________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलट्टतो नयोपदेशः / निदिध्यासनं 3 चेति / श्रवणं नाम- वेदान्तानां शक्ति-तात्पर्यावधारणानुकूलो व्यापारः, श्रुतस्यार्थस्य युक्कितः सन्धान मननम् , विजातीयप्रत्ययतिरस्कारेण सजातीयप्रत्ययप्रवाहीकरणं निदिध्यासनम् / एतेषां अषणं प्रधानम् , इतरे फलोपकार्याने, श्रोतव्यादिवाक्येषु प्राथमिकत्वात् श्रवणविधेरेवार्थवादिकफल[ कल्पनयेतरयोस्तत्क]ल्पनाश्लेशनिवृत्तेः / श्रवणस्य तत्वज्ञाने प्रधानभूतशब्दप्रमाणस्वरूपनिर्वाहकतया प्राधान्यम् , असति श्रवणे प्रामाणासंभावनया तत्त्वज्ञानानुदयात्, अत्यन्तानवगतार्थे गृहीत.. शवितात्पर्यकस्य शब्दस्यैव प्रमाजनकत्वात् तन्निर्वाहकस्य श्रवणस्य प्राधान्यमिति तात्पर्यम् / विधिश्वात्र नियमाख्य एव दृष्टा, दृष्टार्थत्वात्, दृष्टस्यापि तत्त्वज्ञानोपयोगित्वात् / न च, नियमविधिस्थले फले ब्रह्मस्वरूपोपदेष्टारमाचार्यम्, अनुसृतः सन् / श्रवणादीत्यनेन किं प्रात्यमित्यपेक्षायामाह- श्रवणादिकं त्विति / श्रवणमनन-निदिध्यासनानां क्रमेण स्वरूपात्मकलक्षणमुपदर्शयति-श्रवणं नामेति / वेदान्तानां तत्त्वमसीत्यादिमहावाक्यानाम् / शक्तितात्पर्येति-तत्पदस्य मायावच्छिन्नचैतन्ये शक्तिः, त्वम्पदस्यान्तःकरणावच्छिन्नचैतन्ये शक्तिः, शक्यार्थयोनिरुत. विशिष्टचैतन्ययोरभेदेनान्वयोऽनुपपन्न इत्यन्वयानुपपत्त्या जहदजहत्स्वार्थलक्षणया तत्त्वमसीति वाक्यं शुद्धचैतन्यमेवावबोधयतीति तस्य शुद्धचैतन्य एव तात्पर्यमित्येवं शक्ति-तात्पर्यावधारणानुकूलो य उपक्रमोपसंहारादिषट्तापयलिशान्वेषणलक्षणो व्यापारः श्रवणमित्यर्थः, उक्तस्वरूपस्य श्रवणस्य कर्तव्यत्वावेदकं तत्स्वरूपावेदकं च पद्यकदम्बकं पञ्चदश्यां यथा "अहं ब्रह्मेति वाक्यार्थबोधो यावद् दृढीमवेत् / शमादिसहितस्तावदभ्यसेच्छ्रवणादिकम् // 1 // बाढं सन्ति स्वदाय॑स्य हेतवः श्रुत्यनेकता। असंभाव्यत्वमर्थस्य विपरीता च भावना // 2 // शाखाभेदात् कामभेदाच्छूतं कर्मान्यथाऽन्यथा / एवमत्रापि मा शहीत्यतः श्रवणमाचरेत् // 3 // वेदान्तानामशेषाणामादि-मध्याऽवसानतः / ब्रह्मात्मन्येव तात्पर्यमिति धीः श्रवणं भवेत् // 4 // " इति / - मननस्वरूपं प्रकटयति-श्रुतस्येति- श्रवणनिष्टङ्कितस्येत्यर्थः / युक्तितः प्रमाण-तर्कोपेतहेतुतः / सन्धानम् अनुमितिविषयीकरणम् , यस्य येन रूपेण श्रवणं तस्मिंस्तद्रूपस्यानुमित्यात्मकं यज्शानं तन्मननमित्यर्थः। निदिध्यासनस्वरूपमावेदयति-विजातीयेति-अनुमित्यात्मकं यदात्ममननं तद्विजातीयोऽन्यविषयकप्रत्यक्षादिरूपः प्रत्ययस्तस्य तिरस्कारेणअन्तराऽन्तराऽन्यादृशज्ञानजननतो यदात्मानुमितिप्रवाहस्य विच्छेदस्तत्परिहारेणेति यावत् , सजातीयप्रत्ययस्यात्मानुमिति. प्रत्ययस्य प्रवाहीकरणं- प्रवाहरूपेणावस्थापनं निदिध्यासनमित्यर्थः / एतेषां श्रवण-मनन-निदिध्यासनानां मध्ये। श्रवणं श्रुतिप्रभवात्मज्ञानम् / प्रधानं आत्मसाक्षात्कारलक्षणात्मतत्त्वज्ञानात्मकफलवत्त्वान्मुख्यम्, इतरे मनन-निदिध्यासने / फलोपकार्याले फलमात्मतत्त्वसाक्षात्कारलक्षणं तत्साधनं श्रवणमपि फलवत्त्वात् फलं तद्रूपं यदुपकार्य प्रधानत्वात् तस्या - तदुपकारके, फलवत्सन्निधौ श्रूयमाणमफलं तदङ्गं भवतीति नियमात् / कथं श्रवणस्यैव फलवत्वं येन तदात्वं मनननिदिध्यासनयोरित्यपेक्षायामाह-श्रोतव्यादिवाक्येष्विति- "आत्मा वाऽरे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात् कर्तव्यः" [ ] इति वाक्येष्वित्यर्थः / प्राथमिकत्वात् प्रथम श्रूयमाणत्वात् / श्रवणविधेः श्रोतव्य इति विधेः / अर्थवादिकफलकल्पनया अर्थवादोतफलकल्पनया / इतरयोः मनन-निदिध्यासनविभ्योः / तत्कल्पनाक्लेशनिवृत्तेः फलान्तरकल्पनाप्रयासाभावात् / श्रवणस्य मनन-निदिध्यासनापेक्षया प्राधान्यं व्यवस्थापयति-श्रवणस्येतिअस्य प्राधान्यमित्यनेनान्वयः। कस्मिन् फले प्राधान्यमित्याकालायामाह-तत्त्वज्ञान इति / प्रधानभूतशब्दप्रमाणस्वरूपनिर्वाहकत्वमेव श्रवणस्य व्यवस्थापयति-असति श्रवण इति / ननु श्रवणाभावेऽपि शब्दप्रमाणातिरिकप्रमाणदेव तत्व सानं भविष्यतीति कुतः प्रमाणासंभावनेत्यत आह-अत्यन्तानवगतार्थ इति / तन्निर्वाहकस्य प्रमाजनकशब्दस्वरूपनिर्वाहकस्य / " विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति // तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते // 1 // " इति वचनाद् विधेनेविध्ये श्रवणविधिः किमेतेष्वित्यपेक्षयामाह-विधिश्चात्रेति-"दृष्टा दृष्टार्थत्वात् , दृष्टस्यापि" इत्यस्य स्थाने " दृष्टादृष्टार्थत्वात् , अदृष्टस्यापि" इति पाठो युक्तः, यथा ब्रीहिनवहन्तीसत्र नापूर्वविधिः, प्रमाणान्तराप्राप्तस्य प्रापको विधिरपूर्वविधिरित्युच्यते, तुषविमोकार्य ब्रीहेरवहननं प्रत्यक्षादिप्रमाणेनैवोपलभ्यत इति तत् प्रमाणान्तरप्राप्तमेव, किन्तु