________________ 366 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। गगनादिव्यावृत्तमस्त्विति चेत् ? न- कादाचित्कत्वस्यावधिनियतत्वात्। सन्त्यवधयो न त्वपेक्ष्यन्त इति चेत् ? न-नियतपश्चाद्भावित्वस्यैवापेक्षार्थत्वात् , अन्यथा गर्दभाद् धूम इत्यपि प्रतीयेत / तन्नियः तत्वेऽपि तद्गतोपकाराजनकस्य कथं तद्धेतुजनकत्वमिति चेत् ? उपकारो हि कार्यमिति तद्गतकार्यहेतुत्वस्य तद्धेतुत्वेऽतन्त्रत्वात्, अन्यथोपकारहेतुत्वाय उपकारेऽप्युपकारान्तरस्वीकारे अनवस्थापत्तेः, तर्हि घटादिनियतत्वं कपालादेरेव न तन्त्वादाविति कुत इति चेत् ? स्वभावादेवेति गृहाण, अथ तथापि ग्राहकाभावात् तदसिद्धिः, न च धूमादौ वह्नयादेरन्वय-व्यतिरेकानुविधायित्वज्ञानसचिवं वहयादिप्रत्यक्षमेव हेतुहेतुमद्भावग्राहकम्, धूममात्रेऽन्वय-व्यतिरेकज्ञानासम्भवात् , यत्किञ्चिद्धमे रास तच्चावधिनियतत्वात् सहेतुकत्वव्याप्तमेवेति हेतुं विना न तस्य गगनादिव्यावृत्तत्वमिति समाधत्ते-नेति / समाधानामिसन्धिमजानानः परः शङ्कते- सन्त्ववधय इति / न त्वपेक्ष्यन्त इति - कार्येणावधयो नापेक्ष्यन्ते, कार्यस्य नावध्यपेक्ष्यत्वमित्यर्थः / तदपेक्षत्वं तदनन्तरभावित्वमेव, तच कार्यस्यावध्यवहितोत्तरक्षणभाविनोऽप्यस्तीति कथं नावध्यपेक्ष्यत्वं कार्यस्येति...' समाधत्ते-नेति। नियतपश्चाद्भावित्वस्यैव नियमत उत्तरकालोत्पत्तिकत्वस्यैव / अन्यथा नियतपश्चाद्भावित्वस्यापेक्षार्थवाभावे / गर्दभादिति- सामान्यतो वह्वः पश्चाद्भावित्वस्येव गर्दभात् पश्चाद्भावित्वस्यापि धूमे सत्त्वमिति धूमः स्वोत्पत्ती वद्विमिव गर्दभमप्यवधीकुर्यात् , तथा च वहेर्धूम इत्येवं यथा प्रतीयते तथा गर्दभाद् धूम इत्यपि प्रतीयतेत्यर्थः / ननु वहेधूमनियतत्वेऽपि धूमगतोपकाराजनकत्वान्न तजनकत्वमित्याशङ्कते- तन्नियतत्वेऽपीति-अवधीनां कार्यनियतत्वे. ऽपीत्यर्थः / " त तुजनकत्व" इत्यस्य स्थाने " तज्जनकत्व" इति पाठो युक्तः / समाधत्ते- उपकार इति / हि यतः / कार्यगतोपकारः कार्यगतकार्यमेव, एवं च कार्यगतकार्यजनकस्य कार्यजनकत्वमिति स्यात् , तच्च न युक्तं कार्यगतकार्यजनकत्वस्य कार्यजनकत्वेऽप्रयोजकत्वादित्यर्थः। अन्यथा तद्गतोपकारलक्षणकार्यजनकत्वस्य तज्जनकत्वाप्रयोजकत्वाभ्युपगमे / उपकारहेतुत्वाय कार्यगतोपकारहेतुत्वार्थम् / उपकारेऽपि उपकारात्मककार्येऽपि, उपकारात्मककार्यजनकत्वं तदैव भवेद् यद्युपकारात्मककार्यगतोपकारजनकत्वं