SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिाली-वाशिणीतरणिभ्यां समलायो नयोगका / द्रष्टव्यम् / तथा च दर्शपौर्णमासनामवेग्रसमानाधिकरणैकग्रजतिपदाभिहितानां षण्णामप्ति यागानं फलोद्देशेन विधाने न वाक्यभेदा, यथा- " ब्रीहिभिर्यजेत' [ ] इत्यत्रैकपदानां ब्रीहीणां यागोरेशेन विधी, अत्र हि प्राप्तेऽपि कर्मणि ब्रीहितबहुत्वविशिष्टेककारकं विधीयते, " चित्रया प्रजेत" [ तै. सं. 2. ] इत्यत्र संभवत्यपि चित्रत्वस्त्रीत्वविशिष्टैककारकविधाने गौर: वान्नामधेयाभयपाम् , वदेवं ब्रीहिवाक्यतुल्यवाद् दर्श-सौर्णमासीभ्यामित्यादावेकपदोपाचलान वाक्य: भेवा, विविदिषन्तीत्यत्र तु भिन्नपदोपाचानां यज्ञादीनां भिन्न कारकवतां च न ब्रीहिवाक्यतुल्यता, " मध्यमास्तानग्नये दाने" [ ] इत्यादौ तु सत्यपि भेदे सामानाधिकरण्येन प्रतिः पादितं विशिष्टदेवताकारकमेकमेवेति न वाक्यभेदः, " ग्रलेन दानेन " [ पत्र- . ] इति तु न सामानाधिकरण्यमस्ति / तस्मादेकविधाने अन्याविधानादेकस्यात्मपदस्य श्रोतव्यादिवाक्येष्वनु: स्वर्गकामो यजेतेत्यत्र, तत्तत्कालविहितानां षण्णा यज्ञविशेषाणां दर्श-पूर्णमासपदं नामधयमिति ज्ञातव्यमित्यर्थः / तथा न षण्णामपि यज्ञानां दर्श-पूर्णमासैकपदाभिधेयत्वे व्यवस्थिते च / तत्र दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्र / दर्शतिदर्शपौर्णमासनामधेयसमानाधिकरणं यदेकं यजविपदं तेनाभिहितानामित्यर्थः, भिन्नपदाभिहितानां भिन्नत्वे सति बहूनामेकफलोद्देशेन विधाने वाक्यभेदो भवेत् , बहूनामपि चैकपदोपात्तत्वेजैकत्वे एकीभूतस्य बहोरप्येकफलोदेशेन विधाने न वाक्यभेद इत्याशयः। एकपदोपासानां बहूनामेकोद्देशेन विधाने वाक्यभेदाभावे दृष्टान्तमाह- यथेति / एकपदोपात्तावां व्रीहिस्वरूपैकपदाभिहितानाम् / विधावित्यनन्तरं न वाक्यभेद इत्यनुषज्यते / अत्र व्रीहिभिर्यजेतेत्यत्र। हि यतः। प्राप्तेऽपि कर्मणि वचनान्तरविहितेऽपि यागलक्षणकर्मणि / बदहवेति-व्रीहिनिष्ठबहुत्वेत्यर्थः / नन्वेवं चित्रया यजेतेत्यत्राप्ति चित्रत्वस्त्रीत्वविशिष्टककारकविधानं संभवतीति तदेव किमिति नाजीक्रियते, किमर्थ चित्रापदस्य यागविशेषनामधेयत्वमुरीक्रियत इत्यत आह-चित्रया यजेतेत्यत्रेति / एवं च दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्रैक्रयजतिपदोपात्तानां षण्णामपि यज्ञानामेकस्वर्गफलोदेशेन विधाने न वाक्यभेदः, प्रकृते तु यज्ञदानादीनां भिन्नपदोपात्रानां विभिनतृतीयाविभक्तिबोध्यकरणत्वलक्षणभिन्नकारकवतां विविदिषालक्षणैकफलोद्देशेन विधानेऽपि वाक्यभेदः स्यादेवेत्युपसंहरति- तदेवमिति / व्रीहिवाक्यतुल्यत्वादिति- ब्रोहिभिर्यजेतेति वाक्ये यथा ब्रीहिस्वरूपैकपदोपात्तत्वं बहूनां व्रीहीणां तथा दर्शपूर्णमासाभ्यां यजेतेत्यत्राप्येकयजतिपदोपात्तत्वं षण्णामपि यागानामित्येवं ब्रीहिवाक्यतुल्यत्वादित्यर्थः / प्रकृते तु नैवमित्युपदर्शयति-विविदिषन्तीत्यत्र विति / यज्ञादीनामित्यत्रादिपदाद् दानादीनामुपग्रहः / कचित् क्रियादिस्वरूपभेदेऽप्ति देवताकारकैक्यादेकत्वमिति न वाक्यभेद इत्युपदर्शयति- ये मध्यमा इति - त्रिः प्रथमां त्रिरुत्तमां त्रिर्मध्यमामन्वाहेत्येवं क्रियान्तरे प्रश्रमादीनामृवां त्रिरावृत्त्या विधानात् तत्र दातृनामकाग्निदेवतायै मध्यमानाम्नामनेकेषामृचां विधानेऽपि अग्नसे दात्रे इति सामानाधिकरण्येन प्रतिपादितं दातृत्वविशिष्टाग्निदेवतालक्षणसंप्रदानकारकमेकमेवेति ये मध्यमा इत्यत्र न वाक्यभेद इत्यर्थः / विभिन्न प्रवृत्तिनिमित्तकपदानामभेदेनकार्यान्वितस्वार्थप्रतिपादकत्वं सामानाधिकरण्यम् , तच्चाग्नये दाने इत्यत्र समस्ति, यज्ञेन दानेनत्यत्र तु न यज्ञपदार्थस्य यागस्य दानमदार्थे दानेऽभेदेनान्वय इति न सामानाधिकरण्यमतो न विशिष्टकारकमेकमिति वाक्यभेदः स्यादेवेत्याह- योन दानेत इति स्विति / प्रकृते वाक्यभेदः स्यादेवेति सङ्गमयतितस्मादिति / यत्रैकवाक्ये एकविधानेऽप्यन्यविधानं यत्र दृश्यते तत्र च भवति वाक्यभेदः, यथा- "श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्तव्यः" [बृहदारण्यके 2. 4. 5.] इत्यत्र श्रवणविधानेऽपि मननादिविधान इत्याहू-पकस्यति / "तुसङ्ग" इत्यस्य स्थाने "नुषा" इति पाठो युकः, श्रोतव्य इत्येतावन्मात्रश्रवणे उद्देश्यवाचकपदाभावात् कमुद्दिश्य श्रवणविधानम्, एवं मन्तव्य इत्यादावपि, आत्मपदस्यानुषले तु आत्मा श्रोतव्यः, आत्मा मन्तव्यः, आत्मा निदिध्यासितव्यः, आत्मा साक्षात्कर्तव्य इत्येवं प्रत्येकमात्मपदानुषङ्गाद् यथा वाक्यभेदस्तथा प्रकृतेऽपि यज्ञेच विविद्विषन्ति दानेन विविदिषन्ति तपसा विविदिषन्तीत्येवं प्रत्येकं विविदिषन्तीति पदस्यानुषशाद् विध्यावृत्तिलक्षणो वाक्यभेदः स्यादेवेत्यर्थः / यत् तु पूर्वमुक्तम्-“अत्र नेकवाक्मोपात्तत्वाद् दर्शादिवत् समुच्चयः" इति, नत्र पृच्छति-कथं नई समाधय इति / उत्तरपतिउच्यत इति / "अरुणया क्रीणाति वा समाक्रीणाति" इत्यस्य स्थाने "अरुणया सोमं क्रीणाति गवा सोमं क्रीणाति"
SR No.004344
Book TitleNayopdesh Part 02 Tarangini Tarni
Original Sutra AuthorN/A
AuthorYashovijay Gani, Lavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy