, अन्यत्र तथा दर्शनाच्च, यदा हि दूराद् दृष्टसामान्यो जिज्ञासते- कोऽयमिति, प्रत्यासीदंव स्थाणुरयमिति प्रत्येति, तदाऽस्य ज्ञातुमहमिच्छामीत्यनुव्यवसायाभावेऽपि स्थाणुरयमित्यर्थप्रत्ययो भवति, तथेहाप्यविशेषाद् विशेषोपस्थानकाले संसार्गावगतिरेव, न तु जिज्ञासाऽवगतिरिति, न च विशेषोपस्थानात् प्रागेव जिज्ञासावगतिः प्रकृतोपयोगिनी, तावन्मात्रस्यानाकाङ्कत्वात् , न चैवम्भूतोऽयमेकान्तिको हेतुः, यदा खयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामिति वक्कोचारयति श्रोता च व्यासङ्गादिना निमित्तेनायमेति पुत्र इत्यश्रुत्वैव राज्ञः पुरुषोऽपसार्यतामिति शृणोति तदाऽस्त्याकालादिमत्त्वे सति पदकदम्बत्वम्, न च स्मारितार्थसंसर्गज्ञानपूर्वकत्वमिति, स्यादेतत् , यावत्समभिव्याहृतत्वेन विशेषिते हेतौ नायं दोषः, कुतस्तर्हि कतिपयपदश्राविणः संसर्गप्रत्ययः, अलिङ्ग एव लिङ्गत्वाध्यारोपात्, एतावानेवायं सममिव्याहार इति तत्र श्रोतुरभिमानः, न- तत्संदेहेऽपि श्रुताऽनुरूपसंसर्गाऽवगमात्, भवति हि तत्र प्रत्ययो न जाने किमपरमनेनोक्कमेतावदेव श्रुतं यद् राज्ञः पुरुषोऽयमपसार्यतामिति, भ्रान्तिरसाविति चेत् ? न तावदसौ दुष्टेन्द्रियजा, परोक्षाकारत्वात् , न लिाभासजा, लिङ्गाभिमानाभावेऽपि जायमानत्वात् , एतावत्पदकदम्बप्रतिसन्धानमेव तां जनयतीति चेत् / यद्येवमेतदेवादुष्टं तदभ्रान्ति जनयत् केन वारणीयम् , व्याप्तिप्रतिसन्धानं विनाऽपि तस्य संसर्गप्रत्यायने सामर्थ्यावधारणात् , चक्षुरादिवत् , नास्त्येव तत्र संसर्गप्रत्ययोऽसंसर्गाप्रहमात्रेण तु तथा व्यवहार इति चेत् ! तर्हि यावत्समभिव्याहारेणापि विशेषणेनाप्रतीकारः, तथाभूतस्यानाप्तवाक्यस्य संसर्गज्ञानपूर्वकत्वाभावात् , असंसर्गाग्रहपूर्वकत्वमात्रे साध्ये न व्यभिचार इति चेत् ! एवं तर्हि संसर्गों न सिद्धयेत् , आप्तवाक्येषु सेत्स्यतीति चेत् ?, न- सर्व विषयाप्तत्वस्यासिद्धेः, यत्र क्वचिदाप्तत्वस्यानैकान्तिकत्वात् प्रकृतविषये चाप्तत्वसिद्धौ संसर्गविशेषस्य प्रागेव सिद्धयभ्युपगमादित्युक्तम्, म च सर्वत्र जिज्ञासा निबन्धनम् , अजिज्ञासोरपि वाक्यार्थप्रत्ययात् , आकाङ्क्षापदार्थस्तर्हि कः ? जिज्ञासां प्रति योग्यता, सा च स्मारिततदाक्षिप्तयोरविनाभावे सति श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावः, न चैषोऽपि ज्ञानमपेक्षते, प्रतियोगिनिरूपणाधीननिरूपणत्वात् तदभावनिरूपणस्य च विषयनिरूप्यत्वादितीति / प्रत्यक्षमेवैकं प्रमाणमभ्युपगच्छतश्चार्वाकस्य प्रत्यक्षाभावादीश्वरमपलपतः शिक्षणमपि तत्रैव, तथा च तद्न्थः - “चार्वाकस्त्वाह - किं योग्यताविशेषाप्रहेण, यच्चोपलभ्यते तन्नास्ति विपरीतमस्ति, न चेश्वरादयस्तथा ततो न सन्तीत्येतदेव ज्यायः, एवमनुमानादिविलोप इति चेत् ? नेदमनिष्टम्, तथा च लोकव्यवहारोच्छेद इति चेत् ! न- सम्भावनामात्रेण तत्सिद्धेः, संवादेन च प्रामाण्याभिमानादिति, अत्रोच्यते- " दृष्ट्यदृष्ट्योन संदेहो भावाभावविनिश्चयात् / अदृष्टिबाधिते हेतौ प्रत्यक्षमपि दुर्लभम् // " सम्भावना हि सन्देह एव, तस्मात्र व्यवहारस्तस्मिन् सति स्यात् , स एव तु कुतः, दर्शनदशायां भावनिश्चयात् , अदर्शनदशायामभावावधारणात् , तथा च गृहाद् विनिर्गतश्चार्वाकवराको न निवर्तेत, प्रत्युत पुत्रदारधनाद्यभावावधारणात् सोरस्ताडं शोकविकलो विक्रोशेत् , स्मरणानुभवान्नैवमिति चेत्, न- प्रतियोगिस्मरण एवाभावपरिच्छेदात्, परावृत्तोऽपि कथं पुनरासादयिष्यति, सत्त्वादिति चेत् ? अनुपलम्भकालेऽपि तर्हि सन्तीति न तावन्मात्रेणावधारणम् , तदैवोत्पन्ना इति चेत् ? अनुपलम्भेन हेतूनां बाधात् , अबाधे वा स एव दोषः, अत एव प्रत्यक्षमपि न स्यात्- तद्धेतूनां चक्षुरादीनामनुपलम्भबाधितत्वात् , उपलभ्यन्त एव गोलकादय इति चेत् ? न- तदुपलब्धेः पूर्व तेषामनुपलम्भात् , न च यौगपद्यनियमः, कार्यकारणभावाद्" इति / अवच्छेदकविनिर्मोके. णान्यत्रापि कार्यकारणभाव इत्युपदर्शयति- तृणाऽरणिमण्यादीनामिति / तृणत्वेनैवेति- तृणत्वावच्छिन्नस्याभावेऽपि अरण्यादितो वहेर्भावेन तृणाभावे वह्निभावलक्षणव्यतिरेकव्यभिचारज्ञानस्य तृणत्वेनैव धर्मेण वह्निनिष्ठकार्यतानिरूपितकारणत्वस्य तृणे प्रहे प्रतिबन्धकत्वादित्यर्थः। अवच्छेदकोदासीन्येन अवच्छेदकस्य कस्यचिदप्रवेशेन "तृणत्वसमानाधिकरणताग्रहे" इत्यस्य स्थाने " तृणत्वसामानाधिकरण्येन कारणतामहे " इति पाठो युक्तः, तृणं वह्निकारणमित्येवं कारणताप्रह इत्यर्थः। विरोधाभावात् तृणत्वेन व्यभिचारज्ञानस्याप्रतिबन्धकत्वात्। ननु कारणतायाः ससम्बन्धिपदार्थत्वेन