________________ 342 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलातो नयोपदेशः / केति चेत् ? न- जन्यत्वादेव / नास्त्येव जन्यत्वमिति चेत् ? न- ज्ञानानर्थ क्य ]प्रसङ्गात्, चैतन्यस्य सदा सत्त्वेन प्रयत्नविशेषानुपपत्तेश्च / अत्र केचित् - तत्त्वज्ञानोपलक्षितं चैतन्यमेवाज्ञाननिवृत्तिः, तञ्च न तत्त्वज्ञानतः प्रागस्ति, उपलक्षणत्वस्य संबन्धाधीनत्वात् , [ यथा ] काकसंबन्धो हि गृहस्य काकोपलक्षितत्वम् , तदपिन- ज्ञानोपलक्षितस्यापि सत्त्वेऽद्वैतव्याघातात् , असत्त्वे उद्देश्यत्वानुपपत्तेः, मिथ्यात्वे ज्ञाननिवर्त्यत्वापत्तेः, चिन्मात्रत्वे उक्तदोषानतिवृत्तेः। न च तत्वज्ञानानुपलक्षितभिन्नं चैतन्यमेव सा, अवस्थाभेदं विना तस्यापि दुर्वचस्त्वादतो दुर्वचस्स्वरूपेयमज्ञाननिवृत्तिः, अत्रोच्यते-नाज्ञानस्य निवृत्तिध्वंसः, रूपान्तरपरिणतोपादानस्यैव तद्रूपत्वात् , घटध्वंसो हि चूर्णाकारपरिणता मृदेव, न च चैतन्यस्य विशेषलक्षणायाः संयोगविशेषरूपाया वाऽन्वयानुपपत्त्या प्रामाणिकस्य निर्वाहार्थ सङ्कोचोऽपदार्थतावच्छेदकस्य सम्पन्नो व्रीहिरिति वाक्यघटकबीहिपदार्थतावच्छेदकत्री हित्वभिन्नपदार्थतावच्छेदकस्वरूपत्वं न दूषणम् , न त्वेवं प्रकृते सङ्कोचः प्रामाणिक इति स दूषणं स्यादेवेति भावः / नन्वज्ञाननिवृत्तिन सती, नाप्यसती, नापि सदसती, नाप्यनिर्वचनीया, किन्तु पञ्चमप्रकारैव, तत्र नोक्तदूषणप्रसङ्ग इत्यत आह-पञ्चमप्रकाराश्रयणमिति-तथा चात्रात्यन्ताप्रसिद्धिरेव दूषणमित्या. शयः। नन्वभावस्याधिकरणात्मकत्वमेव लाघवादित्यज्ञाननिवृत्त्यधिकरणं चैतन्यमिति चैतन्यात्मिकैवाज्ञाननिवृत्तिरिति समाधानमाशङ्कते- अस्तु तीति / चैतन्यस्य नित्यत्वेनाज्ञाननिवृत्त न्यत्वेन विरुद्धधर्माध्यासात् तयोस्तादात्म्यासम्भव इति प्रतिक्षिपति- नेति / ननु चैतन्यात्मकत्वादेवाज्ञाननिवृत्तौ जन्यत्वं नास्तीति शङ्कते-नास्त्येवेति-चैतन्यात्मिकाया अज्ञाननिवृत्तेर्जन्यत्वं नास्त्येवेत्यर्थः। अज्ञाननिवृत्त्यर्थमेव चैतन्यसाक्षात्कार उपादीयते, यदि चाज्ञाननिवृत्तिन जन्या तात्मसाक्षात्कारस्यानर्थक्यात् तदर्थ मुमुक्षुर्न प्रवर्ततेति निषेधति - नेति / चैतन्यं यद्यज्ञाननिवृत्तिस्तदा चैतन्यस्य सदा सत्त्वात् तदर्थ प्रयत्नविशेषानुपपत्तिरप्यासज्यत इत्याह- चैतन्यस्येति / ननु केयमज्ञाननिवृत्तिरित्यादिना पल्लवितायामाशङ्कायां केषाञ्चित् प्रतिविधानमुपदर्शयति- अत्रेति- उक्ताशङ्कायामित्यर्थः। तच्च तत्त्वज्ञानोपलक्षितं चैतन्यं पुनः, तत्त्व. ज्ञानतः प्राक् तत्त्वज्ञानोपलक्षितचैतन्यस्यासत्त्वे हेतुमुपदर्शयति-उपलक्षणत्वस्येति- यद्यसंबद्धस्याप्युपलक्षणत्वं तदा सर्व सर्वस्योपलक्षणं भवेन भवति च सर्व