________________ नयाततरङ्गिणी तरङ्गिणीतरणिभ्यां समतो मयोपदेशः। मनःसम्बन्धश्चेति तद्भिन्नोऽहकारो नियतविषवाभिमानव्यापारः स्वीकार्यः / सुषुप्ताविन्द्रियस्य व्यापारविरतावपि यद्व्यापारादुच्छ्वास-प्रश्वाससन्ततिर्जायते तद् बुद्धितत्त्वं प्रागुक्तभावाष्टकयोगि स्वीकार्यम् , तस्य मानरूपपरिणामेन सम्बन्धी विषयः पुरुषस्य स्वरूपतिरोधायकः / एवं चबद्धितत्वनाशादेव विषयावच्छेदाभावात् पुंसो मोक्षः, मेदामहाच 'चेतनोऽहं करोमि ' इत्यभिमाना, अत एष" प्रकृतेः क्रियमाणानि, गुणैः कर्माणि सर्वशः / अहङ्कारविमूढात्मा, कर्ताहमिति मन्यते // " .. [गीता, अ० श्लो० ] इति स्मर्यत इति / अत्र नैयायिकादयः- 'चेतनोऽहं करोमीति बुद्धरसति बाधके भ्रमत्वायोगाचैतन्यकृत्यादिधर्मवत्वेव बुद्धिः स्वीकर्तव्या, तथा च आत्मनो नामान्तरमेतत् , अथ 'बुद्धिरचेतना परिणामित्वात् तन्तुवत्' इति चेत् ? तर्हि 'बुद्धिर्न कृतिमती तत एव तद्वत् ' 'न धर्मा-ऽधर्मादिमती जन्यत्वाद् घटवद्' विषयेण यदा सम्बन्धस्तदानीं तद्विषय-पुरुषयोरवच्छेद्यावच्छेदकभाव इति कदाचिद् घटज्ञानं कदाचित् पटज्ञानमिति ध्यासन उपपद्यत इति भावः / अहङ्कारकल्पनस्यावश्यकत्वं दर्शयति-स्वप्नावस्थायामिति / तद्भिन्नः मनोमिनः, अन्यत् स्पष्टम् / बुद्धितत्त्वाभ्युपगमस्यावश्यकत्वं दर्शयति-सुषुप्ताविन्द्रियस्येति / तस्य बुद्धिसत्त्वस्य / घट: पट इत्याकारको यो ज्ञानात्मकपरिणामस्तेन सह विषयविषयिभावसंबन्धेन संबद्धो घटपटादिलक्षणो विषयः पुरुषस्यान्यासम्पृताखण्डचैतन्य. स्वरूपस्य तिरोधायक आवरको भवति, तथा च स्वविषयकबुद्धिपरिणामज्ञानातात्त्विकसंबन्धात् पुरुषसम्बद्धो घटादिः पुरुषस्वरूपतिरोधायक इत्यर्थः / बुद्धिपरिणामेन ज्ञानेन पुरुषस्य यो घटमहं जानामीत्येवस्वरूपोऽतात्त्विकसम्बन्धः स एवो. पलब्धिरुच्यते, तथा च बुद्धितत्त्वबलादेव परम्परया पुरुषे विषयसम्बन्धलक्षणो विषयावच्छेद इति बुद्धितत्त्वनाशाद् विषयावच्छेदस्याप्यभावान्मोक्षो भवतीत्याह-एवं चेति / भेदाग्रहाच्च बुद्धया सह पुरुषस्य यो भेदस्तदप्रहात् पुनः / उक्तार्थे भगवद्गीतावचनसंवादमाह- अत एवेति-बुद्धया पुरुषस्य भेदाग्रहाचेतनोऽहं कसेमीत्यभिमानस्य भावादेवेसर्थः / प्रकतेरिति-प्रकृतेर्गुणैः- सत्त्व-रज-स्तमोभिः, क्रियमाणानि सर्वसः कर्मामि कार्याणि, किन्तु