________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलतो नयोपदेशः / रूपान्तरमस्ति, तस्मादत्र नास्त्येवाज्ञानध्वंसः, किन्त्वज्ञानस्य कल्पितत्वादत्यन्ताभाव एष तन्निवृत्तिः / किं तर्हि तत्त्वज्ञानस्य साध्यमिति चेत् ? नास्त्येवाज्ञानात्यन्ताभावबोधात्मकत्वबाधव्यतिरेकेण, तदुक्तम्" तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः। अविद्या सह कार्येण, नासीदस्ति भविष्यति // 1 // " ] इति, शुक्तिबोधेनापि हि रजतात्यन्ताभावबोधरूपो बाध एव क्रियते, मिथ्या इति. शक्तिबोरेगाव भूतस्य च. बाध एव ध्वंस इत्यभिधीयते, तद्वदिहापि द्रष्टव्यम् , स चायमधिष्ठानात्मक एव / कथं तर्हि सर्वथा सत इच्छाप्रयत्नाविति चेत् 1 कण्ठगतचामीकरन्यायेनानवाप्तत्वभ्रमात्, पुरुषार्थत्वं तु तत्राभिलषितत्वादेव कृतिसाध्यत्वस्य तत्र गौरवेणाप्रवेशात् / चन्द्रामृतपातादौ पुरुषार्थत्वमिष्टमेवाऽप्रवृत्तिस्तु तत्र कृतिसाध्यत्वज्ञानरूपकारणान्तराभावादिति प्रतिपत्तव्यम् / कथं पुनः दृष्टिसृष्टिवादे श्रवणादिपरि. अत्र चैतन्ये। तह्मज्ञाननिवृत्तिः किंस्वरूपति पृच्छति- किन्विति / उत्तरयति-अज्ञानस्येति / तन्निवृत्तिः अज्ञान. निवृत्तिः / नन्वत्यन्ताभावस्य परमतेऽतिरिक्तस्य नित्यत्वात् स्वमतेऽधिकरणस्वरूपत्वाग्ज्ञानसाध्यत्वाभावेन किं साथ्यम् ? कस्यचिग्ज्ञानसाध्यस्याभावे ज्ञानानर्थक्यमापन्नमिति पृच्छति-किमिति- अस्य साध्यमित्यनेनान्वयः / उत्तरयति-नास्त्येवेति"बोधात्मकत्वबाध" इत्यस्य स्थाने " बोधात्मकबाध" इति पाठो युक्तः, अज्ञानात्यन्ताभावबोधात्मकबाधव्यतिरेकेण नास्त्येवेत्यन्वयः, तथा चाज्ञानात्यन्ताभावबोधलक्षणाज्ञानबाध एव ज्ञानसाध्योऽज्ञाननिवृत्तिरित्यर्थः / उक्तबाधस्वरूपाज्ञाननिवृत्ते. निसाध्यत्वे प्रार्चा संवादमुपदर्शयति- तदुकमिति / तस्वमस्यादीति- 'तत्त्वमसि, अहं ब्रह्मास्मि ' इत्यादिवाक्यजन्यं यच्छुद्धचैतन्यज्ञानं तज्जन्यमात्रेण कार्येण सहाविद्याऽज्ञानस्वरूपा नासीत् - पूर्वकाले नाभवत् , नास्ति-वर्तमानकाले न विद्यते, न भविष्यति- उत्तरकाले नैव स्थास्यतीत्यर्थः, अनेन कालत्रयेऽपि कार्येण सहाज्ञानस्यात्यन्ताभावबाध उपजायत इति स एव बाधः। उक्तमयं दृष्टान्त-दान्तिकभावावष्टम्भेन भावयति-शुक्तिबोधेनापीति-शुक्ताविदं रजतमिति भ्रमानन्तरं त्रिकोणत्वादिकशुक्त्यसाधारणधर्मस्य तत्र ज्ञानत इयं शुक्तिरिति ज्ञानेन प्रातीतिकशुक्तिरूप्यस्य निवृत्तिभवति, तत्रापि त्रिकालेऽपि रजतं न भवतीदमिति रजतभेदबोधो मात्र रजतमिति रजतात्यन्ताभावबोधलक्षणबाध एव क्रियत इति मिथ्याभूतस्य