सर्वस्योपलक्षणमित्युपलक्ष्योपलक्षकयोः सम्बन्धोऽवश्यमेषितव्यः, सम्बन्धश्च समकालं विद्यमानयोरेवेति तत्त्वज्ञानकाल एव तत्त्वज्ञानोपलक्षितं चैतन्यमतो न तत्त्वज्ञानतः प्राक् तत्त्वज्ञानोपलक्षित चैतन्यम् , ततस्तत्त्वज्ञानोपलक्षितचैतन्यस्वरूपाज्ञाननिवृत्त्यर्थ तत्त्वज्ञानमुपादेयम् , तदर्थ यत्नविशेषस्यापि साफल्यमित्यर्थः / उपलक्षण. त्वस्य सम्बन्धाधीनत्वे दृष्टान्तमाह-यथेति / निरुक्तसमाधानं प्रतिक्षिपति-तदपि नेति / ज्ञानोपलक्षितत्वं सत् असत् अनिर्वचनीयं चिन्मात्रं वा, प्रथमपक्षे- एकं ज्ञानोपलक्षितत्वं द्वितीयं चैतन्यमित्येवं द्वैतव्यवस्थितावद्वैतं व्याहन्येतत्याहज्ञानोपलक्षितत्वस्यापीति / द्वितीये-नह्यसत उद्देश्यत्वमिति तस्योद्देश्यत्वमनुपपन्नं स्यादित्याह- असत्व इतिज्ञानोपलक्षितत्वस्यासत्त्वे इत्यर्थः / यदनिर्वचनीय तन्मिथ्येत्यनिर्वचनीयत्वमेव मिथ्यात्वम् , अत एव क्वचिदप्युपाधावप्रतीयमानत्वलक्षणासत्त्वतोऽस्य भेदः, एवं च यदनिर्वचनीयं तज्ज्ञाननिवर्त्यमिति नियमस्याज्ञान-तत्कार्ययोः स्वहस्तितत्वात् तत्त्व. ज्ञानोपलक्षितचैतन्यलक्षणाज्ञाननिवृत्तेरपि निवृत्त्यापत्तेस्तृतीयपक्षस्याप्ययुक्तत्वमित्याह- मिथ्यात्व इति-तत्त्वज्ञानोपलक्षितत्वस्य मिथ्यात्व इत्यर्थः / तुरीयपक्षे- चिन्मात्रस्वरूपाज्ञाननिवृत्तेः सदा सत्त्वेन ज्ञानजन्यत्वाभावाज्ज्ञानानर्थक्यं प्रयत्नविशेषणानुपपत्तिश्च स्यातामित्याह-चिन्मात्रत्व इति- ज्ञानोपलक्षितत्वस्य चिन्मात्रस्वरूपत्वे इत्यर्थः। तत्त्वज्ञानासमाधानान्तरमाशङ्कय प्रतिक्षिपतिन चेति / सा अज्ञाननिवृत्तिः / निषेधे हेतुमाह- अवस्थाभेदं विनेति- चैतन्यस्य तत्त्वज्ञानोपलक्षितत्वावस्था तत्त्व. ज्ञानानुपलक्षितत्वावस्था तत्त्वज्ञानानुपलक्षितभिन्नत्वावस्थेत्येवमवस्थात्रयमन्तरेणेत्यर्थः / तस्यापि तत्त्वज्ञानानुपलक्षितभिन्न चैतन्यस्वरूपत्वस्यापि / उपसंहरति- अत इति- पूर्वोपदर्शितविकल्पजर्जरितत्वादित्यर्थः / समाधत्ते - अत्रोच्यत इतिकथमज्ञाननिवृत्तिरित्याङ्कायां समाधानं कथ्यत इत्यर्थः / अज्ञाननिवृत्तेरज्ञानध्वंसरूपत्वाभावे हेतुमाह- रूपान्तरेति- रूपा. न्तरात्मना परिणतं यदुपादानं-परिणामिकारणं तस्यैव तदूपत्वात्- ध्वंसरूपत्वादित्यर्थः। रूपान्तरपरिणतोपादानस्यैव धंसरूपत्वमिति दृष्टान्तोपदर्शनेन स्पष्टयति-घटध्वंस इति-चूर्णाकारेण परिणता या मृत् सेव घटध्वंस इत्यर्थः / ननु प्रकृतेऽपि रूपान्तरात्मना परिणतं चैतन्यस्वरूपमुपादानमेवाज्ञानध्वंसोऽस्त्वित्यत आह-न चेति- अस्य 'अस्ति' इत्येननान्वयः, चैतन्यस्याखण्डस्वरूपस्या परिणामिनो रूपान्तरपरिणामाभावादित्यर्थः / एवं चाज्ञाननिवृत्ति ज्ञानध्वंसरूपेत्युपसंहरति-तस्मादिति /