________________ 332 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलईतो नवोपदेशः / प्यन्तःकरणशुद्धिद्वारा विविदिषासिद्धिः / तथा च स्मृतिः- " जपेनैव तु संसिद्धयेत् " [ . ] इति, संभवति चाधिकारिविशेषस्य विविदिषायुद्देशेन वेदानुवचनाद्यनुष्ठानमिति / न च स्वर्गकामोऽग्निहोत्रवत् सकृदनुष्ठाननियमो यज्ञायनुष्ठानस्यान्तःकरणशुद्धिपर्यन्तत्वात् , तस्याश्च साधनचतुष्टयसंपत्ति. गम्यत्वात्, तेन यस्य सकृदनुष्ठानादन्तःकरणशुद्धिर्न तस्यावृत्तिरिति / अथवा " जातपुत्र " इतिवत् यज्ञादिपदैः प्रसिद्धं शतपथविहितं कर्मसाम्राज्यमुपलक्ष्य विविदिषादिफलोद्देशेन विधीयत इति न वाक्यभेदः, संभवत्समुच्चयश्चैवमुपपद्यते / यद्वा ईश्वरार्पणबुद्ध्यानुष्ठितानां कर्मणामन्तःकरणशुद्धिः फलम् , " यत् करोषि " [ भगवद्गीता, अ. 9, श्लो. 27. ] इत्यादिस्मृतेः, तेन सुष्ठूक्तम्- " कर्मभिः शुद्धान्तःकरणो ब्रह्मचारिण इत्येवं यज्ञानधिकारिणाम् / केवलेनापि यज्ञादिक्रियाविकलेनापि / यज्ञादिसमुच्चयमन्तराऽपि वेदानुवचनान्यतमेन विविदिषासिद्धौ स्मृति प्रमाणयति-तथा च स्मृतिरिति-"जपेनैव" इत्यस्य स्थाने "जप्येनैव" इत्यपि पाठः, . "जप्येनैव तु संसिद्धयेद् ब्राह्मणो नात्र संशयः / कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते // 1 // " [ ] इति सम्पूर्ण वचनम् , मैत्र इत्यनेन मित्रस्य-सूर्यस्य गायत्रीमन्त्रजपेनाराधक इति बोध्यते / यदा चात्र सम्भवत्समुच्चय एव न तु नियमवत्समुच्चयस्तदाऽधिकारविशेषस्यैकैकवेदवचनाद्यनुष्ठानमपि युक्तमित्याह-संभवति चेति-अस्य वेदानुवचनाद्यनुष्ठानमित्यनेनान्वयः / ननु " स्वर्गकामोऽग्निहोत्रं जुहोति" इत्यादावेकदाऽनुष्ठितेनाप्यग्निहोत्रेण स्वर्गफलसिद्धिः, तथा सकृदनुष्ठितेन यज्ञादिना विविदिषाफलसिद्धिसम्भवे विविदिषाद्यर्थ सकृदेव यज्ञाद्यनुष्ठाननियमः सिद्धयेदित्यत आहन चेति- “स्वर्गकामोऽग्निहोत्रवत्" इत्यस्य स्थाने "स्वर्गकामाग्निहोत्रवत्" इति पाठो युक्तः, स्वर्गकामस्याग्निहोत्र यथा सकृदनुष्ठाननियमस्तथा विविदिषाकामस्य यागादौ सकृदनुष्ठाननियम इति न चेत्यर्थः / यज्ञाद्यनुष्ठानं हि अन्तःकरण: शुद्धिद्वारा विविदिषाजननसमर्थमिति अन्तःकरणशुद्धिर्यावन्न संपद्येत तावद् भूयो यागाद्यनुष्ठानं कुर्यादेव, अन्तःकरणशुद्धिद्वारनिष्पत्त्यनन्तरं च न पुनर्यशायनुष्ठेयमिति निषेधहेतुमुपदर्शयति- यशाधनुष्ठानस्यति / ननु यज्ञाद्यनुष्ठानं यद्यन्तःकरणशुद्धिकारणं तदा सकृदनुष्ठितेनापि