________________ 364 नयामृततरङ्गिणी सरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। चार्वाकाविपक्षनिरासश्चातिभूयानिति लतादित एव तदनुगमो विधेयः। ' अकस्माद् भवति इत्यनुपायवादिमते चात्यन्तोपयुक्तत्वात् किश्चिद् विचार्यते,- अकस्मादिति किंशब्दस्य हेतुपरतया हेत्व. भावे भवनपरम् ? उत "अ-मा-नो-ना प्रतिषेधे" इति स्मरणानिषेधार्थकस्य 'अ'शब्दस्य क्रियासम्बन्ध. सम्भवाद् भवनाभावपरम् ? किंवा किंशब्दस्य स्वभिन्नपरतयाऽलीकभिन्नपरतया वा स्वहेतुकत्वपरम् , अलीकहेतुकत्वपरं वा? अथवा अकस्मादिति स्वभावादित्यर्थे रूढतया स्वभावादेव कादाचित्कमित्यर्थ के ? एतेषु पञ्चषु नैकोऽपि प्रकारो युक्तः, नियतावधिकार्यदर्शनात् , अनियतावधित्वे निरवधित्वे वा कादाचित्कत्वस्वभावव्याकोपापातात्, तत्स्वाभाव्ये च सहेतुकत्वस्यावश्यत्वात् , तदुक्तमुदयनेन" हेतु-भूतिनिषेधो न स्वा-ऽनुपाख्याविधिर्न च। स्वभाववर्णना नैवमुपानियतत्वतः // ". इति [ न्यायकुसुमाञ्जलिकारिका-५ ] "अस्ति जीवस्तथा नित्यः कर्ता भोका स पुण्य-पापयोः। अस्ति ध्रुवं निर्वाणं तस्योपायश्च षट् स्थानानि // 1 // " इति संस्कृतम् / चार्वाकादिमतात्मकानि षड् मिथ्यात्वस्थानकान्यस्मन्निर्मितलतादिग्रन्थ एव खण्डितानीति तत एव तेषां खण्डनयुक्तयोऽवसेयाः, प्रन्थगौरवभयान्नात्र तेषां खण्डनं क्रियत इत्युपदिशति-चार्वाकादिपक्षनिरासश्चेति / तदनुगमः चार्वाकादिपक्षनिरासानुगमः / नियतिवादिमतखण्डनस्यात्रापि कर्तव्यत्वावश्यकत्वमावेदयति-अकस्मादिति। अकस्मादिति किंशब्दस्य अकस्मादित्येतद्घटककिंशब्दस्य / हेतुपरतया हेत्वात्मकार्थप्रतिपादकत्वेन, भवतीति च भवनार्थकम् , तथा च अकस्माद् भवतीति वाक्यं हेत्वभावे भवनपरं हेत्वभावे सति भवतीत्यर्थकम् / अकस्मादित्यस्य न कस्मादकस्मादित्येवं न समासत्वम् , किन्तु निषेधार्थकोऽशब्दः समासानन्तर्गत एव, तस्य भवतीति क्रियाशब्देनैव साकासत्वमित्यकस्माद् भवतीति कस्मादपि न भवतीत्यर्थकमिति सर्वथा भवनप्रतिषेध इति द्वितीयविकल्पमुपदर्शयति- उतेति- अथवेत्यर्थः। अकस्मादित्यत्र किंशब्दः स्वभिन्नपरस्तेन सह नञः समासे अकस्मादित्यनेन स्वभिन्नभिन्नादिति लभ्यते, स्वभिन्नभिन्नं च स्वमेव भवतीति स्वहेतुकभवनपरमकस्माद् भवतीति / यदि च किंशब्दोऽलीकभिन्नपरस्तदाऽलीकभिन्नभिन्नादित्यकस्मादित्यस्यार्थः, अलीकभिन्नभिन्नं चालीकमेवेत्यलीकाद् भवतीत्येवं पर्यवसितादकस्माद् भवतीत्यलीकहेतुकभवनमकस्माद् भवतीति तदाहकिं वेति / यदा च लम्बकर्णादिशब्दवदव्युत्पन्न एवायमकस्मादिति शब्दः स्वभावादित्यर्थे वर्तते तदा स्वभावात् कादाचित्कं भवनमित्यर्थकमकस्माद् भवतीत्याह- अथवेति / "मित्यर्थके" इत्यस्य स्थाने "मित्यर्थकम् !' इति पाठो युक्तः / एतेषु अनन्तरमुपदर्शितेषु / कथं न युक्त इत्यपेक्षायामाह-नियतावधिकार्यदर्शनादिति- नियतोऽवधिर्यस्य स नियतावधिरेवम्भूतस्य कार्यस्य दर्शनादित्यर्थः, वहेरव्यवहितपूर्ववर्तिनः सत्त्व एव धूमोत्पादेन धूमस्य वह्निर्नियतोऽवधिदृश्यत एव, य एव च नियतः पूर्वावधिः स एव कारणमिति न स्वं स्वस्य नियतं पूर्ववर्ति, नवा स्वभावादिकं तथा / सहेतुककार्यभवने व्यवस्थिते तस्य निर्हेतुकत्वं सर्वथा निषेधश्च न सङ्गतिमञ्चतीत्यकस्माद् भवतीत्यस्य पञ्चापि प्रकारा अयुक्ता एवत्याशयः / नन्वनियतावधित्वं निरवधित्वमेव वा कार्यस्यास्तु, तथा च नियतावधिकत्वासिद्धया न कार्यस्य सहेतुकत्वसिद्धिरित्यत आह-अनियतावधित्व इति- अनियतावधित्वे धूमो यथा वह्निमवधिं कृत्वोत्पद्यते तथा वहिभिन्नमपि कमप्यवधिं कृत्वोत्पद्यतेति न वहिसद्भावानन्तरमेव धूमस्योत्पत्तिः, किन्तु वहिसद्भावतः प्राक् तावहितो. त्तरकालेऽपि च यं कमप्यवधि कृत्वा धूमो भवन्न कादाचित्कः स्यादिति तस्य कादाचित्कत्वस्वभावो व्याहन्येत, एवं निरवधित्वेऽपि ये ये निरवधय आकाशादयो न ते कादाचित्कत्वत्वभावा इति निरवधिधूमोऽपि कादाचित्कत्वस्वभावो न भवेदित्येवं कादाचित्कत्वस्वभावव्याकोपानियतावधित्वे ततः सहेतुकत्वं स्वीकर्तव्यमेवेत्यर्थः / एतदेवाह-तत्स्वाभाव्ये चेति- कार्यस्य नियतावधिकत्वस्वाभाव्य चेत्यर्थः / उत्कार्थे उदयनाचार्यवचनसंवादमाह- तदुक्तमुदयनेनेति / हेत्वितिअकस्माद् भवतीत्यनेनाहेतुतो भवतीत्यर्थाश्रयणाद्धतुनिषेधो न, अकस्मादित्यत्राकारस्य भवतीतिक्रियासम्बन्धाश्रयणाद् भवनप्रतिषेधो न, हेतुतो यद् भवनं तत्प्रतिषेधो न, अकस्मादित्यस्योपदिशा स्वस्मादित्यर्थकरणात् स्वविधिः-स्वस्मादेव स्वमत्पयत