________________ 338 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। वाच्यम् , निर्विशेषात्मबोधेऽपि " इतिहासपुराणाद्यैर्वेदार्थमुपद्व्हयेत् " [ ] इत्यादिना पुराणप्राकृतवाक्यश्रवणादेः प्राप्तत्वाद् वेदान्तश्रवणं नियम्यत इति दोषाभावात् / एतच्च श्रवणाद्यावृत्तं तत्त्वधीहेतुः, दृष्टार्थत्वात् , तदेवं बहुजन्मलब्धपरिपाकवशादसौ " तत्त्वमसि "[ . . ] आदिवाक्यार्थविशुद्धं प्रत्यगभिन्नं परमात्मानं साक्षात्कुरुते / न च प्रामाण्यस्योत्पत्तौ स्वतः स्वभङ्गः, श्रवणादेः प्रतिबन्धकनिवर्तकत्वात् तन्निवृत्तेश्च तुच्छत्वेनोत्पत्तावतिरिक्तानपेक्षणात् / 'तत् त्वम् ' इति पदयोः परोक्षत्वापरोक्षत्वविशिष्टचैतन्यरूपपृथगर्थवाचकयोः श्रूयमाणं सामानाधिकरण्यं न तावत् सिंहो देववत्त इतिवद्गौणम् , मुख्ये संभवति तस्यान्याय्यत्वात् / नापि " मनो ब्रह्म" [. ] इत्यादिवदुपासनार्थम्, श्रुतहानाश्रुतकल्पनाप्रसङ्गात् / मुख्यत्वेऽपि न नीलोत्पलादिवत् सामानाधिप्रसङ्गादेव, अस्य निषेधे नअर्थेऽन्वयः, तस्य नियमविध्यङ्गत्वमित्यनेनान्वयः। अत एवेत्यभिहितहेतुमेव स्पष्टयतियजेतेति / इत्थं श्रवणविधेन नियमविधित्वमित्युपपादनपराशङ्काप्रतिक्षेपहेतुमुपदर्शयति-निर्विशेषात्मबोधेऽपीतियद्यपि निर्विशेषात्मज्ञानत्वावच्छिन्नं प्रति प्रत्यक्षादिप्रमाणान्तरस्य प्रवृत्तिर्नास्ति तथापि इतिहासपुराणादिवाश्यश्रवणादिलक्षणप्रमाणान्तरप्राप्तेरितिहासपुराणादेरित्यादिवचनेन सद्भावात् तत्प्रतिषेधार्थ वेदान्तवाक्यश्रवणं नियम्यते, अत एव 'श्रोतव्यः श्रुतिवाक्येभ्यः' [ ] इति वचनं नियमप्रतिपादकमिति फलतावच्छेदकावच्छिन्नसाधनान्तरप्राप्तेरेव नियमविध्यङ्गत्वेन स्वर्गकामो यजेतेत्यादौ नियमविधिवप्रसङ्गदोषाभावादित्यर्थः / तत् किं निर्विशेषात्मज्ञानार्थ वेदान्तवाक्यश्रवणमैकधैव कर्तव्यमुत तदावृत्तिरपेक्षितेत्यपेक्षायामाह-पतञ्चेति-अनन्तरोपदिष्टस्वरूपं चेत्यर्थः / श्रवणादीत्यत्रादिपदान्मनननिदिध्यासनयोः परिग्रहः / आवृत्तं भूयोऽभ्यस्तम् / नियमविधिबोधितस्य श्रवणादेरदृष्टार्थत्ववद् दृष्टार्थत्वमपि, तेन . यद्यदृष्टार्थत्वमेव स्यात् तदा सकृद्विधीयमानेनापि श्रवणादिना तत्त्वज्ञानोपयोग्यदृष्टजन ातस्तद्द्वारा निर्विशेषात्मज्ञानं सम्भवसीति निष्प्रयोजनं श्रवणाद्यावर्तनं न विधेयं स्यात्, यदा तु दृष्टमपि तत्त्वज्ञानदृढीकरणादिकं तस्य प्रयोजनं तदा यावदभ्यस्तेन श्रवणादिना निर्विशेषात्मज्ञानं दृढं निष्पद्यते तावदभ्यसनीयं