स्याद्, एवमुपकारात्मक कार्यगतोपकारात्मककार्यजनकत्वमप्युपकारात्मककार्यगतोपकारात्मककार्यगतोपकारजनकत्वं स्यादित्येवमनवस्थाप्रसङ्गादित्यर्थः। ननु कार्यगतोपकाराजनकस्यापि कार्यनियतत्वाभ्युपगमे घटादिगतोपकाराजनकस्य कपालादेर्घटादिनियतत्वं भवति न तन्त्वादेरित्यत्र किं नियामकम् ? नियामकाभावे तु तन्त्वादेरपि घटादिनियतत्वं प्रसज्यतेत्याशयेन पृच्छति-तीति / कपालादेरेवायं स्वभावो यदुत- स घटादिनियतो भवति न तन्त्वादेरित्युत्तरयति-स्वभावादेवेति / इति गृहाण इति जानीहि / नन्वेवं कपालत्वेन कपालस्य घटं प्रति कारणत्वं घटत्वेन घटस्य कपालकार्यत्वमित्युपगतं भवेत्, एवं धूमत्वेन वह्नित्वेन धूमवह्नयोः कार्यकारणभाव इति, तच्च न सम्भवतिकार्यकारणभावग्राहकप्रमाणाभावेन कार्यकारणभावस्यैवासिद्धरित्याशङ्कते- अथेति / तथापि स्वभावान्नियतत्वसम्भवेऽपि / ग्राहकाभावात् कार्यकारणभावप्राहकप्रमाणाभावात् , तदसिद्धिः कार्यकारणभावासिद्धिः / वह्निसत्त्वे धूमसत्त्वं वहयभावे धूमाभाव इत्येवं वह्निधूमयोर्यावन्वय-व्यतिरेको तत्सहकृतं वयादिप्रत्यक्षमेव वह्नि-धूमयोः कार्यकारणभावप्राहकं प्रमाणमित्याशङ्कय प्रतिक्षिपति-न चेति / धूमादाविति-धूमादौ यद् वह्नयाद्यन्वयानुविधाय्यन्वयित्वं यच्च वह्वयादिव्यतिरेकानुविधायिव्यतिरेकित्वं तदुभयज्ञानसहकृतमेव वह्वयादिप्रत्यक्षमेव कार्यकारणभावग्राहकमित्यर्थः / निषेधे हेतुमाह-धूममात्र इति- देशान्तरधूमे वयन्वयाविधाय्यन्वयित्वस्य वहिव्यतिरेकानुविधायिव्यतिरेकित्वस्य च ज्ञानासम्भवेन धूममात्रे सर्वस्मिन् धूमेऽर्थाद् धूमत्वावच्छिन्ने वड्यन्वय-व्यतिरेकानुविधाय्यन्वय-व्यतिरेकज्ञानासम्भवान्न तत्सचिवं वह्नयादिप्रत्यक्ष कार्यकारणभावग्राहकमित्यर्थः / यदि च यत्किञ्चिद्भूमे वह्नयन्वय-व्यतिरेकित्वज्ञानसहकृतं वयादिप्रत्यक्षं वह्निधूमयोः कार्यकारणभावस्य ग्राहकमुपेयते तदा यत्किञ्चिद्भूमे रासभाद्यन्वय-व्यतिरेकानुविधाय्यन्वय-व्यतिरेकित्वज्ञानमप्यस्तीति तत्सचिवं रासभादिप्रत्यक्षमपि धूमरासमाद्योः कार्यकारणभावग्राहकं भवेदिति धूमं प्रति रासभादेरपि कारणत्वं प्रसज्येतेति प्रतिक्षेपहेतुमुपदर्शयति- यत्किञ्चिद्धम इति / तथाज्ञानात् अन्वय-व्यतिरेकानुविधाय्यन्वय-व्यतिरेकज्ञानात् / ननु क्वचिद् रासभादिकमन्तरेणापि धूमोत्पत्तिदृश्यत इति व्यतिरेकव्यभिचारज्ञानान धूम-रासमाद्योः कार्यकारणभावग्रह इत्याशङ्कते- रास