________________ 351 नयामृततरहिणी-तरङ्गिणीतरणिभ्यां समलतो क्योपदेशः / इत्यादिकमपि स्यात्, न स्याद् अनुकूलतर्काभावादिति चेत् ? तुल्यमुभयत्र / किश्च, यदि बुद्धिनित्या तदा बुद्धिकृतभोगावच्छेदस्य सर्वदाऽऽत्मनः सत्त्वादनिमोक्षापत्तिः, यद्यनित्या तर्हि जन्येतरस्यानित्यत्वायोग्यत्वात् जन्या वाच्या, तथा च तदुत्पत्तेः प्राक् तदाश्रितस्य धर्मादेरप्यभावे बुद्धितत्त्वस्यानुत्पत्तौ नियतशरीरेन्द्रियादेरप्यभावेऽसंसारः स्यादिति न किश्चिदेतद्' इत्याहुः // 111 // अत्र वेदान्त-सास्पदर्शनयोः शुद्धा-ऽशुद्धद्रव्यार्थिकप्रकृतिकत्वं यदुक्तं तत्राविशेषदृष्ट्या भेदबीजाभावमाशहते यद्यप्येतन्मतेऽप्यात्मा, निर्लेपो निर्गुणो विभुः / अध्यासाद व्यवहारश्च, ब्रह्मवादेऽपि सम्मतः // 112 // नयामृत यद्यपीत्यादि / यद्यपि एतन्मतेऽपि- साझमतेऽपि, आत्मा निलेप:- कर्तृत्वादि. लेपरहितः, निर्गुणः- गुणस्पर्शशून्यः, विभुः- व्यापकश्चेति शुद्धात्माभ्युपगमेन उभयत्र शुद्धितौल्यम् , न च भोक्तृत्वस्योपचरितस्यात्मन्यभ्युपगमेन साङ्ख्यदर्शने वेदान्तदर्शनापेक्षया अशुद्धत्वम् , यतोऽध्यासाद् व्यवहारो ब्रह्मवादेऽपि सम्मतः- ब्रह्मवादिनोऽपि हि बुद्धिगुणान् ज्ञानादीन् आत्मनि कल्पितानेवाभ्युस्वादिति समाधत्ते-तुल्यमुभयत्रेति / विकल्पजर्जरिता च साङ्ख्याभिमता बुद्धिरित्याह- किश्चेति / बुद्धर्मित्यत्वे पुरुषस्यानिर्मोक्षापत्तिमुपदर्य तस्या अनित्यत्वं दूषयति- यद्यनित्यति बुद्धिरित्यनुवर्तते / जन्या वाच्येति-बुद्धिर्जन्या भावत्वे सत्यनित्यत्वाद् घंटवदित्यनुमानमत्र बोध्यम् / भवतु जन्यत्वं बुद्धेः का नो हानिरित्यत आह-तथा चेति-बुद्धर्जन्यत्वे चेत्यर्थः / तदुत्पत्तेः प्राक् बुद्धयुत्पत्तेः प्राक्काले / तदाश्रितस्य बुद्धयाश्रितस्य / धर्मादेरभाव इति- नहि धर्मा धर्मिणमन्तरेणावतिष्ठन्ते इति बुद्धिरूपधर्म्यभावकाले बुद्धयाश्रितानां धर्माधर्मादिधर्माणामभावो न्यायप्राप्त एवेति / बुद्धितत्त्वस्यानुत्पत्ताविति- धर्माधर्मादीनां बुद्धयुत्पत्तिं प्रति कारणत्वमवश्यमुपेयम् , अन्यथा मुक्तात्मानमधिकृत्यापि बुद्धयुत्पत्तिः स्यात्, तथा च मुक्तस्यापि पुनः संसारः स्यात्, एवं च बुद्धयुत्पत्तितः प्राक् तत्कारणस्य धर्मादेरभावे बुद्धितत्त्वस्यानुत्पत्तावित्यर्थः / नियतशरीरेन्द्रियादेरप्यभाव इति "ऊर्ध्व गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः। जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः // 1 // "[ ] ___ इति सात्त्विकबुद्धिसम्बन्धादूर्ध्वलोके देवादिशरीरागुत्पत्तिः, राजसबुद्धिसम्बन्धान्मध्यलोके मनुष्यादिशरीरानुत्पत्तिः, तामसबुद्धिसम्बन्धादधोलोके नारकीयशरीराद्युत्पत्तिरित्येवं योनिनियतशरीरेन्द्रियादिकस्यापि बुद्धितत्त्वानुत्पत्तौ बुद्धिरूप. कारणामावादभाव इत्यर्थः / असंसारः स्यात् बुद्धितत्त्वसम्बन्धप्रयुक्तनियतशरीरेन्द्रियादिजन्येष्टानिष्टभोक्तृत्वलक्षणबन्ध एवं संसारः, स कारणाभावाम स्यात् / साङ्ख्यमतखण्डनमुपसंहरति-इतीति / न किश्चित् किश्चित् तत्त्वनिरूपणसमर्थ न / एतत् साङ्खयमतम् // 111 / / द्वादशोत्तरशततमपद्यमवतारयति- अत्रेति / वेदान्तेति-शुद्धद्रव्यार्थिकसङ्कहनयप्रकृतिकत्वं वेदान्तदर्शनस्य अशुद्धद्रव्यार्थिकव्यवहारनयप्रकृतिकत्वं साङ्ख्यदर्शनस्यास्मिन् ग्रन्थे यत् प्रागुपदर्शितं तत्र वेदान्त-साङ्ख्यदर्शनयोरविशेषदृष्टया विशेषो नास्तीति बुद्धया भेदबीजाभावं वेदान्तदर्शनं शुद्धद्रव्यार्थिकप्रकृतिकं साजयदर्शममशुद्धद्रव्यार्थिकमित्येवं भेदस्य कारभावमाशङ्कते इत्यर्थः, विवृणोति- यद्यपीत्यादीति- तथाप्युपनिषदृष्टीत्यादिपञ्चदशोत्तरशततमपद्यस्य तथापीत्यपेक्षो यद्यपीति / एतन्मतेऽपीत्यस्य विवरण-साडयमतेऽपीति / निर्लेप इत्यस्य- कर्तृत्वादिलेपरहित इति विवरणम् , एवमप्रेऽपि। इति शुद्धात्माभ्युपगमेन एवं प्रकारेण शुद्धात्मनः साङ्ख्यमतेऽप्यभ्युपगमेन / उभयत्र वेदान्त-सामयदर्शनयोः शुद्धितौल्यं समानैव शुद्धिः / साङ्ख्यदर्शनेऽशुद्धत्वमाशङ्कथ प्रतिक्षिपति- न चेति / निषेधहेतूपदर्शनमुक्तराईमिलाह- यत इति / ब्रह्मकादे वेदान्तदर्शनेऽध्यासाद् व्यवहारमेवोपपादयति- ब्रह्मवादिनोऽपीति