________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिन्या समतों योपदेशः। 331 सङ्गवदेकस्य विविदिषन्तिपदस्य यज्ञेनेत्यादौ प्रत्येकमनुषङ्गाविह वाक्यभेदो विध्यावृत्तिलक्षणः / कथं तर्हि समुच्चयः ? उच्यते- " अरुणया क्रीणाति वा समाक्रीणाति " [ ] इत्यादिभिन्नवाक्यविहितानामपि सोमप्राप्त्यर्थानां क्रियाणामिव संभवत्समुच्चये यज्ञादीनां परिकल्पितान्तःकरणशुद्धिवाराणां भविष्यति, " अरुणया " इत्यादयो हि नियमविधयः, तत्र चार्थिकीतरनिवृत्तिरिति * अरुणाफायणैव सोमं भावयेद् ' इत्यादिरथः फलितः, स च नित्यवत् समुच्चयें नोपपद्यत इति संभवत्समुचंयोऽयम् , न चैवं दध्यादिषु कथं नायमित्याशङ्कनीयम् , तत्र हीमनि पत्तारस्यैकेनैव सिद्धेः, "अरुणया" इत्यादौ तु क्रयविधेदृष्टार्थत्वादेकेनैव क्रयेणानतिसिद्धौ नियमविधित्ववत् , अन्यथा तु प्रत्येकावगतं नियम कार्यानुरोधेन त्यक्त्वा वाक्यान्तरविहितक्रयसापेक्षत्वं पूर्वक्रयस्य कल्प्यत इति युक्तः संभवत्समुच्चयः, स[ द्व दिहापि यज्ञादीनामसौ युक्तः, अत एव यज्ञानधिकारिणां ब्रह्मचारिणां वेदानुवचनेन केवलेनाइति पाठः समीचीन:, "क्रियाणामिव संभवत्समुच्चये" इत्यस्य स्थाने “क्रयाणामिव संभवत्समुच्चयो" इति पाठो युक्तः, संभवत्समुच्चय इत्यस्य भविष्यतीत्यनेनान्वयः। नियमविधयः अरुणयैव सोमं क्रीणाति, गवैव सोमं क्रीणातीत्येवंरूपा नियमविधयः / तत्र च नियमविधौ च / आर्थिकी अर्थात् प्राप्ता / इतरनिवृत्तिः अरुणेतरेण सोमक्रयो न कर्तव्यः, गोभिन्नेन सोमक्रयो न कर्तव्य इत्येवंरूपा / नियमविधौ कीदृशोऽर्थो भवतीत्यपेक्षायामाह- अरुणाकयेणैवेति / कथमत्र नित्यवत् समुच्चयो न येन संभवत्समुच्चय इत्युच्यत इत्यपेक्षायामाह-स चेति- अरुणाकयेणैव सोमं भावयेदित्यादिरर्थवेत्यर्थः, अस्य नोपपद्यते इत्यनेनान्वयः, अन्या अरुणा अन्या च गौरिति नास्ति किन्तु यैव गौः सैवारुणा यैवारुणा सैव गौरिति अरुणया क्रयणमेव गवा क्रयणं गवा क्रयणमेव चारुणया क्रयणमिति वस्तुगत्या समुच्चयो नास्तीति न नित्यवत् समुच्चय इत्युक्तोऽर्थो नित्यवत् समुच्चयेऽङ्गीक्रियमाणे नोपपद्यत इत्ययं समुच्चयः सम्भवत्समुच्चयः, संभाव्यते चैवं समुच्चय इति, विविदिषन्तीत्यत्र तु यद्यपि याग-दानादीनां भिनानां वस्तुतः समुच्चयोऽस्ति किन्तु पुरुषविशेषस्य कस्यचिद् यज्ञ-दानादिक्रियासमुच्चये सति विविदिषा