________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / यदि पारमार्थिकं कथं त्वंपदार्थैक्यसिद्धिः, तदेवं भोक्तृत्वादेः कल्पितत्वे भोग्यादिकल्पितमेव, एवं जगत्कर्तृत्वादेः कल्पितत्वे जगतः कल्पितत्वमित्यतः " तत् त्वमसि" [ ] आदिवाक्यसामध्येनैव निरस्तसमस्तप्रपश्चात्म्यैक्यसिद्धिः, सोऽयमित्यत्रेव पदाद् भेदभ्रमानिवृत्तेर्महावाक्याश्रयणस्या- . वश्यकत्वम् / तदिदमात्मज्ञानमुत्पन्नमेवानन्तजन्मार्जितकर्मराशिं विनाशयति "क्षीयन्ते चास्य कर्माणि" [ ] इति श्रुतेः / न च देहनाशप्रसङ्गः, प्रारब्धस्याविनाशात् तस्य " तावदेव चिरं यावन्न विभोक्ष्येऽथ सम्पत्स्ये" [ ] इति श्रुतेः, कर्मविपाकेन प्रारब्धनिवृत्तावप्युक्तशास्त्रेण ज्ञानानिवय॑त्वाभिधानात् , ततश्च ज्ञानेन तदानीमेवाज्ञाने सर्वात्मना निवर्तयितव्ये प्रारब्धप्रतिबन्धादनिवृत्तिः, तस्यां चावस्थायां प्रारब्धफलं भुञ्जानः सकलसंसारं बाधितानुवृत्त्या पश्यन् स्वात्मारामो विधि परोक्षात्वादिकस्य चैतन्यधर्मस्य कल्पितत्वमस्तु, तदन्यस्य प्रपञ्चस्य कल्पितत्वं कथमित्यपेक्षायामाह-तदेवमिति-तत् तस्मात्, एवम्-उक्कप्रकारण / भोग्यं सक्-चन्दन-वनितादिकं यदि पारमार्थिकं स्यात् तदा तन्निरूपितभोक्तृत्वादिकमपि चैतन्यस्य कल्पितं न भवेदिति भोक्तत्वादेः कल्पितत्वान्यथानुपपत्त्या भोग्यादेः कल्पितत्वमास्थेयमित्याह-भोक्तत्वादेरिति / एव. मिति- उक्तप्रकारेण तत्पदार्थगतजगत्कर्तृत्वादेः कल्पितत्वं यच्चैतन्याद्वैतान्यथानुपपत्त्या सिद्धं तदपि जगतः कल्पितत्वमन्तरे. जानुपपन्नमिति जगतः कल्पितत्वमास्थयमित्यतस्तत्त्वमसीति वाक्यसामर्थ्यात् सिध्यच्चैतन्याद्वैतं निरस्तसमस्तप्रपञ्चमेव सिध्यतीत्यर्थः, यथा च सोऽयमित्यत्र पूर्वकालीनत्वविशिष्टवर्तमानकालीनत्वविशिष्टयो)दग्रहे जाग्रति सति अ भवतीति लक्षणया देवदत्तव्यक्तिमात्रप्रतीतिजनकत्वान्महावाक्यत्वं तथा तत्त्वमसीत्यत्र तत्पदशक्यार्थ-त्वंपदशक्यार्थयोर्विशिष्टचैतन्ययोर्मेदभ्रमे सत्यभेदज्ञानाभावतो भेदभ्रमस्य पदादनिवृत्तेर्लक्षणया तत्त्वमसीति वाक्यतोऽखण्डचैतन्यप्रतीतिरिति तस्य महावाक्यत्वमखण्डार्थप्रतीतिजनकत्वलक्षणमास्थेयमित्यर्थः / पुरुषधुरन्धरे उत्पन्नब्रह्मसाक्षात्कारस्य फलमुपदर्शयति-तदिदमिति / उत्पन्नमवेत्येवकारेणात्मतत्त्वसाक्षात्कारानन्तरं क्षणमात्रमप्यनन्तजन्मार्जितकर्मराशिविनाशोत्पत्तौ विलम्बो न भवतीति दर्शितम् / ननु " नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि // अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् // 