श्रवणादिकमित्यावेदनायाह-दृष्टार्थत्वादिति / तथा च पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः सानाध्ययनबलादापाततो वेदान्तवाक्यार्थज्ञानंवानिह जन्मनि जन्मान्तरे वाऽनुष्ठितकर्मभिर्विशुद्धान्तःकरणो नित्यानित्यविवेक-विराग-शमादिषट्क-मुमुक्षावान् विशिष्टगुर्वनुसरणतः श्रवणमनन-निदिध्यासनवान् तत्त्वमसीत्यादिवाक्यार्थविशुद्धप्रत्यगभिन्नपरमात्मानं साक्षात्करोतीत्युपसंहरति- तदेवमिति / परिपाकश्च दाळ श्रवणादीनाम् / असी पुरुषधुरन्धरः। ननु ब्रह्मसाक्षात्कारस्य प्रमाणात्मकस्य श्रवणादितो भावे तत्प्रामाण्यस्य श्रवणादिनिबन्धनत्वेन प्रामाण्यस्योत्पत्तौ स्वतस्त्वं यद् वेदान्तिसम्मतं तद्भङ्गः स्यादित्याशङ्कय प्रतिक्षिपतिम चेति / "स्वतः स्वभः" इत्यस्य स्थाने " स्वतस्त्वभङ्गः" इति पाठो युक्तः। श्रवणादितः परमात्मसाक्षात्कारप्रतिबन्धकापगमो भवति, ततो विशुद्धं प्रमाणस्वरूपं साक्षात्कारात्मकं ज्ञानमुत्पद्यते, इति प्रतिबन्धनिवृत्तेस्तुच्छस्वरूपायाः प्रामाण्योत्पत्तौ प्रयोजकत्वेऽपि कस्यचिद् भावस्य तत्रानपेक्षणात् स्वतस्त्वं न व्याहन्यत इति निषेधहेतुमुपदर्शयतिश्रवणादेरिति / तन्निवृत्तेश्च प्रतिबन्धकनिवृत्तेश्च, स्वाश्रयज्ञानकारणातिरिक्तभावानपेक्षत्वं प्रामाण्ये स्वतस्त्वं, तच्च प्रामाण्यस्योत्पत्तौ प्रतिबन्धकाभावापेक्षत्वेऽपि निर्वहतीत्याशयः। तत्त्वमसीत्यत्र तत्-त्वंपदयोः सामानाधिकरण्यं केनापि प्रकारेगाघटमानमित्यतः शुद्धचैतन्यस्वरूपे ब्रह्मणि तयोर्जहदजहलक्षणा, तत एवाखण्डब्रह्मस्वरूपबोधजनकत्वं तत्त्वमसीति वाक्यस्येत्युपदर्शयति-तत्-त्वमिति पदयोरिति / परोक्षत्वेति- परोक्षत्वविशिष्टचैतन्यरूपभिन्नार्थवाचकस्य तत्पदस्य अपरोक्षत्वविशिष्टचैतन्यरूपभिन्नार्थवाचकस्य त्वंपदस्य समानविभक्तिवचनकत्वलक्षणं सामानाधिकरण्यं श्रयमाणं सिंहो देवइस इतिवद् गौमं नेत्यर्थः / निषेधे हेतुमाह-मुख्य इति- मुख्य सामानाधिकरण्य इत्यर्थः। तस्य गौणस्य सामानाधिकरण्यस्य / सति प्रयोजने गौणमपि सामानाधिकरण्यमाश्रीयते, यथा- " मनो ब्रह्म" [ ] इत्यत्र आरोपितब्रह्मामेदकं मन उपासीतेति, तथा आरोपितपरोक्षत्वादिविशिष्टचैतन्यलक्षणब्रह्माभेदकमपरोक्षत्वविशिष्टचैतन्य त्वंपदवाच्यमुपासीतेत्येवमुपासनार्थ गौणमपि सामानाधिकरण्यं न्याय्यमित्याशङ्कां प्रतिक्षिपति-नापीति। निषेधे हेतुमाहश्रृतहानेति-श्रुतस्य तत्त्वम्पदयोः मुख्यस्य सामानाधिकरण्यस्य. यद्वा अश्रुतस्य यदुपासनलक्षणफलकस्य. गौणसामाना