________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो मयोपदेशः / 363 अथ नयोत्पादितेष्वपरिमितेषु दर्शनेषु कस्मिन् मिथ्यात्वं कमिश्च सम्यक्त्वमिति जिज्ञासायामाह नास्ति नित्यो न नो कर्ता, न भोक्ताऽऽत्मा न निवृतिः। तदुपायश्च नेत्याहुर्मिथ्यात्वस्थानकानि षट् // 123 // नयामृत-नास्तीत्यादि / नास्त्यात्मा इति चार्वाकमते, न नित्य इति क्षणिकवादिमते, न कर्ता न भोक्तेति साक्ष्यमते, यद्वा न कर्तेति साश्यमते, न भोक्त्युपचरितभोक्तृत्वस्याप्यनभ्युपगमाद् वेदान्तिमते, नास्ति निवृत्तिः सर्वदुःखविमोक्षत्वलक्षणेति नास्तिकप्रायाणां सर्वज्ञानभ्युपगन्तॄणां यज्वनां मते, अस्ति मुक्तिः परं तदुपायो नास्ति सर्वभावानां नियतत्वेनाकस्मादेव भावादिति नियतिवादिमते, इत्येतानि षट् मिथ्यात्वस्थानकान्याहुः पूर्वसूरयः // 123 // षडेतद्विपरीतानि, सम्यक्त्वस्थानकान्यपि / मार्गत्याग-प्रवेशाभ्यां, फलतस्तत्त्वमिष्यते // 124 // नयामृत-पडेतदिति / एतेभ्यः- प्रागुक्तेभ्यः, विपरीतानि षद् सम्यक्स्थानान्यपि भवन्ति,अस्त्यात्मा, नित्यः, कर्ता, साक्षाद्भोक्ता, अस्ति मुक्तिः, अस्ति च तत्कारणं रत्नत्रयसामराज्यमिति, तदिदमुक्तम् " अस्थि जिओ तह णिच्चो, कत्ता भुत्ता स पुनपावाणं / अस्थि धुवं णिवाणं, तस्सोवाओ अ च्छ ठाणा // " [ ] इति / तमोऽपगमचिजनु:क्षणभिदा निदानोद्भवाः, श्रुता बहुतराः श्रुते नयविवादपक्षा यथा / तथा क इव विस्मयो भवतु सूरिपक्षत्रये, प्रधानपदवी धियां व नु दवीयसी दृश्यते // 4 // प्रसह्य सदसत्वयोर्नहि विरोधनिर्णायकं, विशेषण-विशेष्ययोरपि नियामकं यत्र न / गुणागुणविभेदतो मतिरपेक्षया स्यात्पदा, किमत्र भजनोर्जिते स्वसमये न सङ्गच्छते // 5 // प्रमाण-नयसङ्गता स्वसमयेऽप्यनेकान्तधीर्नयस्मयतटस्थतोल्लसदुपाधिकिर्मीरिता / कदाचन न बाधते स्वगुरुसम्प्रदायक्रम, समजसपदं वदन्त्युरुधियो हि सद्दर्शनम् // 6 // " इति / दर्शनप्रयोजनायां" इत्यस्य स्थाने " दर्शननययोजनायां" इति पाठो युक्तः / समयनिष्णातः जैनरादान्ता. भिज्ञाननिपुणैः // 122 // . त्रयोविंशत्युत्तरशततमपद्यमवतारयति- अथेति / विवृणोति- नास्तीत्यादीति / साथमते कर्तृत्वाभावेऽपि भोक्तृत्वमात्मनोऽस्तीति कल्पान्तरमाह-यद्वेति / "निवत्तिः" इत्यस्य स्थाने “निर्वतिः" इति पाठो झेयः / नितिः किंस्वरूपेत्यपेक्षायामाह- सर्वदुःखेति / यज्वनां मीमांसकानाम् / तदुपायश्च नेति कस्य मते इत्यपेक्षयामाह-अस्ति मुक्तिरिति / तदुपायो मुक्त्युपायः, कारणाभावे कथं मुक्तिरूपं कार्यमित्यत आह-सर्वभावानामिति / वद्विरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः / केनेदं रचितं तस्मात् स्वभावात् तद्वयवस्थितिः // [ . ] इत्यादि वचनं सर्वभावानां नियतत्वावगमाय प्रगल्भते / के आहुरित्यपेक्षानिवृत्त्यर्थ पूर्वसुरय इति // 123 // चतुर्विशत्युत्तरशततमपद्यं विवृणोति-षडेतदितीति। एतेभ्यः इत्यस्य विवरणं-प्रागुक्तेभ्य इति / “सम्यकस्थानान्यपि" इत्यस्य स्थाने "सम्यक्त्वस्थानान्यपि " इति भाव्यम् / भवन्तीति क्रियापदमाहृतम् / षट् सम्यक्त्वस्थानानि विशिष्योल्लिखति- अस्त्यात्मेति / नित्य इत्यादावप्यात्मेत्यनुषज्यते / “सामराज्य" इत्यस्य स्थाने "सामाज्य" इति पाठः। षट् सम्यक्त्वस्थानानीत्यत्र सिदान्तवचनसंवादं दर्शयति-तदिदमुक्तमिति / अत्थीति