________________ 348 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलड़तो नयोपदेशः / कारणं न कस्यापि कार्य नवा जन्यधर्माश्रय इति कूटस्थनित्य इत्युच्यते, बुद्धिगताश्च धर्मा अज्ञातपरमार्थस्तत्रारोप्यन्ते भटविजयपराजयौ राजीव, प्रकृतिरचेतना परिणामिनी आदिकारणं च, तस्याश्चाद्य. परिणामो बुद्धिमहत्तत्त्वापरपर्याया, तस्या धर्मा-ज्ञाना-ज्ञानेश्वर्या-नैश्वर्य-वैराग्या-ऽवैराग्य-धर्मा-ऽधर्मरूपाअष्टौ, बुद्धि-सुख-दुःखेच्छा-द्वेष प्रयत्ना अपि, भावनायास्तैरनङ्गीकारादनुभवस्यैव स्मृतिपर्यन्तं सूक्ष्मरूपतयाऽवस्थानाभ्युपगमात्, महत्तत्त्वादहकारः, अहङ्काराद् रूप-रस-गन्ध-स्पर्श-शब्दतन्मात्राणि पश्च एका. दशेन्द्रियाणि च / पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि जायन्ते, तदुक्तम् - न कार्यः पुरुषः, जन्यधर्माश्रयत्वे धर्मधर्मिणोरभेदाद् धर्मनाशे धर्मिणस्तस्यापि नाशः प्रसज्येतेत्येवमपि कूटस्थनित्यता न स्यादिति जन्यधर्मानाश्रयः पुरुषः कूटस्थनित्य इत्येवमुच्यत इत्यर्थः / नन्वेवं सुख-दुःखादिधर्माधारतया पुरुषप्रतीतिर्न स्यादित्यत आह-बुद्धिगताश्चेति- बुद्धिरन्तःकरणं महत्तत्त्वम् , तद्ताः-तवर्तिनः सुख-दुःखादयो धर्माः, तत्र पुरुषे आरोप्यन्ते / कैरारोप्यन्त इत्यपेक्षानिवृत्तये उक्तमझातपरमार्थरिति-अज्ञातः परमार्थो वास्तविकार्थो यैस्तेऽज्ञातपरमार्थाः पुरुषास्तैः कूटस्थनित्ये पुरुषे बुद्धिधर्माः सुख-दुःखादय आरोप्यन्त इति सुख-दुःखाद्याधारतया पुरुषप्रतीतिभ्रान्तैवेति तथाविधायास्तस्या नापलाप इति भावः। अन्यगतधर्माणामन्यत्रारोपतस्तथाप्रतीतिर्भवतीत्यत्र दृष्टान्तमाह-भटविजयपराजयी राजीवेति- रणे मल्लप्रतिमल्लभावेनान्योऽन्यं नता भटानां मध्ये यस्य जयः पराजयो वा भवति तज्जय-पराजयो तत्स्वामिनि राजनि आरोग्यासौ राजाऽमुं राजानं जितवान् अनेन राज्ञा वा पराजित इति बुद्धिरारोपरूपत्वाद् भ्रान्ता यथा भवति तथेत्यर्थः। साङ्खथमते पुरुषमुपादाय प्रकृत्यादिकं पञ्चविंशतिविधं तत्त्वमिति क्रमेण प्रकृत्यादिस्वरूपं निरूपयितुमाह-प्रकृतिरिति- सत्त्व रजस्तमसां साम्यावस्था प्रकृतिरिति गीयते।। " सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भक चलं च रजः / गुरु वर्णकमेव तमः प्रदीपवच्चार्थतो वृत्तिः // 1 // " [ . ] इतीश्वरकृष्णवचनाद् यद् वस्तु लघुताशालि प्रकाशकताशालि तत् सत्त्वं