________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलहतो मयोपदेशः / 133 नित्यविवेकादि लभते” इति / स च नित्यानित्यविवेक:- ' इदं सर्वमनित्यं दृष्ट-श्रुताभ्याम् , एतस्य विशर्माधिष्ठान किनिग्नित्यम्' इत्येवमालोचनात्मकः / तत ऐहिक-पारलौकिकफलेच्छाविरोधिचेतोवृत्तिविशेषात्मको विरागः। ततः शमादिषट्कम्- शेम-दम उपरति-तितिक्षा-समाधान-श्रद्धाः, अन्त:करण. निग्रहः शमः, बाह्येन्द्रियनिग्रहो दमः, उपरतिः संन्यासः, द्वन्द्वसहिष्णुत्वं तितिक्षा, श्रवणादिप्रावण्यं समाधानम् , साम्प्रदायिक विश्वासः श्रद्धा / ततो मुमुक्षा-मोक्षेच्छा / तदेतत्साधनचतुष्टयं श्रवणाधिकारि. विशेषणम् / यत्तु मुमुक्षैव तथा, काम्याधिकारे कामनाया एव निरपेक्षाधिकारनिमित्तत्वादिति, तन्नकाम्याधिकारे सामर्थ्यादेरप्यधिकारत्वात् / अथ कामनाऽर्थिक सामर्थ्याद्यपेक्षते, न श्रुतमन्यत्, तत् किं इति पाठो युफः / दृष्ट-श्रुताभ्यामित्यत्र दृष्टपदेन लौकिकप्रत्यक्षादिप्रमाणस्य प्रहणम् / इदं सर्वमनित्यं प्रत्यक्षादिप्रमाणेनावसीयते तथा " यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते" [ ] इत्यादिश्रुतप्रमाणेनाप्यवसीयते, " अपाम सोमममृता अभूम" [अ. शिरः 3. 2.] इत्यादिश्रुतिश्च सोमलतादिपानजन्यफलस्य न नित्यत्वमवबोधयति, किन्तु चिरस्थितिकत्वमेव " आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते // " [... ] इति वचनात् , एतस्य विमर्शस्य दृष्ट-श्रुताभ्यां प्रमाणाभ्यामुपजातस्येदं सर्वमनित्यमित्याकारकस्य विमर्शस्य विचारणास्वरूपज्ञानस्य, अधिष्ठानं यत्रायं विचारः प्रादुर्भवति सर्वस्य शून्यत्वे निरधिष्ठानको विचारोऽपि न भवेदिति किश्चिदधिष्ठानं चैतन्यलक्षणमुपगन्तव्यम् , तच्च नित्यमिति, इत्येवमुक्तप्रकारेण यदालोचनं तदात्मको नित्यानित्यविवेक इत्यर्थः। विरागस्वरूपं द्वितीयं साधनमुपदर्शयति-तत इति- निरुक्तनित्यानित्यविवेकत इत्यर्थः ऐहिकेति-ऐतद्भविकं पारलौकिकं च यत् फलं तदिच्छायास्तत्कामनाया विरोधी प्रतिबन्धको यश्चेतोवृत्तिविशेषोऽन्तःकरणपरिणामविशेषस्तदात्मको विराग इत्यर्थः। तृतीयं साधनस्वरूपमुपदर्शयति-तत इति-निरुक्कविरागत इत्यर्थः / शमादिषटकमित्यत्रादिपदात् किं प्रायमित्यतस्तद् विशिष्योपदर्शयति-शम-दमेत्यादिना / शमादीनां विभक्तलक्षणमुपदर्शयति-अन्तःकरणनिग्रहः शम इति- अन्तःकरणस्य मनसो यदनेकाकारपरिणमनरूपेण प्रतिक्षणमन्यान्यावस्थाविशेषस्तदनुत्पत्तिप्रयोजकयत्नविशेषोऽन्तःकरणनिग्रहः शम इत्यर्थः / बाह्येन्द्रियेति-बाह्येन्द्रियाणां-चक्षुरादीनां निग्रहः-स्वस्वविषयप्रवृत्तिविरोधिप्रयत्नविशेषो दम इत्यर्थः / उपरतिरिति- सर्वाभ्यः क्रियाभ्यो विरमणलक्षणः संन्यास उपरतिरित्यर्थः। द्वन्द्वेति-सुख-दुःख. 