________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलईतो मयोपदेया / 139 करण्यम् , गुणगुणिभावाद्यसम्भवात् , निर्गुणाऽस्थूलादिवचनविरोधाच्च / नापि यः सर्पः सा रज्जुरितिवद् बाधीयम् , उभयोश्चिद्रूपतया बाधायोगाद् मुक्त्यभावप्रसनाच, नहि स्वबाधार्थ जीवप्रवृत्तिरुपपद्यते / तस्मात् पदार्थयोः परस्परव्यावर्तकतया विशेषणविशेष्यभावप्रतीत्यनन्तरं लक्षणया सोऽयं देवदच इति. बद्विशुद्धप्रत्यगभिन्नाखण्डपरमात्मप्रतीतिः, सा च लक्षणा पदद्वयेऽपि अन्यथाऽखण्डार्थप्रतीत्यनुपपत्ते क्षणाबीजविरोधासमाधानाच्च / इयं लक्षणा विशेषणांशत्यागाद् विशेष्यांशात्यागाच जहदजहती( भाग. लक्षणा च गीयते ) / नन्वेवं चैतन्याद्वैतसिद्धावपि कथं प्रपश्चस्य पारमार्थिकस्वाभाव इति चेत् / उच्यते-यदि त्वंपदार्थे भोक्तृत्वादिपारमार्थिकं कथं तत्पदाथै क्यसिद्धिः, एवं वत्पदार्थेऽपि परोक्षत्वादि धिकरण्यस्य, कल्पनं तयोः प्रसङ्गादित्यर्थः। भवतु मुख्यमेव सामानाधिकरण्यमित्यत आह-मुख्यत्वेऽपीति- समानाधिकरण्यस्य मुख्यत्वेऽपीत्यर्थः / नीलोत्पलमित्यत्र नीलरूपविशिष्टपरस्य नीलपदस्योत्पलात्मकद्रव्यवाचकपदेन सामानाधिकरण्य संभवति नीलात्मकगुणवत्त्वस्योत्पलात्मके गुणिनि सद्भावात् , प्रकृते तत्पदवाच्ये निर्गुणे ब्रह्मणि त्वम्पदवाच्यसगुणचैतन्याभेदासंभवादिति निषेधहेतुमाह-गुणगुणिभावाद्यसंभवादिति / यदि निरुक्तसामानाधिकरण्यानुरोधेन गुणित्वादिकमपि ब्रह्मण्युपेयते तदा निर्गुणत्वादिप्रतिपादकवचनविरोधः स्यादित्याह-निर्गुणेति / ननु रजौ सर्पोऽयमिति भ्रमानन्तरं रज्जुरियं न सर्प इति बाधप्रतिसन्धाने सति यः सर्पः सा रज्जुरिति यद्वाधीयं सामानाधिकरण्यं तद्वत् प्रकृतेऽपि बाधीयं सामानाधिकरण्यं तत्-त्वम्पदयोरित्याशङ्को प्रतिक्षिपति-नापीति / निषेधे हेतुमाह-उभयोरिति- तत्पदार्थ-त्वम्पदार्थयोरित्यर्थः / ननु तत्पदार्थस्य बाधाभावेऽपि त्वम्पदार्थस्य बाधादेव बाधीयं सामानाधिकरण्यं भविष्यतीत्यत आह-मुक्त्यभावप्रसङ्गाश्चेति / कथं मुक्त्यभावप्रसङ्ग इत्यपेक्षायामाह-नहीति- अस्य 'उपपद्यते' इत्यनेनान्वयः / स्वेति-स्वपदार्थस्य मुक्त्यर्थिनो जीवस्य बाधार्थ मम बाधो भवत्वित्येतदर्थ जीवस्य प्रवृत्तिनापपद्यत इत्यर्थः। यदि न गौणं सामानाधिकरण्यं नापि मुख्य नापि. बाधीयं तर्हि तत्त्वमसीति वाक्यतः कथं कस्य प्रतीतिर्भवितुमहतीत्याकाङ्क्षायामुपसंहरति-तस्मादिति-उक्तदिशा सामानाधिकरण्यप्रकारस्य कस्याप्यसम्भवादित्यर्थः / पदार्थयोरिति-तत्पदार्थ-त्वम्पदार्थयोर्मध्ये तत्पदार्थस्त्वंपदार्थमन्यतो