________________ नयामृततरविणी-तरहिणीतरणिभ्यां समलहतो नयोपदेशः / मूलप्रकृतिरविकृतिः, महदाद्याः प्रकृतिविकृतयः सप्त / .. षोडशकश्च विकारो, न प्रकृतिर्न विकृतिः पुरुषः // 1 // [ ] इति, पञ्च महाभूतान्येकादशेन्द्रियाणि चेति षोडशको वर्गः, तत्राचेतनाया अचेतनप्रकृतिकार्याया बुद्धेश्चैतन्याभिमानानुपपत्या स्वाभाविक-चैतन्यरूपः पुरुषः सिद्ध्यति / चैतन्यस्य तु नित्यस्य स्वाभाविकेष्टाऽनिष्टविषयावच्छिन्नत्वस्वभावे अनिर्मोक्षापत्तिः, प्रकृत्यधीनत्वेऽपि विषयावच्छिन्नत्वस्य तस्याऽति( पि) नित्यतया तथैवानिर्मोक्षत्वापत्तिः, घटादेरेवानित्यस्य चैतन्यावच्छेदस्य व्यासङ्गानुपपत्तिः, अतो मनः सिद्ध्यति, तत्सम्बद्धेन्द्रियस्य विषयचैतन्यावच्छेदनियामकत्वम् / स्वप्नावस्थायां 'व्याघ्रोऽहम् ' ' वराहो. ऽहम् ' इत्यभिमानो दृश्यते, न तु * नरोऽहम् ' इत्यभिमानः, अस्ति च तत्र नरत्वं सन्निहितमिन्द्रियव्यवहितपूर्वसमयेऽसतः कथं स्मृत्युत्पत्तिरित्यत आह- अनुभवस्यैवेति- तथा च स्मृत्युत्पत्त्यव्यवहितपूर्वसमये सूक्ष्मरूपेणावस्थितादेवानुभवात् स्मृत्युत्पत्तिसम्भवे भावनाख्यसंस्कारकल्पनं परेषामप्रामाणिकमित्याशयः / प्रकृत्यादिपञ्चविंशतितत्त्वं साडयसम्मतमित्यावेदनाय तत्प्रतिपादिकामीश्वरकृष्णकारिकामुपनिबध्नाति-तदुक्तमिति / मूलप्रकृतिः बुद्धथाद्यशेषविकृतिप्रथमकारणं प्रकृतिः। अविकृतिः न कस्यापि कार्यमिति विकृतिरूपा न भवति / महदाद्याः सप्त महदहङ्कारपञ्चतन्मात्राणि / प्रकृतिविकृतय इति- महत्तत्त्वमहङ्कारस्य कारणमिति प्रकृतिः, मूलप्रकृतेः कार्यमिति विकृतिरिति प्रकृतिविकृतिः अहङ्कारः, पञ्चतन्मात्रादिषोडशविकारकारणमिति प्रकृतिः, महत्तत्त्वस्य कार्य इति विकृतिरित्यवं प्रकृतिविकृतिः, पञ्चतन्मात्राणि पञ्चमहाभूतकारणमिति प्रकृतिः, अहङ्कार कार्यमिति रीत्येवं प्रकृतिविकृतिरित्यर्थः / षोडशकश्च एकादशेन्द्रियाणि पञ्च भूतानीत्येवं षोडशसङ्खथको गणः / विकारः अहङ्कारस्य कार्यत्वादेकादशेन्द्रियाणि विकृतिः, पञ्चतन्मात्रकार्यत्वात् पञ्च महाभूतानि विकृतिः, न चायं षोडशको गणः कस्यापि तत्त्वान्तरस्य कारणमिति प्रकृतिर्न भवति, यद्यपि मृदाद्यात्मिका पृथिवी घटादेः कारणं भवति तथापि न तस्य तत्त्वान्तरत्वमिति बोध्यम् / पुरुषः चैतन्यस्वरूपो न कस्यापि कारणमिति न प्रकृतिः प्रकृतिने भवति, एवं न कस्यापि कार्यमिति न विकृतिः विकृतिनं भवतीत्यर्थः / षोडशको वर्ग: क इत्यपेक्षायामाहपञ्चेति / ननु प्रकृत्यादित एव जगदुत्पद्यत इति निष्प्रयोजनत्वात् पुरुषः प्रकृतिविकृत्यनात्मको नाभ्युपेय इत्यत आहतत्रेति- पञ्चविंशतितत्त्वेष्वित्यर्थः / अचेतनाया इति- यदि पुरुषधर्माः सर्वेऽपि बुद्धावेवाभ्युपगतास्तहि चैतन्यमपि पुरुषधर्मो बुद्धिधर्म एवास्त्विति कथं बुद्धिरचेतनेत्यपेक्षायामाह- अचेतनप्रकृतिकार्याया इति- कार्यकारणयोरभेदात् कारणस्याचैतन्ये कार्यस्याप्यचैतन्यमित्यचेतनप्रकृतिकार्यत्वाद् बुद्धेरचैतन्यं सिद्धयतीत्यर्थः, तथा चाचेतनाया बुद्धेश्वेतनोऽहं करोमीति चैतन्याभिमानो नातिरिक्तचेतनमन्तरेणेति बुद्धिगतचैतन्याभिमानानुपपत्त्या स्वाभाविकचैतन्यरूपः पुरुषः सिद्धयतीति / बुद्धधहङ्कारादिकल्पनस्यावश्यकत्वमुपदर्शयति-चैतन्यस्य विति-चैतन्यस्य पुरुषस्य इष्टानिष्टविषयावच्छेदस्वभावो यदि स्वाभाविकस्तदा पुरुषस्य नित्यत्वात् तत्स्वभावोऽपि नित्य एवाभ्युपेयः, अन्यथा स्वभाव-तद्वतोरमेदात् स्वभावनाशे तद्वतः पुरुषस्यापि नाशः स्यादिति कूटस्थनित्यता तस्य भज्येत, एवं च, स्वाभाविकेष्टानिष्टविषयावच्छिन्नस्वभावः पुरुषः सदैवेत्यनिमुक्त एव प्रसज्यतेत्यर्थः। ननु प्रकृतिरुपयत एव, तदधीन एव पुरुषस्यष्टानिष्टविषयावच्छेदस्वभाव इत्यौपाधिक एवेति तन्नाशान्मुक्तिर्भविष्यतीत्यत आह-प्रकृत्यधीनत्वेऽपीति- विषयावच्छिन्नत्वस्य प्रकृत्यधीनत्वेऽपीत्यन्वयः। तस्यापि प्रकृत्यधीनविषयावच्छिन्नत्वस्यापि / नित्यतयेति-उपाधिसन्निधानस्यानित्य एवौपाधिकस्यानित्यत्वम् , उपाधि सन्निधानस्य नित्यत्वे त्वौपाधिकस्यापि नित्यत्वमेव, प्रकृते चैतन्यरूपपुरुषो नित्यो विभुश्च, प्रकृतिरपि नित्या विभ्वी चेति पुरुषे प्रकृतिसन्निधानस्य सदेव भावेन तन्निबन्धनस्येष्टानिष्टविषयावच्छेदस्यापि सर्वदा मावादनिर्मोक्षापत्तिस्तदवस्थैवेत्यर्थः / ननु घटादरेवानित्यस्य चैतन्यावच्छेदस्वभाव इति घटादिनाशात् तद्गतचैतन्यावच्छेदस्वभावस्यापि नाशे पुरुषस्य मोक्षो भविष्यतीत्यत आह-घटादिरेवेति-घटादेश्चैतन्यावच्छेदस्वभावे घटादिज्ञानं भवति, तदभावे न भवतीत्यभ्युपेयं स्यात्, किन्तु घटादेश्चैतन्यावच्छेदस्य यदाऽपि भावस्तदापि कदाचिद् घटज्ञानं कदाचित् पटज्ञानमित्येवं व्यासजस्यानुपपत्तिः स्यादिस्यर्थः / अतो व्यासङ्गानुपपत्तिप्रसङ्गभयात् / मनः सिद्धयतीति-मनोऽभ्युपगमे च कथं व्यासझोपपत्तिरित्यपेक्षायामाह-तत्सम्बद्धेन्द्रियस्येति- मनःसंबद्धचक्षुरादीन्द्रियस्यत्यर्थः, तथा च मनसा संयुक्तस्य चक्षुरादेयन