SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 34 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। पाकजन्मना ज्ञानेन अज्ञानादिबाधः, तथाहि-तस्मिन् मते चैतन्यातिरिक्तपदार्थानामज्ञातसत्त्वं नास्ति, मिथ्यात्वस्य स्वप्नादिदृष्टान्तसिद्धत्वात् तादृशस्यैव सत्त्वस्याङ्गीकारात् एवं च घटादीनां यदा प्रतीतिस्तदा तत्त्वम् , नान्यदेति न दण्डादिजन्यत्वम् , किन्त्वज्ञानमात्रजन्यत्वम् , स्वप्नवञ्च दण्डाद्युपादानम् / अज्ञानदेहादिकं तु भासमानमेव तिष्ठति / अभावनिश्चयाभावाच पुत्राद्यभावकृतरोदनाद्यप्रसङ्गः, प्रत्यभिज्ञानमपि भ्रम एव, ततश्चाकाशादिक्रमेण सृष्टिः, पञ्चीकरणं ब्रह्माण्डाद्युत्पत्तिश्चैतन्मते नास्त्येव, घटादेरपरोक्षं कस्यापि सत्त्वमित्यनेकजन्मसाध्यत्यान्ताभ्यासलक्षणश्रवणादिपरिपाकासम्भवात् कुतस्तत्प्रभवेनाऽऽत्मसाक्षात्कारेणाज्ञानादिवाधसम्भव इत्याशङ्कते-कथं पुनरिति / निरुक्काज्ञानादिबाधासम्भवमेव भावयति-तथाहीत्यादिना / तस्मिन् मते दृष्टि. सृष्टिवादिमते / चैतन्यरूपस्य ब्रह्मणः सदातनत्वं तन्मतेऽप्यङ्गीक्रियत इत्यत उक्तं चैतन्यातिरिक्तेति / अचातसवं नास्तीत्यनेनाज्ञातसत्त्वप्रतिषेधेन चैतन्यातिरिक्तपदार्थानां ज्ञातसत्त्वमेव-ज्ञानकालौनसत्वमेव तन्मते समस्तीत्युपदर्शितम् / मिथ्यात्वस्येति- प्रप्रञ्चो मिथ्या दृश्यत्वात् स्वप्नादिवदित्यनुमानतः प्रपञ्चमात्रस्य स्वप्नादिदृष्टान्तेन मिथ्यात्वस्य सिद्धत्वात् , तादृशस्यैव-मिथ्यात्वस्वरूपस्यैव ज्ञातसत्त्वस्य प्रपञ्चे स्वीकारादित्यर्थः / एवं च प्रपञ्चेऽज्ञातसत्त्वाभावस्य सिद्धौ च / तदा प्रतीतिकाले / तत्त्वं घटादीनां सत्त्वम् / नान्यदा प्रतीतिसमयातिरिक्तसमये न सत्त्वम् / इति एतस्माद्धेतोः / न दण्डादिजन्यत्वमिति - दण्डादिसमवधानसमयातिरिकसमये प्रतीयमानस्य घटादेस्तदेवोत्पत्तिः, तदानीं च दण्डादिसमवधानाभावाद् दण्डादेर्घटादिनियताव्यवहितपूर्ववर्तित्वाभावेन कारणत्वाभावाद् दण्डादिनिष्ठकारणतानिरूपितकार्यतालक्षणं दण्डादिजन्यत्वं घटादीनां नास्तीत्यर्थः / तत् किं कारणं विनैव घटादीनामुत्पत्तिरिति पृच्छति-किन्त्विति / अज्ञानस्यानादेस्तन्मतेऽपि स्वीकारात तस्य घटादिकारणत्वसम्भवेन तज्जन्यत्वं घटादेः सम्भवतीत्युत्तरयति-अज्ञानमात्रजन्यत्वमितिघटादीनामित्यनुवर्तते / नन्वेवं घटादीनां दण्डादिजन्यत्वमाकलय्य तदर्थ दण्डादीनामुपादानं लोकैः क्रियते तदप्यनुपपच्चं स्यादित्यत आह-स्वप्नवञ्चेति- स्वप्रेऽपि घटादीनामज्ञानमात्रप्रभवाणामुत्पत्यर्थं दण्डाद्युपादानं यथा तथा प्रकृतेऽपीत्यर्थः, तथा च तत् कल्पितत्वान्मियैवेति भावः / कथं तह्मज्ञानादीनामवस्थानमत