यज्ञादिनाऽन्तःकरणशुद्धिर्जातैवेति किमर्थ भूयो यज्ञाद्यनुष्ठानमित्यत आह-तस्याश्चेतिअन्तःकरणशुद्धश्चेत्यर्थः / साधनचतुष्टयसम्पत्तिगभ्यत्वादिति- नित्यानित्यविवेक-विराग-शमदमादि-मुमुक्षेत्येवं साधनचतुष्टयं तस्य या संपत्तिस्तया गम्यत्वादित्यर्थः, साधनचतुष्टयसम्पन्नत्वादयं शुद्धान्तःकरण इत्यवगमोऽत्र ज्ञेयः, तथा च साधनचतुष्टयगम्यान्तःकरणशुद्धिर्यावता यज्ञाद्यनुष्ठानेन भवति तावद् यज्ञाद्यनुष्ठान विधेयमिति न तत्र सकृदनुष्ठानस्यासकृदनुष्ठानस्य वा नियम इति भावः। तेन यज्ञाद्यनुष्ठानस्यान्तःकरणशुद्धिपर्यन्तत्वेन / यस्य विविदिषाकामस्य कस्यचित् पुरुषधौरेयस्य / तस्य सकृदनुष्ठानादन्तःकरणशुद्धिमतः पुरुषविशेषस्य / न आवृत्तिः नानेकवारं यज्ञाद्यनुष्ठानम् / प्रकारान्तरेण संभवत्समुच्चयोपपादनेन यज्ञेन दानेनेत्यादौ वाक्यभेदप्रसङ्गं वारयति- अथवेति / जातपुत्र इतिवदितियथा जातपुत्रः कृष्णकेशोऽग्नीनादधीतेत्यत्र जातपुत्र-कृष्णकेशपदद्वयोपलक्षितावस्थाविशेषस्याग्न्याधानानुवादेन विधानमिति न वाक्यभेदस्तथेत्यर्थः / यज्ञादिपदरित्यत्रादिपदाद् दानादिपदपरिप्रहः / . यज्ञादिपदैरियस्योपलक्ष्येत्यनेनान्वयः / शतपथविहितं शतपथसंज्ञकवेदशाखाविहितम् , एवंभूतं यत् प्रसिद्ध कर्मसानाज्यं तदुपलक्ष्य- उपलक्षणन्यायेन तदव. बोध्य तदेव कर्मसाम्राज्यं विविदिषादिफलोद्देशेन विधीयत इत्येतस्मात् करणाद् यशेन दानेनेत्यादौ वाक्यमेदो न भवती. त्यर्थः। एवम् उक्तप्रकाराश्रयणे, संभवत्समुच्चय उपपद्यते युज्यते / अनुष्ठितकर्मभिरन्तःकरणशुद्धौ प्रकारान्तरमावेदयतियद्वेति / ईश्वरार्पणबुद्धयेति- यत् किमपि कर्म मया क्रियते तदीश्वरस्यास्तु, न तत्फलं किञ्चिदपि ममाभिलषितमित्येवं बुद्धयेत्यर्थः / ईश्वरार्पणबुड्या कर्मानुष्ठेयमित्यत्र भगवद्गीतावचनं प्रमाणयति- " यत् करोषि" इत्यादिस्मृतेरिति" यत् करोषि यदनासि यज्जुहोषि ददासि यत् / यत् तपस्यसि कौन्तेय ! तत् कुरुष्व मदर्पणम् // 1 // " इति सम्पूर्णपद्यम्, 'अनुष्ठितकर्मभिर्विशुद्धान्तःकरणो नित्यानित्यविवेकादिकं लभते ' इति यत् प्रतिज्ञातं प्राक् तदुपसंहरतितेनेति / "नित्यविवेकादि" इत्यस्य स्थाने " नित्यानित्यविवेकादि" इति पाठो युक्तः / नित्यानित्यविवेकादिक यत् साधनचतुष्टयं तस्य क्रमिकोद्भव-स्वरूपे क्रमेणोपदशयति-स चेति-अनन्तराभिहितश्चेत्यर्थः / नित्यानित्यविवेक इत्यस्य इत्येवमालोचनात्मक इत्यनेनान्वयः / “विमर्शाधिष्ठानम" इत्यस्य स्थाने "विमर्शस्याधिष्ठानम्"