________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो नयोपदेशः। 329 aaaaaaaamanna शक्यम् , यथात्रैवैकत्वग्रहोदेशेन संमार्गविधानम् त[दिह " तमेतम् " [ पत्र- ] इत्यादिविधौ न तावदरुणादिवाक्यवदेकविशिष्टक्रियाबोधकत्वम् , असंभवादनङ्गीकाराच, नापि " दना जुहोति" इतिवत् कस्याञ्चित् क्रियायामेकविशेषणविधानम् , उक्तहेतोरेव, यज्ञ-दानादीन्युद्दिश्य विविदिषा. फलसंबन्धविधाने एकत्वग्रहोद्देशेन संमार्गविधानवद् विविदिषाफलमुद्दिश्य यज्ञ-दानादिविधाने च प्रहोद्देशेनैकत्वसंमार्गविधानवत् कथं न वाक्यभेदः 1, अथ " दर्श-पौर्णमासाभ्यां स्वर्गकामो यजेत" [ ] इत्यत्रैकस्वर्णोद्देशेन दर्श-पौर्णमास्यात्मकानेकयागविधानवद् विविदिषोदेशेन यझ.. दानाद्यनेकविधाने न वाक्यभेद इति चेत् ? न- तत्र हि दर्शपूर्णमासपदेन न कालविधानम् , उत्पत्तिवाक्यैरेव प्राप्तत्वात् , अतो दर्श-पूर्णमासपदं तत्प्रख्यन्यायसिद्धं नामधेयम् , तत्प्रख्यं चान्यशास्त्रम् , यथा-" अग्निहोत्रं जुहोति" इत्यत्र मन्त्रवर्णेनामेः प्राप्तत्वान्नाग्निदेवताविधिः, किन्तु नामधेयं तथात्र विवक्षितमिति सर्वस्य यज्ञोपयोगिनो प्रहशब्दव्यपदेश्यस्य पात्रस्य संमार्जनं न्याय्यम् / यथा चैकोद्देशेनानेकविधानं वाक्यभेद. मयादशक्यं तथाऽनेकोद्देशेनेकविधानमपि, यत एकविधावेकस्यैवोद्देश्यत्वमेवं चैकमुद्दिश्य यस्यैकस्य विधानं तस्यैव पुनरन्यमुद्दिश्यापि विधानमिति विध्यावृत्तिलक्षणो वाक्यभेदः स्यादेवेत्याह-एकोद्देशेनेति / तत्र दृष्टान्तमाह- यथेति / अत्रैव अहं संमाीत्यत्रैव / संमार्गविधानमित्यनन्तरमशक्यमित्यनुषजनीयम् / उक्तमर्थ प्रकृते सझमयन्नाह-तदिहेति / इहेत्यस्यैव स्पष्टीकरण-तमेतमित्यादिविधाविति- तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेति विधावीत्यर्थः / अरुणादिवाक्यवदिति-अरुणयैकहायन्या गवा सोमं क्रीणातीत्यत्र यथा आरुण्यायेकविशिष्टगोकरणकसोमक्रय. विधानं न सम्भवति तथा तमेतमित्यादिविधौ नैकविशिष्टक्रियाविधानमतो नैकविशिष्टक्रियाबोधकत्वमित्यर्थः / एकविशिष्टक्रियाबोधकत्वाभावे हेतुमुपदर्शयति-असंभवादिति- यज्ञेन दानेनेत्यादिना यज्ञ-दानादिक्रियालक्षणानेकविशेषणेषु समानयोगक्षेमेषु सत्सु तन्मध्यादेकमेव किश्चन विशेषणमुपादाय तद्विशिष्टविविदिषाक्रियाबोधकत्वस्य तमेतमित्यादावसम्भवात् , यदेव विशेषणं नोपादीयते तस्यैवोकविधावुपादानवैयर्थ्यमनुषज्यत