अहङ्कारविमूढः- बुद्धया सह भेदेनागृहीत आत्मा- पुरुषोऽहं कर्तेत्येवं मन्यत इत्यर्थः / निरुक्तप्रकृत्यादिपञ्चविंशतितत्त्वाभ्युपगमप्रवणसांख्यमतायुक्त्वावेदनाय सन्मतखण्डनपटिष्ठयुक्तिकल्पननिष्णातान् नैयायिकादीन् प्रतिमलतयोत्थापयति- अत्रेति / नैयायिकादय इति- अस्य आहुरिस्यनेन सम्बन्धः / किमाहुरित्यपेक्षायामाह-चेतनोऽहं करोमीति बुद्धरिति-अस्य भ्रमस्वायोगादिस्यनेन सम्बन्धः, चेतनोऽहं करोमीति बुद्धिर्यदि चैतन्यांशे भ्रमात्मिका स्यात् तदा कर्तरि महत्तत्त्वे चैतन्यस्वारापोपपत्तयेऽन्यबेतनः स्वीकरणीयः स्यात्, क्वचित् प्रमितमेवान्यत्रारोप्यत्ते नाप्रमितमिति नियमात् , बाधके सति भ्रमत्वं भवति नान्यथा, न च कर्तरि चैतन्यस्य किञ्चिद् बाधकं समस्तीति य एव कर्ता स एव चेतन इति चैतन्य कृत्वादिधर्मवस्येष बुद्धिः स्वीकरणीया, एवं च परमते य एव चेतनः कर्ता च तस्यैवात्मेत्ति संज्ञेत्यास्मशब्दसंशब्दिते पुरुषे बुद्धिरिति नामान्तरं, न तु तदन्यतत्त्वान्तरं बुद्धिशब्दवाच्यमित्यर्थः / ननु बुद्धौ कर्तृतयाऽभ्युपगतायां चैतन्यस्य बाधकमस्त्येवानुमान प्रमाणमित्याशङ्क-अथेति / तन्तुबदिति- यथा तन्तुः पटरूपेण परिणमत इति परिणामित्वात् तन्तुरचेतनस्तथा बुधिरहङ्काररूपेण परिणमत इति परिणामित्वाद् बुद्धिरचेतनेत्यर्थः / परिणामित्वादचैतन्यवदकर्तृत्वमपि साधयितुं शक्यते, तत्रापि तन्तुषदिति दृष्टान्तोद्भावनस्य कर्तुं शक्यत्वादिति प्रतिबन्धा समाधत्ते- तहीति / सत एव परिणामित्यादेवे / तहत् तन्तुचत् / अन्यदप्यनिष्टमेवं साधयतः साख्यस्य प्रसज्यत इत्याह-न धर्माऽधर्मादिमतीति- बटो यथा जन्यवान धर्माऽधर्मादिमान् तथा बुद्धिरपि जन्यत्वान धर्माऽधर्मादिमतीत्यर्थः / सांख्य आह-न स्थादिति- जन्यत्वहेतुना बुद्धौ धर्माधर्माचभावसाधनं न भवेदित्यर्थः / तत्र हेतुमाह- अनुकूलेति- बुद्धौ जन्यत्वमप्यस्तु धर्माधर्मादिमत्वमप्यस्त्विति व्यभिचारशकानिवर्तकत्ताभावादित्यर्थः / यदि व्यभिचारशङ्कानिवर्तकतर्काभावात् संदिग्धव्यभिचारोऽप्रयोजको वा जन्यत्वहेतुर्न बुद्धौ धर्माधर्मादिमत्त्वाभाषसाधनाय प्रगल्भते तर्हि परिणामित्वमपि हेतुरनुकूलतर्काभावात् संदिग्धव्यभि. पारोऽप्रयोजको वान चैतन्याभावसाधने समर्थः / तत्रापि परिणामित्वमस्तु चेतनत्वमप्यस्त्वित्येवं व्यभिचारस्य सहितुं शक्य