सामथाचारिष्टम् , उपष्टम्भकं यदि रजो गुणो न भवेत् तदा गुरुणा तमसा प्रतिरुद्धं सत्त्वं स्वकार्य न साधयेदित्युपष्टम्भ- सत्त्वादेः कार्यकरणे उत्तम्भक सहकारि रजः, तथा यदि रजोगुणो न भवेत् तर्हि गुरुणा तमसा व्याप्तं वस्त्वक्रियमेव भवेत् ततश्चलं चलनात्मकक्रियाविष्टं रज उपेयते, एवं च गुर्वपि रजसा चालितं सद् वस्तु सक्रियं भवति, यदि तमो न भवेत् तदा रजसा चालितं लघु सत्त्वोपेतं वस्तु सर्वदा चलेदेव न क्वचिदवस्थानमासादयेत् , गुरुणा तमसाऽवष्टब्धं सर्वदा चलितुमशक्नुवत् किश्चिच्चलति किश्चिन्न चलत्यपीति गुरु तमः, एवं यदि तमो न स्यात् प्रकाशकस्वभावेन सत्त्वेनालिङ्गितं वस्तु सर्वदा प्रकाशेत एव कदाचिदप्यप्रकाशो न भवेदिति वरणकमावरणकारि तमः, एवं च यदा तमसः सत्त्वापेक्षया प्राबल्यं तदा न प्रकाशते, यदा च दौर्बल्यं तदा प्रकाशत इति सिदयतः प्रकाशाऽप्रकाशाविति निरुकवचनाभिप्रेतार्थः / सा च प्रकृतिः अचेतना न चेतयते, चेतनात्मकपुरुषाभेदारोपाच्च चेतनेव भवति / एवं परिणामिनी बुद्धयाद्यात्मना परिणमते / प्रकृतेर्न किञ्चित् कारणं तस्या अपि कारणाभ्युपगमेऽनवस्थानं प्रसज्यत इति न कार्यस्वरूपा सा किन्तु सर्वस्य कार्यस्य कारणमित्याह-आदिकारणं च / तस्याश्च प्रकृतेः पुनः। आद्यपरिणामः प्रथमपरिणामः, प्रकृतिः सत्त्वोदेकात् प्रथमतो बुद्धिरूपेण परिणमत इत्यर्थः / “बुद्धिरुपलब्धिनिमित्यनर्थान्तरम् " [ ] इति गौतमसूत्रात् कौशाच्च बुद्धिर्ज्ञानमिति व्यवहियते लोके, नात्र तद्ब्रहणं किन्तु बुद्धिरन्तःकरणम् , तस्याश्च महत्तत्त्वमिति नामान्तरमित्याहमहत्तत्त्वापरपर्यायेति / बुद्धरेव ज्ञानाऽज्ञानादयो धर्मा न चैतन्यस्वरूपस्यात्मन इत्याह - तस्या इति-बुद्धरित्यर्थः / शानाऽज्ञानेत्यत्र ज्ञानपदेनैव ज्ञानस्वरूपाया बुद्धम्रहणे पुनर्बुद्धि-सुखेत्यत्र प्रहणं बुद्धरन्तःकरणस्य धर्मोऽन्तःकरणरूपा बुद्धिर्न भवति, किन्तु ज्ञानस्वरूपा बुद्धिरपि साङ्ख्थाभिमता, सा च बुद्धिधर्म इत्यावेदनाय / अपीत्यनेन 'तस्या धर्माः' इत्यनुकृष्यते / ननु अनुभवात् कालान्तरे स्मृतेरुत्पत्तये तद्वयापारो भावनाख्यसंस्कारो नैयायिकैरुपेयत इति भावनाख्यसंस्कारः साथमते बुद्धिधर्मा भवितुमहतीति भावनाया अपि बुद्धिधमतया कथनमुचितामत्यत आह-भावनाया इतिभावनाख्यसंस्कारस्येत्यर्थः / तैः, साङ्खयः / अनङ्गीकारात् अनभ्युपगमात् / नन्वेवं कालान्तरीयानुभवात् स्मृत्युत्पत्त्य