इत्यत एकविशिष्टक्रियाविधानं न सम्भवतीत्याशयः। यदि च कथञ्चिदेकविशिष्टक्रियाबोधकत्वं सम्भाव्येत तदाऽप्याह-अनङ्गीकाराचेति-तमेतमित्यादिवचनस्यैकविशिष्टक्रियाबोधकत्वस्यानभ्युपगमाचेत्यर्थः / नापि दध्ना जुहोतीत्यादिवदिति- दध्ना जुहोतीत्यत्र होमानुवादेनकस्य दध्नो गुणस्य यथा विधान तथा प्रकृतेऽपि * कस्याश्चित् क्रियायामेकविशेषणविधानमित्यपि नेत्यर्थः / निषेधे हेतुमाह- उक्तहेतोरेवेति- असंभवादनङ्गीकारादेव चेत्यर्थः / अनेकोद्देशेर्नेकविधानमपि वाक्यभेदभयान्न संभवति प्रकृते इत्याह-यक्ष-दानादीन्युद्दिश्येति / विविदिषाफलसंबन्धविधाने इत्यस्य कथं न वाक्यमेद इत्यनेनान्वयः, कथं न वाक्यभेदः? स्यादेबेत्यर्थः / अनेकोद्देशेनेकविधाने वाक्यभेदप्रसशस्य दृष्टान्तमाह-एकत्वग्रहोद्देशेनेति- एकत्वग्रहोभयोद्देशेन सम्मार्जनस्यैकस्य विधाने यथा वाक्यभेदस्तथेत्यर्थः / प्रकृते एकमुद्दिश्यानेकविधानेऽपि वाक्यभेदप्रसङ्ग इत्याह-विविदिषाफलमुद्दिश्येति / यश-दानादिविधाने चेत्यस्यापि कथं न वाक्यमेद इत्यनेनान्वयः। तत्र दृष्टान्तमाह- ग्रहोइशेनेति-प्रहमुद्दिश्यैकत्व-संमार्जनयोर्विधाने यथा वाक्यभेदस्तथेत्यर्थः / एकफलोद्देशेनानेकक्रियाविधानेऽपि प्रकृते न वाक्यमेद इति सदृष्टान्तमाशावे- अथेति / समा हि यतः, तत्र दर्श-पौर्णमासाभ्यां यजेतेत्यत्र / म कालविधानं यागोद्देशेन नामावास्यापूर्णिमालक्षणकालविधानम् / तत्र हेतुमाह-उत्पत्तिवाक्यरेवेति- द्रव्यं देवता च यागस्वरूप, तद् यद्वाक्ये प्रतिपाद्यते तदुत्पत्तिवाक्यम् , दर्शपौर्णमासस्थले षट यशाः, ततस्तेषामुत्पत्तिवाक्यान्यपि षडितिसत्पत्तिवाक्यैरिति बहुवचनम् / प्राप्तत्वात् कालस्य प्राप्तत्वात् / अतः दर्श-पूर्णमासपदेन कालविधानाभावतः। तत्पख्येति-तत्प्रकाशकान्यशास्त्रतस्तस्य प्राप्तौ तत्प्रतिपादकतयाsवभासमानशब्दो न तद्विधायकः किन्तु नामधेय इति तत्प्रख्यन्यायानुगमनिका। तत्प्रख्यन्यायेत्यत्र तत्प्रख्यं किमित्यपेक्षायामाह- तत्प्रख्यं चान्यशास्त्रमिति / तत्प्रख्यन्यायसिद्धं नामधेयमिति दृष्टान्तोद्धाटनेन स्पयष्टति-यथेति / नाग्निदेवताविधिः होमोद्देशेन नाग्निस्वरूपदेवताया विधानम् , तर्हि अग्निहोत्रमिति पदं किमर्थमिति पृच्छति-किन्विति / उत्तरयति नामधेयमिति- होमविशषस्य नामधेयं संज्ञा अग्निहोत्रमिति पदम् / तथा एवम् / अत्र दर्श-पूर्णमासाभ्यां