SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः। 337 साधनान्तरस्य प्रा[ त्य ]क्षिकी प्राप्तिस्तत्र सा च न, निर्विशेषा आत्मज्ञाने श्रवणातिरिक्तस्याप्राप्तेरिति कथं नियमविधिः, न च व्रीहितुषविमोकत्वपुरस्कारेणावघातातिरिक्तस्येवात्मज्ञानत्वपुरस्कारेण प्रवणातिरिक्तस्य प्रत्यक्षादेः प्राप्तेरदोषफलतावच्छेदकावच्छिन्नसाधनान्तरप्राप्तेरपेक्षितत्वात् , अत एवापूर्वापूर्वव्रीहितुषविमोकोऽपि दलनादिना कतुं शक्यत इत्यवघातो नियम्यते, आत्मज्ञानमात्रे प्रत्यक्षादिप्रसरानियमविध्यादरे च सुखमात्रे साधनान्तरप्राप्तेः " यजेत "[ ] इत्यादावपि तत्प्रसङ्गतः, अत एव न भ्रान्त्या साधनान्तरप्राप्तेरपि नियमविध्यङ्गत्वं 'यजेत' इत्यादावतिप्रसङ्गादेवेति ब्रीहीनवहन्यादेवेत्येवंस्वरूपो नियमविधिरेव, अत्र नखविदारणादिनाऽपि तुषविमोकः सम्भवति, नियमविधिना तत्प्रतिक्षेपः क्रियते, अवघाततो वितुषीकृतैरेव व्रीहिभिर्यजेत न तु नखविदारणादिना वितुषीकृतैरिति. तथा चावघाततो वितुषीकरणलक्षणदृष्टप्रयोजनमपि भवति, दृष्टफलकयज्ञोपयोग्यदृष्टलक्षणप्रयोजनमपि भवतीत्येवं तत्रत्यनियमविधेर्यथा दृष्टादृष्टार्थत्वम्, तथा प्रकृतेऽपि श्रवणादिनियमविधितो दृष्टमपि प्रयोजनं भवति, अदृष्टमपि प्रयोजनं भवतीति किमत्रादृष्टप्रयोजनमुररीक्रियत इत्यपेक्षायामाह-अदृष्टस्यापीति / न चेत्यस्य व्यवहितेन इति वाच्यमित्यनेन सम्बन्धः। नियमविधिस्थले ब्रीहीन. वहन्तीत्यादिनियमविधिस्थले / फले तुषविमोकादिलक्षणफले / साधनान्तरस्य अवघातभिन्ननखविदारणादिलक्षणकारणस्य / "प्रात्याक्षिकी." इत्यस्य स्थाने "पाक्षिकी" इति पाठो युक्तः“विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति / तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते // 1 // "[ ] इति वचनात् , यदा अवघातो न क्रियते किन्तु नखविदारणादिकमेव विधीयते तदानीं नखविदारणादिलक्षणसाधनान्तरस्य प्राप्तिरस्ति, अतस्तत्प्रतिषेधार्थ नियमविधिराश्रीयते। तत्र श्रवणादिविधिस्थले, सा च न आत्मज्ञानलक्षणफले श्रवणाद्यतिरिक्तसाधनस्य पाक्षिकी प्राप्तिन पुनः। कथं नेत्यपेक्षायामाह-निर्विशेषेति- “निर्विशेषा आत्मज्ञाने" इत्यस्य स्थाने "निर्विशेषाऽऽत्मज्ञाने" इति पाठो युक्तः / कथमित्याक्षेपे न कथञ्चिदित्यर्थः, तथा चात्मज्ञानार्थ श्रवणादेरत्यन्ताप्राप्तत्वादपूर्वविधिरेवायं भवितुमर्हतीति भावः / अन्तरा शङ्कामुत्थाप्य प्रतिक्षिपति-न चेति- यथा सामान्यतो ब्रीहितुष विमोकं प्रति अवघातोऽपि कारणं