________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समतो गयोपरयः। 35 व्यवहारपक्षपाति( त्वम् ), तदनभ्युपगमेऽप्युत्पत्त्यनभ्युपगमेन व्यवहारबहिर्भावादित्यभिप्रायं स्पष्टीकरणपूर्वक निगमयन्नाह अनुत्पन्नत्वपक्षश्च, नियुक्तौ नैगमे श्रुतः। नेति वेदान्ति-सायोक्त्योः , सङ्ग्रह-व्यवहारता // 114 // नयामृत-अनुत्पन्नेत्यादि / अनुत्पन्नत्वपक्षश्च नियुक्तो-नमस्कारनियुक्ती, नैगमे- नैगमनये श्रुतः, " उप्पनाणुपन्नो इत्थ णयाऽऽइनिगमस्साणुप्पन्नो / सेसाणं उप्पन्नो" [ ] इति वचनात् / तथा चानुत्पत्तिवादी साझ्यो नैगमनयमेवोपजीवेत् , व्यवहारिकोत्पत्तिवादी वेदान्ती च व्यवहारनयमिति भावः, इति-हेतोर्वेदान्तिसाङ्ख्योत्स्योः- तद्दर्शनयोः, सङ्ग्रह-व्यवहारता-- सङ्ग्रह-व्यवहाराख्य. शुद्धा-ऽशुद्धद्रव्यार्थिकप्रकृतिकता न भवति, तथा च सम्मातै तथोक्तेः का गतिरिति भावः // 114 // ___ समाधत्ते तथापीति द्वयेन / तथाप्युपनिषद् दृष्टिसृष्टिवादात्मिका परा। तस्यां स्वप्नोपमे विश्वे, व्यवहारलवोऽपि न // 115 // सामयशास्त्रे च नानात्मव्यवस्था व्यवहारकृत् / इत्येतावत् पुरस्कृत्य विवेकः सम्मतावयम् // 116 // नयामृत-तथापीति / तथापि उपनिषद्- वेदान्तदर्शनप्रवृत्तिः, दृष्टिसृष्टिवादात्मिका पराउत्कृष्टा, मूलाभियुक्ताभ्युपगतत्वात् , तस्यां चाज्ञातसत्त्वाभावेन स्वप्नोपमे विश्वे- जगति सति व्यवहार. क्षणध्वंसानधिकरणलक्षणसम्बन्धात्मकप्रथमक्षणसम्बन्धरूपाया उत्पत्तेरनभ्युपगमेन / व्यवहारबहिर्भावात् प्रथमक्षणसम्बन्धरूपोत्पत्त्यभ्युपगन्तृव्यवहारनयाद् बहिर्भूतत्वात् / इत्यभिप्रायम् इत्याकारकाशयम् / स्पष्टीकरणपूर्वकं स्पष्टावेदनपुरस्सरम् / विवृणोति - अनुत्पन्नेत्यादीति / निर्युक्तावित्यस्य स्पष्टीकरण- नमस्कारनिर्युक्ताविति- वेन नियुक्तिप्रन्थबहुप्रकरणकत्वेन तत्र कुत्रोक्तमिति जिज्ञासाया नोन्मेषः / नैगमेऽनुत्पन्नत्वपक्ष' इत्यस्य प्रतिपादकं नमस्कारनियुक्तिवचनमुकयति-उत्पन्न० इति-" उत्पन्नानुत्पन्नोऽत्र नय आदिनिगमस्यानुत्पन्नः / शेषाणामुत्पन्नः" इति संस्कृतम् / तथा च मैगमनयस्यानुत्पनत्वपक्ष इति व्यवस्थितौ च / व्यवहारनयमित्यनन्तरमुपजीवेदित्यस्यानुवृत्तिः / मूले इतिशब्दो हेतुपर इत्याशयेनाह-इति तोरिति- एतस्मात् कारणादित्यर्थः। वेदान्ति-साड्ययोरित्यस्य विवरणम्-तहर्शनयोरिति-वेदान्त-साजयदर्शनयोरित्यर्थः / सङ्ग्रह-व्यहारतेत्यस्य विवरणम्- सग्रह-व्यवहाराख्यशुद्धाशुद्धद्रव्यार्थिकप्रकृतिकतेति / नेति मूलं भवतीति क्रिया 'यत्रान्यत् क्रियावाचि पदं न श्रूयते' इत्यादिवचनप्रामाण्यादुपात्ता / तथा च वेदान्त-साङ्ख्यदर्शनयोः शुद्धाशुद्धद्रव्यार्थिकप्रकृतिकत्वाभावव्यवस्थितौ च / “सम्मात" इति मुद्रणदोषात्, अत्र “सम्मतौ" इति पाठः समुचितः, तस्य सम्मतिग्रन्थे इत्यर्थः / तथोक्तः वेदान्ति-साजयदर्शनयोः शुद्धाशुद्धद्रव्यार्थिकप्रकृतिकत्वकथनस्य, तथा च सम्मतिप्रन्थस्य तत्प्रतिपादकवचनमसङ्गतमिति / इति भावः प्रश्नयितुरेवमाशयः // 11 // पद्यद्वयं युगपदेवावतारयति-समाधत्ते तथापीति द्वयेनेति-तथापीत्यादिपद्यद्वयेनोक्तां शङ्कां समाधत्ते- निराकरोतीत्यर्थः / विवृणोति- तथापीतीति- एवं सत्यपीत्यर्थः / उपनिषदित्यस्य विवरणं-वेदान्तदर्शनप्रवृत्तिरिति / परेत्यस्य विवरणम्- उत्कृष्टेति / दृष्टसृष्टिवादात्मिकैब वेदान्तदर्शनप्रवृत्तिरुत्कृष्टेत्यत्र हेतुमाह-मूलाभियुक्तेति- वेदाम्त