________________ बयामृततरङ्गिणी-तरङ्गिणीतरणियां समलहतो नयोपदेशः। सम्भवतीति, स्थाणुर्वा पुरुषो वा राक्षसो वेत्यादिविकल्पानां वस्तुनि प्रवृत्तिदर्शनात् / अतात्त्विकी सा कल्पना पुरुषबुद्धिमात्रप्रभवा, इयं तु शास्त्रीया जीवेश्वरविभागादिव्यवस्थेति कथं तत्र विकल्पस्पर्श इति चेत् ? नूनमतिमेधावी भवान् येनेत्थं वदसि, अद्वितीयात्मतत्त्वं हि प्रधानं फलवत्त्वादशातत्वाच्च प्रमेयम् , शास्त्रस्य जीवेश्वरविभागादिकल्पनास्तु पुरुषबुद्धिप्रभवा अपि शास्त्रेणानूयन्ते तत्त्वज्ञानोपयोगित्वात् " फलवत्सन्निधावफलं तदङ्गम् " [ ] इति न्यायात् भूमसिद्धस्यापि श्रुत्याऽनुवादनभावात् / एतेन द्वैतसमानाश्रयविषयत्वनियमाज्जडैव प्रामाण्यप्रयोजनाभावेनाज्ञानानङ्गीकारात्, तदवनन्वेकस्वरूपे पुरुष स्थाणौ वा येयं स्थाणुर्वाऽयं पुरुषो वाऽयं राक्षसो वाऽयमित्यादिकल्पना सा न वस्तुनिबन्धना किन्तु पुरुषबुद्धिमात्रप्रभवेत्यनेकधा सम्भवति, जीवेश्वरविभागव्यवस्था तु शास्त्रीया वस्तुतत्त्वनिबन्धनवेति वस्तुन एकस्वरूपत्वा देकस्वरूपैव सा भवितुमर्हति, न नानकस्वरूपा यतो वस्तुनि न विकल्पस्पर्श इत्याशङ्कते- अतात्विकी सेति / अतास्विकी अपारमार्थिको / सा स्थाणुर्वा पुरुषो वेत्याकारा। इयं वित्यस्य जीवेश्वरविभागव्यवस्थेत्यनेनान्वयः / यायां जीवेश्वरविभागादिव्यवस्थायाम् / समाधत्ते- नूनमिति- निश्चितमित्यर्थः / “धीर्धारणावती मेधा" इति वचना दतिमेघावीत्यस्यात्यन्तधारणाशालिबुद्धिमानित्यर्थः, उपहासवचनं चेदम् , यतो जीवेश्वरविभागादिकल्पनाः पुरुषबुद्धिप्रभवा एव, तासामनुवादमात्रं शास्त्रेण, न च तत्र शास्त्रस्य प्रामाण्यम् , अन्याशात एवार्थे शास्त्रस्य प्रामाण्याभ्युपगमादित्यशास्त्रीया. स्वपि जीवेश्वरविभागादिकल्पनासु शास्त्रीयत्वमवधारयतो भवतोऽतिमेधावित्वं नास्त्येवेति / येन अतिमेधावित्वेन, अर्थाद् अतिमूढत्वेन / इत्थम् अतात्विकी सेत्यादिस्वरूपम् / शास्त्रीयं तत्त्वमद्वितीयात्मतत्त्वम् , जीवेश्वरविभागादिकल्पना न शास्त्रीयाः किन्तु पुरुषबुद्धिप्रभवा इत्येतत् स्पष्टयति-अद्वितीयेति। "प्रमेयम् , शास्त्रस्य" इत्यस्य स्थाने " प्रमेयं शास्त्रस्य / ". इति पाठो युक्तः, हि यतः, फलवत्त्वादज्ञातत्वाच्च प्रधानं सदद्वितीयात्मतत्त्वं शास्त्रस्य प्रमेयमिति तदेव शास्त्रीयमित्यर्थः / पुरुषबुद्धिमात्रप्रभवाणामपि जीवेश्वरविभागादिकल्पनानां तत्त्वज्ञानोपयोगित्वाच्छास्त्रेणानुवादः “असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते" [.] इति वचनादित्याह- जीवेश्वरविभागादिकल्पनास्त्विति / तत्त्वज्ञानोपयोगित्वेन प्रमाणान्तरसिद्धानामपि तासां शास्त्रेणानुवदनं न्याय्यमित्यावेदयति-फलवदिति- यथा दर्श-पौर्णमासाभ्यां स्वर्गकामो यजेतेति विधिः स्वर्गफलकदर्शपौर्णमासयागप्रतिपादकत्वात् फलवान् , तत्प्रकरणपठितः समिधो यजतीत्यादिविधिः समिधा यागादिप्रयाज. पञ्चकाफलवत्प्रतिपादकत्वादफल: सन् दर्शपौर्णमासादियागविध्यङ्गं भवति-समिद्यागादिभिरुपकृत्य दर्शपौर्णमासाभ्यां स्वर्ग भावयेदिति, तथा प्रकृतेऽपि अद्वितीयात्मतत्त्वज्ञानान्मोक्ष इति मोक्षरूपपरमपुरुषार्थसाधनज्ञानविषयत्वादद्वितीयात्मतत्त्वं फलवत् तत्प्रतिपादकवचनमपि तथा तत्सन्निधौ श्रूयमाणं प्रमाणान्तरसिद्धमपि जीवेश्वरविभागादिकमफलं सत् तदङ्गमिति प्रमाणान्तरसिद्धानामपि तासां शास्त्रेणानुवदनं युक्तमिति मुकुलितोऽर्थः। भमसिद्धस्यापीत्यस्यानेकप्रमाणसिद्धस्यापीत्यर्थः / एतेनेत्यस्यायमेव परिहार इत्यनन्तरं ज्ञातव्य इति पूरितेनान्वयः / “द्वैतसमानाश्रयविषयत्वनियमाजडेव प्रामाण्यप्रयोजनाभावेनासानानङ्गीकारात्" इत्यस्य स्थाने " अद्वैतस्य चैतन्यस्य अज्ञानाश्रयविषयत्वनियमात् ; जडे व प्रमाणप्रयोजनाभावेनाज्ञानानङ्गीकारात्" इति पाठो युक्तः, अद्वैतस्य- अद्वैतस्वरूपस्य चैतन्यस्य शुद्धब्रह्मणः, अज्ञानाश्रय विषयत्वनियमात्- अद्वितीयचैतन्यमेवाज्ञानस्याश्रयोऽज्ञानस्य विषयश्चेत्येवं नियमात्, " आश्रयत्व-विषयत्वमागिनी निर्विभागचितिरेव केवला / पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः // // " [1. 319 ] इति संक्षेपशारीरकवचनात् , जडे च-चैतन्यभिन्ने पुनः, प्रमाणप्रयोजनाभावेनेति-चैतन्यस्य स्वयं प्रकाशस्वरूपत्वात् तत्राज्ञानरूपावरणाभावे तत्प्रकाशः सर्वदैव स्यात् , यथा दीपस्य प्रकाशस्वरूपस्य शरावाद्यावरणाभावे प्रकाश इति चैतन्ये आवरणरूपाज्ञानकल्पने प्रमाणं विद्यते, जडस्य तु स्वयं प्रकाशरूपत्वाभावात् प्रकाशस्वरूपनिरावृतचैतन्यतादात्म्याच्यासादेव प्रकाशो नान्यथेति तत्रावरणकल्पने प्रमाणं न विद्यते न वा किमपि प्रयोजनम्, चैतन्ये तु सत्यावरणे न प्रकाशः, तदपगमे तु प्रकाश इत्येवं प्रयोजनं विद्यते, तथा यावदज्ञानसम्बन्धस्तावद् बन्धः, सर्वथा तदपगमे मोक्ष इत्येवमपि प्रयोजनं विद्यते, एवं.च जडे प्रमाण-प्रयोजनयोरभावेनाज्ञानस्यानभ्युपगमादित्यर्थः / नन्वेवं जडेऽज्ञानाभावे शुक्यज्ञानं रज्ज्वधानमित्येवं शक्तिरज्ज्वादावशानव्यवहारो न स्यादित्यत आह-तदवच्छिन्नेति शुक्क्याद्यवच्छिन्नेत्यर्थः, तत्र शुक्क्यादौ, तथा च शुक्क्य