________________ 352 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नवोपदेशः / पयन्ति न पारमार्थिकान्, इति नायमपि प्रकार उभयोः शुद्ध्य( द्धि )विशेषाय // 112 // प्रत्युतात्मनि कर्तृत्वं, साळयानां प्रातिभासिकम् / वेदान्तिनां च निर्वाच्यं, मतं तद् व्यवहारिकम् // 113 // _नयामृत-प्रत्युत इति / प्रत्युतेति वैपरीत्ये, साझ्यानां मते कर्तृत्वम् , उपलक्षणाद् भोक्तृत्वादि च, प्रातिभासिक- अन्यस्थमेवान्यत्रारोपितम्, वेदान्तिनां तु मते नान्तःकरणधर्माणां कर्तृत्वादीनां कर्तव्यम् , तञ्च परमार्थतोऽसदपि व्यवहारतः सदिति स्थूलव्यवहारानुरोधाद् वेदान्तदर्शन एवाशुद्धत्वं स्यात्, अविद्ययाऽपि अन्यधर्ममात्मन्यस्पर्श[ यदु]पचारेण च व्यवहारबलं कुण्ठमतिनिश्चलबलं चोत्ते. जयतीति साझ्यदर्शने एव शुद्धत्वं स्यादिति भावः // 113 / / किञ्च, सत्कार्यवादित्वादपि साङ्क्षयस्य न व्यवहारानुरोधित्वम् , व्यवहारनयो हि कारणव्यापारानन्तरमेव कार्योत्पत्ति पश्यन्नसत्कार्यपक्षमेवाश्रयते, न च क्षणिकासत्कार्यानभ्युपगममात्रेणास्य अस्य 'अभ्युपयन्ति' इत्यनेनान्वयः। अयम् अभोक्तृत्वस्येत्याशङ्काग्रन्थोपदर्शितोऽपि / उभयोः वेदान्त-सालयदर्शनयोः। “शुद्धया(द्धि)विशेषाय' इत्यस्य स्थाने " शुद्धयशुद्धिविशेषाय" इति पाठो भवितुमर्हति // 112 // . शुद्धद्रव्यार्थिकप्रकृति कत्वाच्छुद्धत्वं वेदान्तदर्शने, अशुद्धद्रव्यार्थिकप्रकृतिकत्वादशुद्धत्वं साङ्खयदर्शने इति यद् भवतोऽनुमतं तन समीचीनं यत आत्मनि प्रातिभासिक कर्तृत्वं न तु व्यावहारिकमित्यभ्युपगन्तृसाङ्खयदर्शनस्यैव शुद्धत्वम्, ध्यावहारिकं कर्तृत्वमात्मन इत्यभ्युपगन्तृवेदान्तदर्शनस्यैवाशुद्धत्वमित्यावेदकं त्रयोदशोत्तरशततमपद्यं विवृणोति- प्रत्युतेतीति / प्रत्युतशब्दोऽत्र वैपरीत्ये वर्तत इत्याह-प्रत्युतेति / वैपरीत्योपदर्शकमात्मनीत्यादिकं विवृणोति- सात्यानामिति / मते इति पूरणम् / मूलस्थं कर्तृत्वं भोत्कृत्वादिकमुपलक्षयतीत्याह- उपलक्षणाद् भोक्तृत्वादि चेति / प्रातिभासिकमित्यस्य विवरणम् - अन्यस्थमेवान्यत्रारोपितमिति- प्रकृते अन्यत्र बुद्धौ स्थितं कर्तृत्वमोत्कृत्वादिकमन्यत्रात्मन्यारोपितमिति प्रातिमासिकं तदित्यर्थः / मूले “वेदान्तिनां च निर्वाच्यं मतं तद् व्यवहारिकम्" इत्यस्य स्थाने " वेदान्तिनां त्वनिर्वाच्यं मतं तद् व्यावहारिकम् " इति पाठः सम्यग् / तद्विवरणं-- वेदान्तिनां त्विति / मते इति पूरितम् / "कर्तव्यम्, तश्च" इत्यस्य स्थाने "आत्मन्यारोपः, किन्त्वनिर्वाच्यमात्मनि कर्तृत्वादिकम् , तच " इति पाठः सम्यक्, तच्च अनिर्वाच्यं कर्तृत्वादिकं च / “अविद्ययाऽपि" इत्यस्य स्थाने " अविद्यापि" इति पाठः सम्यग्, अस्य अस्पर्शयन्तीत्यनेन कुण्ठयतीत्यनेन उत्तेजयतीत्यनेन चान्वयः, " अन्यधर्ममात्मन्यस्पर्श(यदु)पचारेण" इति स्थाने “अन्यधर्ममात्मन्यस्पर्शयन्ती, उपचारेण" इति. पाठः सम्यक्, अन्यधर्म बुद्धिधर्म कर्तृत्वादिकम् , आत्मन्यस्पर्शयन्ती आत्मनि सम्बद्धमकुर्वती सती, "कुण्ठमतिनिश्चय” इत्यस्य स्थाने “कुण्ठयति निश्चय" इति पाठः सम्यक् , आत्मनि कर्तृत्वादिकमौपचारिकमेवेति कृत्वोपचारत एवात्मनि कर्तृत्वादिव्यवहार इति व्यवहारबलं कुण्ठयति-वस्तुसाधनासमर्थं करोति, यो यत्र कर्मण्यसमर्थः स तत्र कुण्ठ इत्युच्यते, निश्चयतश्च नात्मनि कर्तृत्वादिकमिति निश्चयबलमुत्तेजयति- पुष्णाति / इति एतस्मात् कारणाद् व्यवहारानुरोधिवेदान्तदर्शनतो निश्चयानुरोधिनि साङ्ख्यदर्शन एवोपचारानाश्रयणाच्छुद्धत्वं स्यादित्युक्तपद्यभावार्थ इत्यर्थः // 113 // चतुर्दशोत्तरशततमपद्यमवतारयति-किञ्चेति- साङ्ख्यस्य सत्कार्यवादित्वं च- " असदकरणादुपादानग्रहणात् सर्वसम्भवात् / शकस्य शक्यकरणात् कारणाभावाच्च सत् कार्यम् // " [ साङ्ख्यकारिका ] इतीश्वरकृष्णकारिकया व्यवस्था. पितम्। साङ्ख्यस्य सत्कार्यवादित्वेऽपि कथं न व्यवहानुरोधित्वमित्यपेक्षायामाह-व्यवहारनय इति- अस्य पश्यन्नित्यनेन आश्रयते इत्यनेन चान्वयः / ननु व्यवहारोऽपि क्षणिकासत्कार्यवादमृजुसूत्रनयाभिप्रेतं नाभ्युपगच्छति साख्योऽपि च तं नाभ्युपेतीत्येतावता साख्यस्य व्यवहारानुरोधित्वमित्याशङ्कय प्रतिक्षिपति-न चेति / अस्य साख्यस्य / निषेध. हेतुमुपदर्शयति-तदनभ्युपगमेति-साख्यस्य क्षणिकासत्कार्यानभ्युपगमेऽपीत्यर्थः / उत्पश्यनभ्युपगमेन स्वाधिकरण..