नखविदारणादिकमपि कारणमिति नखविदारणादिसाधनान्तरस्य प्राप्तौ तदानीमवघातस्याप्राप्तौ नियमविधिस्तथा प्रकृतेऽपि सामान्यत आत्मज्ञाने श्रवणमपि कारणं प्रत्यक्षादिकमपि कारणमिति यदा प्रत्यक्षादिनाss. स्मानं ज्ञातुं प्रवर्तते तदानीं प्रत्यक्षादिसाधनान्तरस्य प्राप्तौ श्रवणस्याप्राप्तौ नियमविधिः स्यादिति शङ्कार्थः / “रदोष-फल" इत्यस्य स्थाने " रदोषः, फलः" इति पाठो युक्तः / अवान्तराशकानिषेधे हेतुमुपदर्शयति-फलतेति-व्रीहीनवहन्तीत्यत्रावघातरूपसाधनस्य फलतावच्छेदकं तुषविमोकत्वं तदवच्छिन्नस्य तुषविमोकस्य साधनान्तर नखविदलनादिकं तत्प्राप्तेनियमविधिनाऽपेक्षितत्वात् , प्रकृते तु श्रवणादिलक्षणसाधनस्य फलतावच्छेदकं निर्विशेषात्मज्ञानत्वं तदवच्छिन्नस्यनिर्विशेषात्मज्ञानस्य साधनान्तरं न प्रत्यक्षादिकं प्रत्यक्षादिप्रमाणतो निर्विशेषात्मज्ञानानुदयादिति साधनान्तरप्रायभावे तन्निबन्धनाप्राप्तेरभावान नियमविधिसम्भव इत्यर्थः / अत एव फलतावच्छेदकावच्छिन्नसाधनान्तरप्राप्तर्नियमविधिनाऽपेक्षितत्वादेव / अपूर्वेतियस्य यस्य व्रीहेर्नखेन विदारणं न सम्भवति तस्याप्यूर्वाधोव्यवस्थितप्रस्तरद्वयकरणकदलनादिना तुषविमोकः सम्भवत्येवेत्ये. वेति तुषविमोकत्वावच्छिन्ने साधनान्तरप्राप्त्या तत्प्रतिषेधायावघातो नियम्यत इत्यर्थः। यदि च निर्विशेषात्मज्ञाने-प्रत्यक्षादि प्रमाणान्तराप्रवृत्तावपि आत्मज्ञानमात्रे प्रत्यक्षादिसाधनान्तरप्रवृत्तितःश्रवणादिविधेनियमविधित्वमुपपाद्यते, तदा फलतावच्छेदका. वच्छिन्नसाधनान्तरप्रवृत्तेरनपेक्षितत्वं फलजातीयं यत् किश्चित् फलं प्रति साधनान्तरप्राप्तेरपेक्षितत्वमित्यस्य नियमविध्युपोदलकस्य स्वहस्तितत्वेन स्वर्गकामो यजेतेत्यादावपि “यन्न दुःखेन सम्भिन्नं च प्रस्तमनन्तरम् // अभिलाषोपनीतं च तत् सुखं खःपदास्पदम् // 1 // " [ ] इति वचनलक्षितसुखविशेषलक्षणस्वर्गजातीयसुखमात्र प्रति सक्-चन्दन-वनितादिलक्षणसाधनान्तरप्राप्तेरपि नियमविध्यङ्गत्वतो नियमविधित्वमेव तस्य प्रसज्येत, स्वीकृतस्यापूर्वविधित्वस्योच्छेद एव स्यादित्याह-आत्मज्ञानमात्र इति / “तत्प्रसङ्गतः" इत्यस्य स्थाने “तत्प्रसाः" इति पाठो युक्तः, तसिलूप्रत्ययस्य सार्वविभक्तिकत्वे तथा पाठोऽपि युक्त एव, तस्य नियमविधित्वप्रसङ्ग इत्यर्थः / अत एव स्वर्गकामो यजेतेत्यादौ नियमविधित्व
SR No.004344
Book TitleNayopdesh Part 02 Tarangini Tarni
Original Sutra AuthorN/A
AuthorYashovijay Gani, Lavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy