________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलईतो नयोपदेशः / च्छिन्नचैतन्याज्ञानादेव तत्राज्ञानव्यवहारोपपत्तेः, प्रामाण्यस्य चाऽज्ञातज्ञापकस्वरूपत्वात् , अन्यथा स्मृतेरपि तदापत्तेरिति वेदान्तेषु सर्वत्रैवं विरोधेऽयमेव परिहारः, तदाह वार्तिककार: " यया यया भवेत् .पुंसो, व्युत्पत्तिः प्रत्यगास्मनि / सा सैव प्रक्रिया ज्ञेया, साध्वी सा वानवस्थितेः // " [.. इति श्रुतितात्पर्यविषयीभूतार्थविरुद्धं तु मतं हेयमेवेति नातिप्रसङ्गः, स च जीवोऽज्ञानबहुत्ववाविनां हिरण्यगर्भ-विराडादिभेदेन नाना, अज्ञानक्येऽपि तत्तच्छक्तिभेदात् तज्वान्तःकरणभेदाद् वा नानेत्यपि वदन्ति। तत्र तत्त्वज्ञानेन शक्तिरन्तःकरणस्य वा निवृत्तिरिति बद्धमुक्तव्यवस्था; जीवभेद एव क्रममुक्तिफलानां हिरण्यगर्भायुपासनावाक्यानां " न तस्य प्राणाः" [ बृहदारण्यकोपनिषद्,. 4. 4. 6. ] इत्यादीनां चाञ्जस्येनोपपत्तिः, एकजीववादे तूपासनावाक्यानां क्रममुक्तिफलश्रवणमर्थ. वादमात्रम् , क्रमेणैवे मुत्यङ्गीकारे क्रममुक्तिफलानामुपासनानां बहुत्वेनैकस्यैव फलवत्त्वेऽपीतरेषु ज्ञानमित्यस्य शुक्त्यवच्छिन्न चैतन्याज्ञानमित्यर्थः, एवं रज्ज्वज्ञानमित्यादेरपि रज्ज्ववच्छिन्नचैतन्याज्ञानमित्यादिरेवार्थस्तथैव: तझ्यवहारोपपत्तिरिति / यच्च शुद्धचैतन्यभिन्नं तत् सर्वमपि प्रमाणान्तरज्ञातमेवेति तत्प्रतिपादकश्रुतिवचनस्याशेषस्यापि अज्ञात.. ज्ञापकत्वलक्षणं प्रामाण्यं न स्यादित्यप्यद्वैतप्रतिपादकवेदान्तेषु द्वैतप्रतिपादकवेदवचनेन विरोध इत्याशयेनाह-प्रामाण्यस्य चेति-प्रामाण्यस्य वेति पाठोऽपि, वाकारः पुनरर्थक एव। अन्यथा प्रामाण्यस्याज्ञातज्ञापकत्वरूपत्वानभ्युपगमे। तदापत्ते प्रामाण्यापत्तेः / अयमेव अद्वितीयात्मतत्त्वव्यतिरेके वेदवचनस्यानुवादकत्वमेव, न तु प्रामाण्यमित्येवंरूप एव / उक्तार्थे बार्तिककारसम्मतिमुपदर्शयति- तदाहेति / यया यया यादृश्या यादृश्या जीवेश्वरविभागादिकल्पनालक्षणप्रक्रियया। पुंसः प्रमातुः / प्रत्यगात्मनि शुद्धचैतन्यलक्षणात्मनि / व्युत्पत्तिः सम्यगवगतिः / भवेत् स्यात् / “सा वानवस्थितेः": इत्यस्य स्थाने “सा चानवस्थिता" इति पाठः सम्यग, सा प्रक्रिया, अमुकप्रमाणवेत्येवं कल्पकानां पुरुषज्ञानानामनन्तस्वाभावधारयितुं शक्येत्यनवस्थितेति तदर्थः / तस्मात् किमत्र हेयं किमुपादेयमिति यत् पृष्टं तत्राह-श्रुतितात्पर्येतिश्रुतितात्पर्यविषयीभूतार्थविरुद्धमतस्य हेयत्वे कथिते श्रुतितात्पर्यविषयीभूतार्थाविरुद्धमतस्योपादेयत्त्वमुक्तप्रायमिति कण्ठतस्तदनुकावपि न न्यूनत्वमिति बोध्यम् / नातिप्रसङ्गः न हेयमतस्योपादेयत्वप्रसङ्गः, उपादेयमतस्य च हेयस्वप्रसनः। सः च'जीवः अज्ञानोपहितचैतन्यलक्षणो जीवश्च, अस्य नानत्यनेनान्वयः। अज्ञानलक्षणोपाधिबहुत्वात् तदुपहितचैतन्य लक्षणजीवस्य हिरण्यगर्भ-विराडादिभेदेन नानात्वमभिहितम्, इदानीमज्ञानस्यैक्येऽपि प्रकारान्तरेण जीवस्य नानात्वं स्वीकुर्वतां / मतमुपदर्शयति- अज्ञानक्येऽपीति / तत्तच्छक्तिभेदात् तत्तज्जीवं प्रति एकस्यैवाज्ञानस्यावरणशक्तिविक्षेपशक्तिभेदात् / वा अथवा / तजान्त:करणभेदात् यावन्तो जीवास्तावन्त्यज्ञानजन्यान्तःकरणानि, तेषां भेदात् / नाना जीवो नाना / वदन्तीत्यनेनास्वरसः, सच- यथाऽज्ञानस्यैक्यं तथा जीवस्याप्यैक्यमेव तथापि विभिन्न-- शक्तिसम्बन्धाद् विभिन्नान्तःकरणसम्बन्धाद् वा प्रतिनियतबन्धादिव्यवस्थोपपत्तेर्जीवस्य , नानात्वाभ्युपगमो न ज्यायानित्यादिरूपः / अथवोक्कदिशा जीवभेदस्यैव युक्तत्वं न तत्र वदन्तीत्यनेनास्वरसोऽभिप्रेतोऽपीत्याशयेनाहतन्नेति-उक्तप्रकारेण जीवभेदपक्षे इत्यर्थः / “शक्ति" इत्यस्य स्थाने "शके" इति पाठो युक्तः, यद्यपि तत्त्व. शानेन शरन्तःकरणस्य वा निवृत्तौ यज्जीवभेदप्रयोजकशक्त्यन्तःकरणनिवृत्तिस्तस्य जीवस्य मुक्तिरित्येवं मुक्तिनियम एवोपपादितो न तु बन्धनियम उपदार्शत इति तावन्मात्रोक्त्या बन्धमुक्तव्यवस्था नोपदर्शिता भवति तथापि शकेरन्तःकरणस्य वा निवृत्त्या मुक्तिव्यवस्थितौ शकेरन्तःकरणस्य वा सत्त्वाद् बन्धस्यापि व्यवस्थितिरर्थात् प्राप्तैवेति यजीवमेद. प्रयोजकस्य शकेरन्तःकरणस्य वा सत्त्वं तस्य जीवस्य बन्धो यज्जीवभेदप्रयोजकस्य शरन्तःकरणस्य वा निवृत्तिस्तस्य जीवस्य मोक्ष इत्येवं भवति बद्धमुक्तव्यवस्थेति / जीवभेदपक्ष एव वेदवचनानां केषाश्चित् सर्वथोपपत्तिरित्याह-जीवभेद एवेति / मावस्येन अकुटिलप्रकारेण / एवं जीवभेदपक्षे बद्धमुक्तव्यवस्थादिकमुपदर्य जीवैक्यवादे तदुपदर्शयति-एकजीववादे विति-"क्रमेणैव" इत्यस्य स्थाने “अक्रमेणैव" इति. पाठो युक्तः, एकजीववादे जीवसमष्टिरूप एक एव जीवस्तस्य