________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः / विधातुं शक्या, प्राप्तायां तु तस्यामनेकार्थविधाने विधिप्रत्ययावृत्तिलक्षणो वाक्यभेदः प्रसज्यते / न च यदप्रमेव प्रजायत" "यवसायं जुहोति" "जातपुत्रः कृष्णकेशानी नादधीते"[..] तत्र च कर्मानुवादेन गुणद्वयविधानेऽप्येकवाक्यवन्नानुपपत्तिः, पूर्वत्र " अग्निज्योतिर्योतेरग्निः स्वाहा" [ तैत्तरीयारण्यक 1. 10.] इति मन्त्रवर्णप्राप्तत्वादनेः प्रजापतिमात्रविधानम्, उत्तरत्र च जातपुत्रकृष्णकेशपदद्वयोपलक्षितावस्थाविशेषस्याधानानुवादेन विधानमित्येवं वाक्यभेदनिराकरणात्, तदिदमुक्तम्- " प्राप्ते कर्मणि नानेको, विधातुं शक्यते गुणः " [ ] इति, अत्र च कर्मणीत्युपलक्षणं प्राप्तमात्रमुद्दिश्यानेकविधानस्याशक्यत्वात् , अत एव " प्रहसंमार्टि" [ ] इत्यत्र ग्रहोदेशेनैकत्व-संमार्गयोर्विधाने वाक्यभेदः, एकोदेशेनानेकविधानवदनेकोद्देशेनैकविधानमध्य विशेषणमात्रस्यैवान्यतोऽप्राप्तस्य विधानं युक्तमित्यर्थः / तत्र दृष्टान्तमाह- यथेति / गुणविधी दधिद्रव्यरूपगुणविधाने, दध्ना जुहोतीत्यत्र होमक्रियाया अग्निहोत्रं जुहोतीत्यनेन प्राप्तत्वात् तत्र करणतया दधिगुणस्यैव विधानमित्यर्थः / तत्रापि प्रकरणान्तरप्राप्तक्रियायां गुणमात्रविधानस्थलेऽपि / नानकमिति- अनेकं विशेषणं विधातुं न शक्यत इत्यर्थः। तत्र हेतुमाह-वाक्यभेदप्रसङ्गादिति / कथं वाक्यभेदप्रसङ्ग इत्यपेक्षायामाह- अप्राप्ता हीति- हि- यत:। अनेकविशेषणान्युपसंगृहन्ती विशिष्टस्वस्वरूपसन्निविष्टतयाऽनेकविशेषणानि सगृह्णन्ती सती / विशिष्टा अनेकविशेषणविशिष्टा, विधातं शक्येति- तद्विधाने एकस्यैव विशिष्टस्य विधानमित्येकार्थत्वान्न वाक्यभेदप्रसङ्ग इति / प्राप्तायां तु प्रकरणान्तरप्राप्तायां पुनः। तस्यां क्रियायाम् / विधिप्रत्ययावृत्तिलक्षणः यावन्तो गुणा विधेयास्तावन्तो विधिप्रत्ययास्तस्मिन् वाक्ये न सन्ति, किन्त्वेक एवं विधिप्रत्ययो विद्यते, स चैकत्रैवोपक्षीण इति गुणान्तरविधानाय तस्यावृत्तिरभ्यासः पुनस्तत्पठनं तल्लक्षणस्तत्स्वरूपः, अतस्तद्भयात् प्राप्तायां क्रियायामेकस्यैव गुणस्य विधानमित्याशयः। तत्र शङ्कामुत्थाप्यापहस्तयति-न चेति / " यदग्रमेव प्रजायत" “यवसायं जुहोति" " जातपुत्रः कृष्णकेशानी नादधीते तत्र च" इत्यस्य स्थाने " यदग्नये च प्रजापतये च सायं जुहोति" इत्यत्र " जातपुत्रः कृष्णकेशोऽग्नीनादधीत