________________ 346 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / न- सकढेदान्तार्थभवणवतां तदभावप्रसङ्गात् / किब, भ्रमे अज्ञानमात्रजन्यत्वं युक्तम् , न त्वधिष्ठानज्ञाने, [ न ]हि रजतभ्रमवत् शुक्तिज्ञाने शुक्स्यज्ञानजन्यत्वम् / तदवश्यं दृष्टि सृष्टिपक्षे लोके अज्ञानातिरिक्तकारणाभावेऽपि वेदे यागादौ स्वर्गादिसाधनतया सम्मतैव / ततश्च यागादेः स्वर्गादिसाधनवं प्रतीत्य मागमनुतिष्ठतां उत्पन्नस्य स्वर्गसूक्ष्मरूपस्य [ यागसूक्ष्मरूपस्य ] वा अपूर्वस्य साक्षिसिद्धस्य स्वर्गजनकत्वम्, अपूर्वस्य साक्षिसिद्धत्वं नानुभूयते इति चेत् ? न- अज्ञातसत्त्वानङ्गीकारेणाज्ञानकारण. ताया इन अपूर्वस्य साक्षिसिद्धताभ्युपगमस्यावश्यकत्वात्, ततश्च यागादेः स्वर्गादिजन्मवत् श्रवण-मननादिसहजकूतवेदान्तवाक्यात् तत्त्वज्ञानोत्पत्तिरविरुद्धा / दृष्टिसृष्टिवादे ईश्वरो नास्तीति " तत् त्वमसि" [ ] इत्यत्र कथं तदभेदप्रतीतिरिति चेत् ? कुत एतदवगतम् ? सर्वदाऽप्रतीतेरिति चेत् ? तर्हि जीवोऽपि नास्त्येव, चिद्रूपतया भासमानत्वं चोभयत्र तुल्यम्, ईश्वरत्वं सदा न भासते इति चेत् ? जीवत्वेऽपि तुल्यमेतत् , उभयमपि तर्हि नास्त्येवेति चेत् ? न-- साक्षित्वस्यानुभवसिद्धत्वात् , जयन्मिथ्यात्वज्ञाने शुद्धचैतन्यज्ञाने सति शमादिक शुद्धचैतन्यज्ञानकारणमिति भ्रान्तेरभावात् तजन्यस्य शमाद्यनुष्ठानस्याप्यभावप्रसङ्गादित्यर्थः / अधिष्ठानचैतन्यज्ञानं प्रमात्मकमिति न तत् प्रति. अज्ञानात्मकदोषस्य कारणत्वम् , भ्रमं प्रत्येव तस्य कारणत्वादित्यज्ञानमात्रजन्यत्वं भ्रमे भवेत् , न तु चैतन्यसाक्षात्कारे इत्याह-किश्चेति / अधिष्ठानज्ञाने नाज्ञानस्य कारणस्वमित्यत्र दृष्टान्तमाह- नहीति- शुक्ताविदं रजतमिति भ्रमे शुक्त्यज्ञानस्य करणत्वं न तु शुक्तिज्ञाने शुक्त्यज्ञानस्य कारणत्वमिति यथा शुक्तौ रजतभ्रमे शुक्त्यज्ञानजन्यत्वं न तु शुक्तिज्ञाने शुक्त्यज्ञानजन्यत्वं तथा प्रकृतेऽपीत्यर्थः / उपसंहरति-तदिति- तस्मादित्यर्थः / अज्ञानातिरिक्तकारणाभावेऽपीत्यस्याज्ञानात्मदृष्टिव्यतिरिक्तकारणाभावेऽपीत्यर्थः / / ततश्च वेदे यागादौ स्वर्गादिसाधनतायाः सम्मतत्वाच्च / स्वर्गसूक्ष्मरूपस्येत्यस्यापूर्वस्येत्यनेनान्वयः, अपूर्वस्यादृष्टाख्यस्य स्वर्गसूक्ष्मरूपत्वं स्वर्गकारणत्वादेव, एवं तस्य यागसूक्ष्मरूपत्वमपि यागव्यापारत्वात् , ,यदा च यागजन्यं स्वर्गजनकमपूर्वमुत्पद्यते