'शीतोष्णादिद्वन्द्वसहिष्णुत्वं तितिक्षेत्यर्थः। श्रवणेति-श्रवण-मनन-निदिध्यासनैकतानतालक्षणश्रवणादिप्रावण्यं समाधानमित्यर्थः / साम्प्रदायिक इति- आप्तपरम्परानुष्ठानगोचरे कर्मणि विश्वास इदमित्थमेव यथाऽऽप्तराचरितमिति चित्तपरिणामविशेषलक्षणो विश्वासः श्रद्धेत्यर्थः / चतुर्थ साधनमुपदर्शयति-तत इति- निरुफलक्षणश्रद्धातः / मोक्षविषयिणी येच्छा मुकोऽहं स्यामित्याकारिका मेव मुमुक्षेत्यर्थः / उपसंहरति-तदेतदिति / मुमुक्षामात्रस्य श्रवणाधिकारिविशेषणत्वं पराभिप्रेतं प्रतिक्षेप्तमुपदर्शयति-यत् त्विति। तथा श्रवणाधिकारिविशेषणम् / मोक्षेच्छयैव श्रवणादिकमाचरतीति श्रवणादिकं काम्यमतस्तदधिकारे . मोक्षकामनवान्यानपेक्षा श्रवणाधिकारे निमित्तत्वात् तद्विशेषणमित्याह-काम्याधिकारे इति। प्रतिक्षिपति-तन्नेति / नहि तत्तत्कर्मासमर्थस्तत्तत्कर्मण्यधिकारीति तत्तत्कर्मसामर्थ्यादेरप्यधिकारिविशेषणत्वादिति प्रतिक्षेपहेतुमुपदर्शयति-काम्याधिकार इति / अधिकारत्वात् अधिकारिविशेषणत्वात् / शहते- अथेति- सामर्थ्यमन्तरेण कामनया कर्म न भवतीत्यत आर्थिकमर्थात् प्राप्त सामर्थ्यादिकं कामनाऽपेक्षते, श्रुतं किञ्चिन्नापेक्षते कामनेति स्वातिरिक्तश्रुतानपेक्षत्वात् कामनाया एवाधिकारिविशेषगत्वमिति शड्डाऽर्थः, कामनाऽतिरिक्तस्य श्रुतस्य भावेऽपि तदपेक्षा नास्ति कामनायाः, आर्थिकस्य तु सामादे: श्रुतस्वाभावेऽपि लिङ्गप्रमाणगम्यस्यापेक्षा विद्यते कामनाया इत्यभ्युपगमे श्रुति-लिङ्गयोर्मध्ये लिस्य प्राबल्यमभ्युपगतं स्यात् तब "श्रुतिलिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानामुत्तरोत्तरदौर्बल्यात् पूर्वपूर्व बलीयः" [ जैमिनिसू० 3, 3, 14] इति मीमांसासिद्धान्तविरुद्धम् , तत्र समाख्या- नाम, नाम्ना च एकाकासालक्षणं स्थानं कल्प्यते- यदीमनेनाऽऽकासितं न स्यात् कसमेतस्पद नामेति, एकं यदन्यदाकासति तद् यदि तनाकालेन तर्हि तयोरङ्गाङ्गिभावोऽवकल्पते इति स्थानादुभयाकाडालक्षणं प्रकरणं कम्प्यते प्रकरणेन चानबोधकवाक्याङ्गिबोधकवाक्ययोरेकवाक्यतालक्षणवाक्यं परिकल्प्यते, तेन च सामर्थ्यलक्षणं