1 // " [ ] इत्यादिवचनात् कर्मणां क्षयस्य भोगादेव निर्णीतत्वादप्रमाणकं तत्त्वज्ञानतो निखिलकर्मक्षयं न प्रामाणिकः श्रद्धास्यतीत्यतस्तत्र श्रुति प्रमाणयति-क्षीयन्ते चेति- " तस्मिन् दृष्टे परावरे" इति चरणमत्रानुसन्धेयम्, तथा च तस्मिन् आत्मनि, परश्वासाववरश्च परावरस्तस्मिन् परावरे, अल्पज्ञापेक्षयाः तदधिकपदार्थज्ञो जीवोऽपि पर उत्कृष्टो भवति तस्य व्यपोहाय अवरेति, न विद्यते वर उत्कृष्टो यस्मात् सोऽवर इति-सर्वोत्कृष्ट इति, तस्मिन् , दृष्टे सति, अस्य- पुरुषधुरन्धरस्य, कर्माणि - इति बहुवचनादशेषानन्तजन्मार्जितकर्माणि, क्षीयन्ते - विनश्यन्तीत्यर्थः / नन्वखिलकर्मान्तरन्देहधारणानुकूलप्रारब्धकर्मणोऽपि तत्त्वज्ञानतो विनाशात् तद्वतो देहधारणमपि न स्यादित्याशक्य प्रतिक्षिपतिन चेति / प्रारब्धकर्मणो भोगादेव क्षय इति निर्णयात् 'क्षीयन्ते चास्य कर्माणि' इत्यत्र कर्मपदेन प्रारब्धकमतरकमैव विवक्षितमिति तत्त्वज्ञानिनोऽपि प्रारब्धकर्मणो भोगादेव क्षय इति यावदुपभोगं तस्य सद्भावान्न देहविनाश इति प्रतिक्षेप. हेतुमुपदर्शयति-प्रारब्धस्येति-प्रारब्धकर्मण इत्यर्थः / तत्र श्रुति प्रमाणयति-तस्येति-तस्य " तावदेव इत्यस्य स्थाने "तस्य तावदेव” इति मुद्रणं युक्तम् , तस्येत्यारभ्य श्रुतिः, तस्य-तत्त्वज्ञानिनः, यावत्- यावत्कालम् , न विभोक्ष्यउपभोगप्रभवप्रारब्धकर्मविनाशो न भवति, तावदेव- तावत्कालमेव, चिरम् - अशरीरादिस्वरूपावाप्तिविलम्बो भवति, अथभोगतःप्रारब्धकर्मक्षयानन्तरम् , सम्पत्स्ये- अखण्डात्मस्वरूपावाप्तिलक्षणसम्पत्तिमद् भवतीत्यर्थः। उक्तश्रुत्यभिप्रेतार्थमुपदर्शयतिकर्मविपाकेनेति- फलदानाभिमुखकर्मोदयेनेत्यर्थः / प्रारब्धनिवृत्तौ प्रारब्धकर्मनिवृत्तिसम्भवेऽपि / उक्तशास्त्रेण तस्य तावदेव चिरमित्यादिश्रुत्या / सानानिवर्त्यत्वाभिधानात् प्रारब्धकर्मणो ज्ञानानिवर्त्यत्वस्योकेः / उपसंहरति-ततश्चेतिउक्तशास्त्रस्वारस्याच्चेत्यर्थः / ज्ञानेनेत्यस्य निवर्तयितव्ये इत्यनेनान्वयः / ज्ञानेन शुद्ध चैतन्यसाक्षात्कारेण / तदानीमेव स्वोत्पत्त्यनन्तरक्षण एव। अक्षाने सर्वात्मना निवर्तयितव्ये अशेषविक्षेपशक्त्यशेषावरणशक्ति-तदुक्कसर्वप्रपञ्चात्मककार्यकारणात्मना मायाऽविद्याशब्दवाच्येऽज्ञाने निवर्तयितध्ये / प्रारब्धेति-प्रारब्धकर्मणा प्रतिबन्धाद् देहाद्यात्मना निरुकाज्ञानानिवृत्तिः, प्रारब्धकर्मरूपप्रतिबन्धकाभावसहकृतस्यैवात्मसाक्षात्काररूपज्ञानस्य देहाद्यात्मनाऽज्ञाननिवर्तकत्वमित्यर्थः / तस्यां