तदैव किञ्चिदंशेन स्वर्गस्य सूक्ष्मरूपमपि सम्पद्यत इति स्वर्गसूक्ष्मरूपत्वमपूर्वस्य. अपूर्वोत्पत्तिकाले स्थूलरूपेण यागस्य विनाशेऽपि सूक्ष्मरूपेणावस्थानं समस्त्येवेत्यभिसन्धिः। एतादृशस्यापूर्वस्य प्रमाणाभावादसिद्धत्वमिति नाशाहनीयं तस्य साक्षिसिद्धत्वादित्याशयेनाह-साक्षिसिद्धस्येति / स्वर्गजनकत्वमित्यत्र च्छेदः। अपूर्वस्य साक्षि. सिद्धत्वं यदि भवेत् तदा स्वर्गजनकत्वं तस्य स्वीक्रियेतापि, न च तस्य साक्षिसिद्धत्वमननुभवादित्याशङ्कते- अपूर्वस्येति / “चिरध्वस्तं फलायालं न कर्मातिशय विना" [ कुसुमाजलौ] इति वचनात् चिरध्वस्तस्य यागादेः साक्षात् स्वर्गोत्पत्तितोऽव्यवहितपूर्वसमयेऽसत्त्वेन वेदबोधितकारणत्वमनुपपन्नमिति तदन्यथानुपपत्त्या यागव्यापारतयाऽपूर्व कल्प्यत इति तस्य यागजन्यत्वं स्वर्गजनकत्वं चान्यथानुफ्पत्तिलक्षणार्थापसिप्रमाणसिद्धमेव, किन्तु दृष्टिसृष्टिवादे सर्वस्य शातसत्त्वमेवयदेव ज्ञायते तदेव सदित्यज्ञातसत्त्वं न कस्यापि स्वीक्रियते, तत एव चाज्ञानस्य कारणता साक्षिवेयेत्युपेयते, एवं चापूर्वमपि यद्यातं स्यान सत् स्यादित्यतस्तस्य साक्षिवेधत्वात् साक्षिसिद्धत्वमक्श्यमभ्युपगन्तव्यमिति समाधत्ते-नेति / अशानकारणताया इवेति- अज्ञाननिष्ठकारणताया यथा साक्षिसिद्धत्वाभ्युपममस्तवेत्यर्थः / उपसंहरति-ततश्चेति / अन्यत् स्पष्टम् / शङ्कते-दृष्टिसृष्टिवाद इति / तदभेदप्रतीतिः त्वंपदार्थे जीवे तत्पदार्थस्येश्वरस्याभेदप्रतीतिः।। समाधाता शहितारं पृच्छति- कुत इति- दृष्टि सृष्टिवादे ईश्वरो नास्तीत्यवगतिर्भवतः कस्मात् कारणात् समुत्पनेत्यर्थः / प्रश्नयिता प्राहसर्वदेति- दृष्टिसष्टिवादे यदेव प्रतीयते तदेव सत्, ईश्वरस्तु कदाचिदपि न प्रतीयत इति सर्वदाप्रतीतत्वाचास्तीश्वर इत्यर्थः / समाधाता प्राह-तहीति / सर्वदाप्रतीतेजीवोऽपि तन्मते नास्त्येवेति कथं जीवासस्वनिबन्धनाऽपि तदमेदप्रतीत्यचुपपत्ति शङ्किता ? यदि च चिद्रूपतया भासमानत्वाज्जीवस्य प्रतीतेन तस्यासत्वं तर्हि चिद्रूपतया भासमानत्वेन तत्प्रतीतेरपि सद्भावादीश्वरस्यापि नासत्त्वमित्याह-चिद्रपतयेति / उभयत्र जीवे ईश्वरे च / यद्यपि भासमानत्वमस्तीश्वरस्य, तथापीश्वस्त्वं सदा न तत्र भासत इतीश्वरत्वेनेश्वरोऽप्रतीयमानो नास्तीत्युच्यते इत्याशक्ते- ईश्वरत्वमिति / समाधाता प्राह- जीवत्वेऽपीति- जीवत्वं सदा न भासत इति जीवत्वेन जीवो नास्तीत्यप्युच्यतामित्यर्थः / दुर्दुरुट: