________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलईतो नयोपदेशः / 367 भादेरपि तथाज्ञानात्, रासभादेर्व्यभिचारज्ञानान्न तद्ह इति चेत् ? न- वह्नयादेरपि व्यभिचारशवासाम्राज्यादिति, धूमाद्यर्थिनो वह्नयादौ प्रवृत्तिश्च सम्भावनयैवोपपद्यत इति परमतमिति चेत् ? नसामान्यव्यभिचारा-ऽनुगतागुरुविशेषान्तरानुपस्थितिदशायां यत्किञ्चिद्धमवतयोस्तबहसामग्र्या एव वह्निः धूममात्रे तबाहकत्वात् , सति लाघवज्ञाने व्यभिचारशङ्काया अप्रतिबन्धकत्वात्, रासभादौ तु व्यभिचारनिर्णय एव, असति तन्निर्णये तत्र धूमहेतुत्वग्रहेऽपि भ्रमत्वमेव ग्राह्याभावात् , अन्यथासिद्धनियत. पूर्ववर्तित्वं हि हेतुत्वम् , तथा च वयादेरवधिभूतस्य धूमादिनियतपूर्ववर्तित्वादनन्यथासिद्धत्वाच्च तद् दुर्निवारम्। यागा-ऽदृष्टादौ स्वर्गादिनिष्ठकार्यतानिरूपितकारणताग्रहश्चावच्छेदकविनिर्मोकेण शब्दानुमाना. दिनैव, तत्प्रामाण्यस्यापि तत्र व्यवस्थापितत्वात्। तृणा-ऽरणि-मण्यादीनां वहिकारणताग्रहेऽपीयमेव रीतिः, भादेरिति / न तबहान धूम-रासभयोः कार्यकारणभावग्रहः / देशान्तरे कालान्तरे वा वहिं विनाऽपि धूमो भविष्यतीति व्यतिरेकव्यभिचारशङ्कया वह्नि-धूमयोरपि कार्यकारणभावग्रहो न स्यादिति समाधत्ते- न-वतयादेरपीति / ननु धूमवन्योन यदि कार्यकारणभावस्तदा धूमरूपेष्टसाधनत्वस्य वह्नौ ज्ञानाभावाद् धूमार्थिनो वयानयनादौ प्रवृत्तिर्न स्याद्, एवं भोजनादेरपि तृप्त्यादिकं प्रति कारणत्वाभावेन तृप्त्याद्यर्थिनो भोजनादपीष्टसाधनत्वज्ञानाभावात् प्रवृत्तिर्न भवेदित्यत आहधूमाद्यार्थिन इति / सम्भावनयैव प्रायो वयादे मादिर्भवतीति सम्भावनयैव इष्टसाधनत्वसंशयादपि कृषीवलादेः कृष्यादिकरणे प्रवृत्तिदर्शनेनेष्टसाधनत्वप्रमितित्वेनेष्टसाधनतानिश्चयत्वेन वेष्टसाधनताज्ञानस्य प्रवृत्तिं प्रति कारणत्वभावादित्याशयः। इति परमतम् एवंस्वरूपं कार्यकारणभावापलापिमतम् / समाधत्ते-नेति / सामान्येति-धूमं प्रति वहेर्द्रव्यत्वेन तेजस्त्वादिना वा कारणत्वे व्यभिचारः सकलवयनुगतवहित्वापेक्षयाऽगुरोर्विशेषान्तरस्यावान्तरसामान्यस्यानुपस्थितिश्चेति तदशायां यत्किञ्चिद्भूमवयोः कार्यकारणभावग्रहस्य या यत्किञ्चिद्धमवढ्यन्वयव्यतिरेकग्रहसहकृतवहिधूमादिप्रत्यक्षलक्षणा सामग्री तस्या एव वह्निधूममात्रे वहिसामान्य धूमसामान्ययोः, तबाहकत्वात् कार्यकारणभावग्राहकत्वात् , वहयाद्यन्यतमत्वापेक्षया वहित्वं लध्विति लाघवज्ञाने सति धूमं प्रति वह्विसामान्यस्य वह्नित्वेन कारणत्वग्रहे क्वचिद् वहिं विनाऽपि धूमो भविष्यतीति व्यभिचारशङ्कायाः अप्रतिबन्धकत्वादित्यर्थः। ननु रासभत्वादिकमपि रासभादावनुगतं सामान्यरूपत्वाचातद्वयावृत्त्याद्यपेक्षया लम्विति तेनाविरूपेण रासभादबूंमं प्रति कारणत्वग्रहः किं न स्यादित्यत आह-रासभादौ त्विति / व्यभिचारनिर्णय एव रासभाद्यभावेऽपि वन्यादिघटितसामन्या धूमोत्पत्तेदर्शनाद् व्यभिचारनिर्णय एव, स च कारणत्वग्रहं प्रति प्रतिबन्धक इति न धूमं प्रति रासभादेः कारणत्वग्रह इत्यर्थः / यदा च निरुक्तव्यभिचारग्रहो नास्ति तदा निरुकसामग्या रासभादेरपि धूमं प्रति कारणत्वग्रहो भवत्येव, किन्तु रासभादौ धूमकारणत्वाभावेऽपि धूमकारणग्रहो भवन् भ्रम एव, स च न वस्तुसाधक इति न ततो धूमं प्रति रासभादेः कारणत्वं सिद्धयतीत्याह- असतीति / तन्निर्णये व्यभिचारनिर्णये / तत्र रासभादौ / ग्राह्याभावात् ग्राह्यस्य धूमं प्रति रासभादेः कारणत्वस्याभावात् / कारणत्वं निरुच्य तस्य धूमं प्रति वयादौ सद्भावमावेदयति- अन्यथेति- अन्यथासिद्धिशून्यत्वे सति कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वं कारणत्वमित्यर्थः / तथा च कारणत्वस्य निरुक्तस्वरूपत्वे च / तत् कारणत्वम् / ननु स्वर्गत्वादेर्दुःखासम्भिन्नसुखविशेषादिरूपस्यादर्शनात् कथं यागत्वेन स्वर्गत्वेन कार्यकारणभावग्रहः, धर्माधर्मगतमदृष्टत्वं त्वतीन्द्रियत्वादेव न प्रत्यक्षमिति कथं स्वर्गत्वेनादृष्टत्वेन कार्यकारणभावोऽप्यन्वयव्यतिरेकग्रहसहकृतप्रत्यक्षप्रमाणप्राह्म इत्यत आह-यागादृष्टादाविति / ननु कार्यकारणभावापलापिना चार्वाकण प्रत्यक्षस्यैव प्रामाण्यं स्वीक्रियते. न शब्दानुमानादेरिति कथं ततो यागा-ऽदृष्टादौ स्वर्गादिजनकत्वग्रह इत्यत आह-तत्प्रामाण्यस्यापीति-शब्दा-ऽनुमानादि. प्रामाण्यस्यापीत्यर्थः / तत्र उदयनाचार्यादिप्रणीतकुसुमाञ्जल्यादौ, तत्रानुमानप्रामाण्यव्यवस्थापको प्रन्थश्चायम्' " शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् / व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः // 1 // " इति, कालान्तरे कदाचिद् व्यभिचरिष्यतीति कालं भाविनमाकलय्य शङ्कत, तदाकलनं च नानुमानमवधीर्य कस्यचित् , मुहूर्तयामा-ऽहोरात्र-पक्ष-मास-वयन-संवत्सरादयो हि भाविनो भवन्मुहूर्ताद्यनुमेया एव, अनवगतेषु स्मरणस्याप्यनाशनीयत्वात्,