आह- अज्ञानेति- तदवभासनं च साक्षिणेति बोध्यम् / ननु पितृ-मात्रादीनां यदा पुत्रादिदशनं नास्ति तदानीं पुत्राद्यभावात् तत्कृतरोदनादिप्रसङ्गः स्यादित्यत आह-अभावति-अदर्शनकाल पुत्रादीनामभावेऽपि पित्रादेः पुत्राद्यभावनिश्चयो नास्ति, पुत्राद्यभावनिश्चय एव रोदनादिकारणम् , वास्तविकसत्त्ववादिमतेऽपि देशान्तरगतस्य पुत्रादेर्मरणे तदभावो विद्यते, नैतावता पित्रादिभी रोदनं क्रियते, यदा दलादिना तदभावनिश्चायकेन तदभावो निश्चीयते तदैव रोदनादिकं क्रियते इति स्वरूपसतः पुत्राद्यभावस्य न रोदनादिकारणत्वं किन्तु निश्चितस्यैवेति तदभावनिश्चयरूपकारणाभावान रोदनादिप्रसङ्ग इत्यर्थः। ननु ‘स एवायं घटः, स एवायं पुत्रः' इत्यादिप्रत्यभिज्ञानात् पूर्वकालीनदर्शनविषयेण घटादिना वर्तमानकालीनदर्शनविषयस्य घटादेरभेदः सिध्यति, स च तदैवोपपद्यते यद्यन्तरालसमयेऽज्ञातोऽपि घटादिः स्यादित्यन्तरालकालेऽपि घटादिविद्यते, एवं च प्रत्यभिज्ञानेन बाधान्न ज्ञातमात्रसत्त्वं घटादीनामित्यत आह-प्रत्यभिज्ञानमपीति- लून-पुनर्जातनख-केशादौ स एवायं नख-केशादिरिति प्रत्यभिज्ञानं लुन-पुनर्जातनख केशादेरभेदाभावेऽपि सौसादृश्यादिदोषाद् भ्रान्तं समुद्भवति; दीपकलिकादापप्यनवरतविभिन्नतैलाद्युपादानतो विभिन्नमेव दीपकलिकादिकमुपजायत इति पूर्वापरदीपकलिकाद्योरभेदाभावेऽपि सेवेयं दीपकलिकति प्रत्यभिज्ञानमभेदावगाहि भ्रान्तमुपजायते सौसादृश्यादिदोषात् तथा सर्व प्रत्यभिज्ञानं भ्रम एवेति. न ततो. ऽशातसत्त्वसिद्धिरित्यर्थः। तत्र सृष्टिक्रमो न विद्यत इत्याह- ततश्चेति- यदा घटादीनां प्रतीतिस्तदानीमेव घटादीनां सत्त्वमित्युपगमाचेत्यर्थः / आकाशादिक्रमेण सृष्टिरित्यस्य नात्स्येवेत्यनेनान्वयः, एवं पञ्चीकरणं ब्रह्माण्डाद्युत्पत्तिश्चेत्यस्यापि / एतन्मते दृष्टिसृष्टिवादिमते / ननु अपरोक्षकारणस्येन्द्रियादेरज्ञानकाले सत्त्वं नैतन्मते समस्तीति यदा घटादीनां दर्शनं तत्पूर्वकाले इन्द्रियादेर्दर्शनाभावादतीन्द्रियत्वाच्च न सत्त्वमिति तज्जन्यत्वभावादिन्द्रियादिजन्यं ज्ञानं प्रत्यक्ष. मिति लक्षणलक्षितप्रत्यक्षस्वरूपं घटादेर्शानं न स्यादित्यत आह- घटादेरपरोक्षमिति- अपरोक्षस्वरूपचैतन्येऽध्यासादेव घटादेरपरोक्षं ज्ञानमित्यर्थः / ननु क्षणमात्रस्थायित्वाद् घटादिज्ञानं क्षणिकं तदात्मकसत्त्वमेव घटादेरिति तस्यापि क्षणिकत्व. मिति यत् सत् तत् क्षणिकमिति व्याप्तितः सर्वस्य क्षणिकत्वमभ्युपगच्छतो बौद्धस्य मते दृष्टिसष्टिवादिमतस्य प्रवेशः
SR No.004344
Book TitleNayopdesh Part 02 Tarangini Tarni
Original Sutra AuthorN/A
AuthorYashovijay Gani, Lavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy