________________ 362 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः / पर्यायास्तिकाभिप्रायः परसमय इत्यस्य स्याद्वादनिरपेक्षत्वात् , नयवाक्यमेवैतदिति चेत् 1 तर्हि प्रवचनक्रियाव्युत्पादन(ने) क इवास्योपयोगः स्थूल-सूक्ष्मनयार्थानां क्रमव्युत्पादनस्यैव शास्त्रार्थत्वादिति मुग्धबन्धनमात्रमेतत् / यदपि प्रावचनिकानां जिनभद्र सिद्धसेनप्रभृतीनां स्वस्वतात्पर्यविरुद्धविषये सूत्रे परतीर्थिकवस्तुवक्तव्यताप्रतिबन्धप्रतिपादनम् , तदप्यभिनिवेशनं चेत् ? तदा प्रावचनिकत्वक्षतिरिति, तत्र परतीर्थिकपदं भिन्नपरम्परायाततात्पर्यानुसारिपदम्, अत एव नयाभिप्रायेण प्रवृत्तत्वादिति हेत्वभिधानोपपत्तिः, अत एव च नयाभिप्रायेणोभयसमाधानमस्माभि नबिन्दौ विहितम् , इत्येवमन्यत्रापि दर्शनप्रयोजनायामुपयोगो विधेयः समयनिष्णातैः // 122 // सम्यक् समीचीनतया / स्वसमयानिष्णाततां जैनराधान्तानिपुणताम् / अभिव्यञ्जयति प्रकटयति / अत्र हेतुमाहद्रव्यास्तिकाभिप्राय इति- उक्तवचनेनेदमेव ज्ञायते, यदुत-द्रव्यास्तिकाभिप्रायः स्वसमयः पर्यायास्तिकाभिप्रायः पर समय इति, परमस्य स्याद्वादनिरपेक्षत्वादित्यर्थः / शङ्कते- नयवाक्यमिति। एतत् जे पजवेस्वित्यादि दिगम्बरवचनम् , तथा च तत्प्रतिपाद्ये स्याद्वादनिरपेक्षत्वं न वक्तृगतस्वसमयाज्ञानविजम्भितमिति भावः / समाधत्ते तहीति- यदि नयवाक्यमेवैतत् तदा स्थूल-सूक्ष्मनयार्यक्रमव्युत्पादनमेवात्रोचितं न तु प्रवचने प्रक्रियाव्युत्पादनमतो मुग्धानां- मूढानामेतद् वचनं बन्धनमात्रमिति मुकुलितोऽर्थः / यदपीति प्रतिपादनमित्यनेनान्वयि / प्रावनिकानां सैद्धान्तिकानाम् / स्वस्वेति- यत्र सूत्रे स्वस्वाभिप्रायविषयभिन्नविषयकत्वमामुखेऽवभासते तत्र सूत्रे परतीथिकानामभिमतं यद् वस्तु तस्य या वक्तव्यता तस्याः प्रतिबन्धस्य - सम्बन्धस्य, प्रतिपादनम्- इदं सूत्रं परतीर्थिकवस्तुवक्तव्यतामाश्रित्य प्रवृत्तमित्येवं जिनभद्र-सिद्धसेनप्रभृतीनां प्रावचनिकानां यदपि प्रतिपादनं तत् प्रतिपादनमपि चेद् यदि अभिनिवेशनं- स्वस्वमताग्रहविजृम्भितं तदा जिनभद्र-सिद्धसेनप्रभृतीनां प्रावच निकत्वस्य क्षतिः- हानिः स्यादिति हेतोः, तत्र परतीर्थिकवस्तुवक्तव्यतेत्यादि वाक्ये, घटकत्वं सप्तम्यर्थ इति तादृशवाक्यघटकं परतीर्थिकपदं भिन्नपरम्परा-जिनभद्र-सिद्धसेनप्रभृतीनां यः स्वस्व गुरुस्तदुरुपरम्परा तद्भिन्नजैनपरम्परा, तत आयातस्य- सूत्रतात्पर्यस्य, अनुसारी- अनुसरणशीलो यः पुरुषस्तत्परं तत्तात्पर्यकम् , परतीर्थिकपदेन जैनेतरस्य न प्रहणं किन्तूक्तदिशा स्वपरम्पराभिन्नपरम्पराऽऽयाततात्पर्यानुसारिणां जैनानामेव प्रहणमित्यर्थः / “सारिपदं" इत्यस्य स्थाने " सारिपरं” इति पाठो युक्तः / इत्थं तदुक्तिव्याख्याने तेषां न प्रावचनिकत्वक्षतिरिति बोध्यम् / अत एव यत एव तत्र परतीर्थिकपदं भिन्नपरम्पराऽऽयाततात्पर्यानुसारिपरं तत एवेत्यर्थः / कथमस्मिन् सूत्रे परतीर्थिकवस्तुवक्तव्यताप्रतिबन्ध इत्याकाङ्क्षानिवृत्तये तेषामेव 'नयाभिप्रायेण प्रवृत्तत्वाद' इत्येवं यदभिधानं तस्योपपत्तिरित्यर्थः / अत एव स्वस्वतात्पर्यविरुद्धविषयसूत्रस्य नयाभिप्रायेण प्रवृत्तत्वादेव, अस्य विहितमित्यनेनान्वयः। उभयसमाधानं परस्परविरुद्ध जिनभद्र-सिद्धसेनप्रभृतिमतद्वयस्य समाधानं- सिद्धान्ताविरुद्धतयाऽनुगमनम् / अस्माभिः यशोविजयोपाध्यायैः / ज्ञानबिन्दी ज्ञानबिन्दुसंज्ञके प्रन्थे / विहितं कृतम् / ज्ञानबिन्दावन्ते प्रन्थकृत्प्रशस्तावेतानि पद्यानि केवलज्ञान-केवलदर्शनयोगपद्यायोगपद्यैक्यमननपरायणानां मल्लवादि-क्षमाश्रमणजिनभद्रगणि-सिद्धसेनदिवाकराणां त्रयाणां परस्परमतविरोधभत्रकनयभेदसमाश्रयणप्रतिपादकानि पद्यान्यत्रानुसन्धेयानि " प्राचां वाचां विमुखविषयोन्मेषसूक्ष्मेक्षिकायां, येऽरण्यानीभयमधिगता नव्यमार्गानभिज्ञाः / तेषामेषा समयवणिजां सम्मतिप्रन्थगाथा, विश्वासाय स्वनयविपणिप्राज्यवाणिज्यवीथी // 1 // भेदग्राहिव्यवहृतिनयं संश्रितो मल्लवादी, पूज्याः प्रायः करण-फलयोः सीनि शुद्धर्जुसूत्रम् / / भेदोच्छेदोन्मुखमधिगतः सङ्ग्रहं सिद्धसेनस्तस्मादेते न खलु विषमाः सूरिपक्षास्त्रयोऽपि // 2 // चित्सामान्यं पुरुषपदभाक् केवलाख्ये विशेषे, तद्रूपेण स्फुटमभिहितं साद्यनन्तं यदेव / . सूक्ष्मरंशः क्रमवदिदमप्युच्यमानं न दुष्ट, तत्सूरीणामियमभिमता मुख्य-गौणव्यवस्था // 3 //