रजतस्य बाध एव तस्य धंस इत्यभिधीयत इत्यर्थः। तदवदिति-तत्र यथा त्रैकालिकशुक्तिरजतात्यन्ताभावबोधो बाधः शुक्तिरजतनिवृत्तिस्तथेत्यर्थः / इहापि अज्ञाननिवृत्तावपि, कालिकसकार्याज्ञानात्यन्ताभावबोधात्मकबाधोऽज्ञाननिवृत्तिन स्वज्ञानध्वंस इति भावः / स चायमिति- निरुतबाधश्चाधिष्ठानभूतब्रह्मात्मक एव, तेन बाधस्वरूपद्वितीयसद्भावानाद्वैतभा इति बोध्यम् / यदि निरुतबाधात्मकाज्ञाननिवृत्तिर्ब्रह्मात्मिकैव तदा तस्याः सर्वदा सत्त्वानोत्पत्तिरिति तद्विषयकाविच्छा प्रयत्नौ कथं स्यातामिति पृच्छति-कथं तहीति। उत्तरयति- कण्ठेति-स्वकण्ठे स्थितमपि चामीकर दोषवशादनवगच्छन् प्रत्युत चामीकरं विनष्टमिति भ्रान्त्या तद्वेषणप्रवृत्तः केनचिदाप्तेन अरे। तव कण्ठ एव स्थितं चामीकरं किमर्थमितस्तत. स्तदन्वेषयसीत्येवं प्रतिबोधितोऽवाप्तमेव तदवाप्तमित्यवगच्छति तथा प्रकृतेऽप्युक्तस्वरूपं ब्रह्मावाप्तमेवानवाप्तत्वभ्रमादुक्तदिशा तदवास्यर्थमिच्छा-प्रयत्नौ तदुपायविषयिणावात्मसात्कुर्वन् तदवाप्तितः कृतार्थो भवतीत्यर्थः। ननु निरुक्काज्ञाननिवृत्त्यात्मकमोक्षो भवन्मते पुरुषार्थ; पुरुषेण कृत्या साध्य एव पुरुषार्थो भवति, निरुक्तमोक्षश्च नित्यब्रह्मस्वरूपत्वान कृतिसाध्य इति पुरुषार्थत्वं तस्य न स्यादित्यत आह-पुरुषार्थत्वं त्विति पुरुषेणार्थ्यते - अभिलष्यत इति पुरुषार्थ इति व्युत्पत्त्या पुरुषेच्छाविषयत्वं पुरुषार्थत्वम् , साधनस्य पुरुषार्थत्वं मा प्रसाङ्क्षीदित्येतदर्थमन्येच्छानधीनेच्छाविषयत्वं तत् परिष्कृतं भवति, एवं च ब्रह्मस्वल्पमोक्षेऽपि निरुक्केच्छाविषयत्वात् पुरुषार्थत्वं स्यादेव, कृतिसाध्यत्वे सति निरुक्तच्छाविषयत्वं यदि पुरुषार्थत्वं भवेन्न मवेदाप कृत्यसाध्ये तस्मिन् पुरुषार्थत्वम्, किन्तु गौरवेण कृतिसाध्यत्वं तत्र न प्रवेश्यत इत्यर्थः / नन्वेवं चन्द्रगतामृत. पानादिविषयिण्यपि पुरुषेच्छा भवत्येवेति पुरुषेच्छाविषयत्वाच्चन्द्रगतामृतपानादावपि पुरुषार्थत्वं स्यादित्याशवामिष्टापत्त्या परिहरति-चन्द्रेति- "चन्द्रामृतपातादी" इत्यस्य स्थाने "चन्द्रामृतपानादौ" इति पाठः सम्यग् / यदि पुरुषार्थ चन्द्रामृतपानादि कथं तर्हि तदर्थिनां न तत्र प्रवृत्तिरित्याकाङ्खायामाह- अप्रवृत्तिस्त्विति / तत्र चन्द्रामृतपानादौ / प्रवृत्ति प्रति यथेच्छा कारणं तथा कृतिसाध्यताज्ञानमपि कारणम् , तदभावान्न चन्द्रामृतपानादौ प्रवृत्तिरित्यर्थः / ननु वेदान्तिनां रष्टिमष्टिवाद एव प्रधानः, तत्र यदैव यस्य दर्शनं तदेव तस्य सत्त्वमित्येकजन्मन्यप्याजन्ममरणान्तसमयतया प्रसिद्ध न