भवति, कस्यचिद् यज्ञेनैव कस्यचिद् दानेनैव कस्यचित् तपसैवान्तःकरणशुद्धिद्वारा विविदिषा भवतीति न यज्ञादीनां समुच्चयो नित्यवत् किन्तु संभवत्समुच्चयः, यथा नीलं सरोजं भवत्येवेत्यत्र न सरोजत्वावच्छेदेन नीलं समस्ति श्वेतस्यापि सरोजस्य भावात् , किन्तु किञ्चित् सरोज नीलमपि भवतीति सरोजं संभवन्नीलम् , एवं विविदिषामात्रस्य न यशादिसमुच्चयादेव भावः, कस्याश्चिद् विविदिषाया एकेनापि यागेनान्तःकरणशुद्धिद्वारा भावात् , किन्तु काचिद् विविदिषा यागादिसमुच्चयादेव भवतीति संभवत्समुच्चयोऽयमित्यर्थः / ननु दना जुहोति पयसा जुहोतीत्यादावपि एकहोमोद्देशेन दधि-पय आदिसमुच्चयस्य विधानमस्तु, ततस्तत्रापि संभवत्समुच्चयः स्यादित्याशङ्कय प्रतिक्षिपति- न चेति। एवं यथाऽरुणयेत्यादौ . संभवत्समुच्चयस्तथा। कथं मायं कथं न संभवत्समुच्चयः। निषेधे हेतुमाह-तत्रेति- दध्ना जुहोतीत्यादावित्यर्थः / दधि-दुग्धादिद्रव्यस्वरूपस्य होमनिष्पत्तिद्वारा फलजनकत्वम्, होमनिष्पत्तिश्चैकेनापि दना पयसा वा संभवतीति न तत्र समुच्चयोऽवकल्प्यत इत्याह-होमनिष्पत्तेरिति / अरुणया गवा सोमं क्रीणातीत्यादौ तु नैवमित्याह- अरुणया इत्यादी स्विति / दृष्टार्थत्वात् सोमलताप्राप्तिरूपदृष्टार्थत्वात् / एकेनैव क्रयेण अरुणया क्रयेण गवा क्रयेण वा "क्रयेणानतिसिद्धी" इत्यस्य स्थाने “क्रयेण तत्सिद्धौ” इति पाठो युक्तः, तत्सिद्धौ सोमलताप्राप्तिरूपदृष्टार्थसिद्धौ। नियमविधित्वम् अरुणयेत्यादेनियमविधित्वम्, अरुणयैव गवैव ऋयेणैव सोमं भावयेदित्येवं नियमार्थकविधित्वम् / अन्यथा तनियमविधित्वाभाव तु / प्रत्येकावगतं नियमं अरुणया सोमं क्रीणाति गवा सोमं क्रीणातीत्येवं प्रत्येकवाक्यावगतम्, अरुणयैव गवैवेत्येवं नियमं त्यक्त्वा कार्यानुरोधेन आरुण्यगोसमुच्चयेनैव क्रयेण सोमलताप्राप्तिरूपं कार्यमिति तदनुरोधन, वाक्यान्सरेति-गवा क्रीणातीति वाक्यान्तरविहितो यः क्रयस्तत्सापेक्षत्वं पूर्वक्रयस्य अरुणया क्रीणातीति पूर्ववाक्य'विहितक्रयस्य कल्प्यत इत्येतस्मात् कारणात् संभवत्समुच्चयोऽरुणयेत्यादौ युक्त इत्यर्थः। तद्वत् अरुणया क्रीणातीत्यादौ यथा संभवत्समुच्चयस्तथा / इहापि तमेतमित्यादावपि / असौ संभवत्समुच्चयः / अत एव तमेतमित्यादौ न नियमवत्समुच्चयः, किन्तु संभवत्समुच्चय इत्यभ्युपगमादेव / यज्ञानधिकारिणां सपत्नीकस्य गृहस्थस्यैव यज्ञादावधिकारो न पत्नीविकलस्य