________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समजतो नयोपदेशः। 261. शासनस्य स्वसमयान्तर्भावेन दृढप्रामाण्यमाविश्चक्रुः, सङ्केपमभिप्रेत्याह-उको विस्तरः कियान वाच्यः, यतो वाचस्तुल्यसङ्खथा नया अभिहिताः / / 121 // स्याद्वादनिरपेक्षैश्च, तैस्तावन्तः परागमाः / ज्ञेयोपयुज्य तदियं, दर्शने नययोजना // 122 // नयामृत-स्याद्वादेति / तै:-नयैः, स्याद्वादनिरपेक्षैः- स्याद्वादैकवाक्यतारहितः, तावन्तःवस्तुल्यसमा एव, परागमाः- परसिद्धान्ता भवन्ति, अभिनिवेशान्वितनयत्वस्यैव परसमयलक्षणत्वात् , तदिदमुकं सम्मतौ " जावइया वयणपहा, तावइया चेव हुन्ति नयवाया। जावइया नयवाया, तावइया चेव परसमया // " [ 10 कां० गा० 4 ] एतावत्सु नयेष्विच्छाकल्पितसंयोगजभेदोऽपि समवायान्तरापेक्षकः सुलभ एव, इयं दर्शने नय. योजनोपयुज्य ज्ञेया, न त्वापपात एव, आपातज्ञानस्य स्वसमय-परसमयविपर्यासफलत्वात् , अत एव वस्तुस्थितिविचारे " जे पज्जवेसु णिहिट्ठा, जीवा परसमयगतिविणिहिट्ठा / आयसहामि ठिया, ते सगसमया मुणेयवा // " [ ] इति दैगम्बरं वचनं [ चक्रुः ] सम्यक् स्वसमयानिष्णाततामभिव्यञ्जयति, द्रव्यास्तिकाभिप्रायः स्वसमयः आविश्वका प्रकटीचक्रुः / उत्तरार्द्धमवतार्य विवृणोति-संक्षेपमभिप्रेत्याहेति / कियान् वाच्य इत्यनेन विशेषतो नयविस्तरो वक्तुमशक्य इति सूचितम् / कथं विशेषतो नयविस्तरो वक्तुमशक्य इत्यपेक्षायामाह- यत इति // 121 // दर्शनगतनययोजनोपसंहारपरं द्वाविंशत्युत्तरशततमपद्यं विवृणोति- स्याद्वादेतीति / तैरित्यस्य विवरण- नयैरिति / स्याद्वादनिरपेक्षरित्यस्य विवरणं- स्यादादैकवाक्यतारहितैरिति / तावन्तः इत्यस्य विवरणं-वचस्तुल्यस . एवेति / परागमा इत्यस्य विवरण-परसिद्धान्ता इति / भवन्तीति क्रियापदमध्याहृतम् / वचस्तुल्यसलयाकानां नयानां परसमयत्वे हेतुमाह- अभिनिवेशेति- स्वमतकदाग्रहेत्यर्थः / यावन्तो वचनमार्गास्तावन्तो नयाः परसमया इत्यत्र सम्मतिवचनसंवादमाह- तदिदमुक्त सम्मताविति / जावइया० इति- “यावन्तो वचनमार्गास्तावन्तश्चैव भवन्ति - नयवादाः। यावन्तो नयवादास्तावन्तश्चैव परसमयाः // " इति संस्कृतम् , एतावत्सु वचस्तुल्यसंख्यकेषु / इच्छा कल्पितेति- एतन्नयस्यानेन नयेन संयोगो भवत्वित्यादीच्छाकल्पितेत्यर्थः / इच्छाकल्पितसंयोगजभेदोऽपीयस्थ सुलभ एवेत्यनेनान्वयः / “समवायान्तरापेक्षकः" इत्यस्य स्थाने " समयान्तराक्षेपकः" इति पाठो युक्तः / निगमनार्थकं तदिति मूलं तस्मादित्यर्थकं स्पष्टत्वान्न व्याख्यानाय परिगृहीतमिति बोध्यम् / उत्तरार्द्ध पदानामन्वयत एवार्थः स्फुटमाभातीत्यन्वयमात्रमावेदयति- इयमिति / उपयुज्य अपेक्षाभेदं सन्निवेश्य / उपयुज्येत्यस्य व्यवच्छेद्यमाह-न त्वापातत एवेति / कथं नापाततो ज्ञेयेत्यपेक्षायामाह- आपातक्षानस्येति- आपातज्ञानतः स्वसमये परसमयत्वबुद्धिः परसमयेऽपि स्वसमयत्वबुद्धिः स्यादित्येवमापातज्ञानस्य स्वसमय-परसमयविपर्यासफलत्वादित्यर्थः। अत एवेत्यस्य 'अभिव्यजयति' इत्यनेनान्वयः / वस्तुस्थितिविचारेव स्तुस्थितिविचाराख्ये प्रन्थे / जे पज्जवेसु० इति- “ये पर्यवेषु निर्दिष्टा जीवा परसमयगतिविनिर्दिष्टाः / आत्मस्वभावे स्थिताः ते स्वसमया ज्ञातव्याः॥" इति संस्कृतम् / देगम्बरं दिगम्बरस्येदं दैगम्बरमिति दिगम्बरोक्तत्वाद् दिगम्बरसम्बन्धि / वचनमित्यस्य 'अभिव्यञ्जयति' इत्यनेनान्वयः। “[चक्रः] सम्यक" इत्यस्य " वक्तुः सम्यक्" इति पाठः समीचीनः / वक्तः स्ववक्तुर्दिगम्बरस्य /