व्यावर्तयति, त्वंपदार्थस्तत्पदार्थमन्यतो व्यावर्तयतीत्येवं परस्परव्यावर्तकतया ययावर्तकं यद्विशेषणं तयावर्य तद्विशेष्यमिति नियमादुभयोर्विशेषण-विशेष्यभावेन प्रतीत्यनन्तरं लक्षणया तत्-त्वंपदयोर्विशुद्धप्रत्यगभिन्नाखण्डपरमात्मस्वरूप शुद्धचैतन्ये जहदजहलक्षणया विशुद्धप्रत्यगभिन्नाखण्डपरमात्मप्रतीतिर्भवति, यथा-सोऽयं देवदत्त इति वाक्याच्छुद्धदेवदत्तव्यक्ती निरुकलक्षणया शुद्धदेवदत्तव्यक्तिप्रतीतिरित्यर्थः / सा च लक्षणा विशुद्धप्रत्यगभिन्नाखण्डपरमात्मनि लक्षणा पुनः / पदद्वयेऽपि तत्पद-त्वंपदद्वयेऽपि / अन्यथा एकपद एव लक्षणाभ्युपगमे / अखण्डेति - एकपदस्य शुद्धचैतन्ये लक्षणायामपि लक्ष्ये शुद्धचैतन्ये द्वितीयपदशक्यार्थस्य विशिष्टचैतन्यस्य तत्राभेदेनान्वये सखण्डस्यैव ततो बोधः स्यादित्यखण्डस्य परमात्मरूपार्थस्य प्रतीतेरनुपपत्तरित्यर्थः / लक्षणेति-तत्-त्वंपदशक्यार्थयोरभेदेनान्वयासम्भवलक्षणविरोध एव लक्षणाबीजं तस्यासमाधानात् परिहाराभावाच्च, एकपदलक्षणायामपि तल्लक्ष्ये द्वितीयपदशक्यार्थस्यामेदेनान्वयासम्भवलक्षणविरोधोऽपरिहृत एवेत्यतो विरोध. परिहारार्थ पदद्वये लक्षणाऽऽवश्यकीत्यर्थः / अस्या लक्षणाया जहदजहल्लक्षणात्वं भागलक्षणात्वपर्यवसितं दर्शयति-इयं लक्षणेतितत्पदस्य शक्ये परोक्षत्वविशिष्टचैतन्ये विशेषणांशस्य परोक्षत्ववैशिष्टयस्य त्यागाद् विशेष्यांशस्य चैतन्यस्यात्यागात्, एवं स्वंपदस्य शक्ये अपरोक्षत्वविशिष्टचैतन्ये विशेषणांशस्यापरोक्षत्ववैशिष्टयस्य त्यागाद् विशेष्यांशस्य चैतन्यस्यात्यागाच जहद. जहती- शक्यं विशेषणांशं जहती, विशेष्यं च शक्यमजहतीति जहदजहती, अत एव शक्यस्य भागे विशेष्यरूपैकदेशे लक्षणेति भागलक्षणेयं गीयते इत्यर्थः / शङ्कते- नन्वेवमिति- एवमुक्तप्रकारेण, अद्वितीयं चैतन्यमप्यस्तु, प्रपञ्चस्य पारमार्थिकत्वमप्यस्तु, न हि प्रपञ्चस्य पारमार्थिकत्वाभावमन्तरेण चैतन्यस्याद्वैतमनुपपनं येन चैतम्याद्वैतान्यथानुपपत्त्या सिध्येतापि प्रपञ्चस्य पारमार्थिकत्वाभावः, न चैवमित्याशङ्कितुरभिप्रायः / समाधत्ते- उच्यत इति / त्वंपदाथै यदि भोक्तस्वादिकं पार. मार्थिकं त्वं पारमार्थिक तदा भोक्तृत्वादिविशिष्टचैतन्यमेकं द्वितीयं च तत्पदार्थचैतन्यमिति न चैतन्याद्वैतं निर्वहति. तथा तत्पदार्थेऽपि परोक्षत्वादि पारमार्थिकं तदा परोक्षत्वादिविशिष्टचैतन्यमकपरं च त्वंपदार्थचैतन्यमित्येवमपि चैतन्याद्वैतं न सिध्यतीत्याह-यदीति-"परोक्ष्यत्वादि" इत्यस्य स्थाने "परोक्षत्वादि" इति पाठः समीचीनः / नन्वेवं भोक्तत्व