इत्यत्र च" इति पाठो युक्तः / कर्मानुवादेन सन्ध्याकालीनहवनकर्मानुवादन, अग्न्याधानकर्मानुवादेन च / गुणद्वयविधानेऽपि अग्नि-प्रजापतिदेवतारूपगुणद्वयविधाने, जातपुत्रत्व-कृष्णकेशाग्रत्वलक्षणगुणद्वयविधानेऽपि च / एकवाक्यवत् यथैकवाक्यं तथा / नानुपपत्तिः, अन्यत्रापि प्राप्तकर्मानुवादनानेकगुणविधाने एकवाक्यं नानुपपन्नम्। निषेधे हेतुमाहपूर्वत्रेति-यदग्नये च प्रजापतये च जुहोतीत्यत्रत्यर्थः / “ज्योतेरग्निः" इत्यस्य स्थाने "ज्योतिरग्निः" इति पाठः सम्यक् / इति एवंस्वरूपेय॑थः / अग्निज्योतिरित्यादिमन्त्रस्याग्निरूपदेवताप्रकाशनसामर्थ्यात् तत एवाग्नेः प्राप्तत्वान्न तस्य किन्तु प्रजापतिरूपदेवतामात्रस्य विधानम् / उत्तरत्र च जातपुत्रः कृष्णकेशोऽग्नीनादधीतेत्यत्र च / अवस्थाविशेषस्येतिजातपुत्रत्वं वृद्धावस्थायामपि सम्भवति न तु कृष्णकेशाग्रत्वमिति विशेषस्यं युवावस्थालक्षणस्य विधानम् , तथा च युवावस्थः पुरुषोऽग्नीनादधीतत्येवं पर्यवसिते अग्न्याधानानुवादेनावस्थाविशेषस्य विधानमित्यर्थः / इत्येवम् उक्तप्रकारेणैकस्य विधानतः / उक्तार्थे मीमांसासम्मतिमुपदर्शयति-तदिदमुक्तमिति / प्राप्त कर्मणीति- “प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः / अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः // 1 // " इति सम्पूर्ण पद्यम् , अत्र प्राप्ते कर्मण्यनेको गुणो विधातुं न शक्यः, अप्राप्ते तु बहवोऽप्येकयत्नतो विधीयन्ते' इत्यन्वयः, अर्थस्तु व्यक्त एव / अत्र चेति-प्राप्ते कर्मणीति पद्ये चेत्यर्थः। कर्मणीत्युपलक्षणं कर्मपदेन कर्म-तद्भिन्नयोरुभयोरपि ग्रहणम् / तत्र हेतुमाह-प्राप्तमात्रमितिप्राप्तमात्रं यत् किमपि कर्मस्वरूपं गुणादिस्वरूप वा तदुद्देशेनानेकविधाने विध्यावृत्तिलक्षणो वाक्यभेदः प्रसज्यत एवेति तद्भयादनकविधानस्याशक्यत्वादित्यर्थः / अत एव कर्मणीत्यस्योपलक्षणत्वेन प्राप्तमात्रमुद्दिश्यानेकविधानस्याशक्यत्वादेव / "ग्रहसंमाष्टि" इत्यस्य स्थाने " ग्रहं संमार्टि ' इति पाठः सम्यग, ग्रहो नाम यज्ञोपयोगो पात्रविशेषः, अहं संमाष्टीत्यत्र प्रहपदोत्तरद्वितीयकवचनेन ग्रहगतैकत्वस्य विवक्षितत्वे एकत्वविशिष्टस्य ग्रहस्यैव सम्माजनेऽपूर्वोत्पत्तिर्न तु सर्वस्य प्रहस्य, एवं च ग्रहे प्राप्ते एकत्व-संमार्जनयोरुभयोरप्यप्राप्तत्वाद् विधाने वाक्यभेदः प्राप्नोति ततो न प्रहगतैकत्वं