________________ 312 नयाभूततरङ्गिणी-तरङ्गिणीतरणिभ्यां समाहतो नयोपदेशः। देहभेदाजीवभेदभ्रान्तिः / एकस्यैव स्वकल्पितगुरु शाखाधुपबृंहितश्रवण-मननादिदाादात्मसाक्षात्कारे योगादिहेतुत्रयजन्यत्वरूपाध्यासतटस्थलक्षणस्य सत्यस्य वस्तुनो मिथ्यावस्तुसंभेदावभास इत्यस्य स्वरूपलक्षणस्य चायोग इति चेत् ! न-प्रतिकर्मव्यवस्थायाः संयोगादिहेतुत्रयजन्यत्वरूपाध्यासतटस्थलक्षणस्य च मन्दाधिकारिविषयत्वात् , सत्यस्य वस्तुनो मिथ्यावस्तुसंमेदावमास इति स्वरूपलक्षणं तु दृष्टिसृष्टिपक्षेऽप्यविरुद्धम् , नहोदमंशावच्छिन्नचैतन्यं न वस्तु, नवा मिथ्यारूपस्य तेन सह न संभेदावभासः। न च इदं रूप्यमिति ज्ञानकाले शुक्तित्वादेरमावेनाध्यासस्य तदज्ञानकार्यत्वादिप्रक्रियाविरोष इति वाच्यम्, इदं रूप्यमिति ज्ञानकाले शुक्तित्वस्याभावेऽपि तदज्ञानस्थित्यविरोधात्, न हि सत्ताकाले इव संत्ताविरहकालेऽप्यज्ञानं विरुद्धयते। न च 'इदं रूप्यं, नेदं रूप्यम्' इति ज्ञानयोभिन्नविषयत्वेन बाध्यबाधकभावानुपपत्तिरिति वाच्यम् , भिन्नविषयत्वेऽपि विषययोः सारूप्यात् स्वप्नबाध्यबाधकयोरिव बाध्यबाधकभावोपपत्तेः / न च रूप्यादिबाघस्यापि दृष्टिसृष्टित्वे तेन रूप्यादेमिथ्यात्वासिद्धिरिति वाच्यम् , बाध्यान्यूनसत्ताकत्वमेव बाधकत्वे प्रयोजकम्, न त्वधिकसत्ताकत्वमित्यस्योपपादितत्वेन व्यावहारिकेण व्यावहारिकबाधवत् प्रातिभासिकेन प्रातिभासिकबाधाविरोधात् / न च सुषुप्ति-प्रलयादौ जीव-ब्रह्मविभागस्याप्रतीतत्वेनाविद्यमानतया प्रतिसुषुप्ति प्रतिप्रलयं च मुक्तस्य पुनरावृत्त्यापत्तिरिति वाच्यम्, जीव-ब्रह्मविभागादेरनादित्वेन दृष्टिसृष्टित्वानभ्युपगमस्योकत्वात् / न च सुषुप्तं प्रति संस्कारादेरप्यभावेन तस्य पुनः प्रबोधायोगः, कारणात्मना संस्कारादेः सत्त्वात् / न च मोक्षस्य दृगन्यत्वेन स्वाप्रमोक्षवदृष्टिसृथ्यापत्तिः, मोक्षस्य ब्रह्मस्वरूपत्वेन दृम्भिन्नत्वासिद्धेः। न च चैतन्य मात्ररूपा दृष्टिन सृष्टिः, किन्तु वृत्तिविशिष्टचैतन्यरूपा वा वृत्तिरूपा वा दृष्टिः सृष्टिरिति वाच्यम्, तथा च तस्या अपि दृष्ट्यन्तरं सृष्टिरित्यनवस्थेति वाच्यम् , चैतन्यमात्रस्य दृष्टित्वे यद्यपि तत्समानसत्ताकतया घटादेः सदातनत्वापत्तिः, तथापि वृत्युपहितचैतन्यमेव दृष्टिशब्दार्थः, वृत्तावपि वृत्तिरेव स्वस्वरूपा चैतन्योपाधिरिति नानवस्था / अत एव दोषाज्ञानादृष्टदेहेन्द्रियादीनामभावेन भ्रम इति तेषामपि दृष्टिसृष्टित्वेऽनवस्थेति निरस्तम्, स्वाप्नभ्रमवद्देहेन्द्रियादिनरपेक्ष्येणाप्युपपत्तेः, अन्वयव्यतिरेकानुविधानं च तद्वदेव / न च दृष्टिसृष्टेरपि दृष्टिसृष्टित्वेन घटादेरदृष्टिसृष्टित्वापत्तिरिति वाच्यम् , ज्ञानस्य ज्ञेयत्वेऽपि विषयस्याज्ञेयत्वाभाववद् दृष्टिसष्टेदृष्टिसृष्टित्वेऽपि घटादेदृष्टिसृष्टित्वोपपत्तेः। ननु ऐक्यप्रत्यभिज्ञाविरोधः, पूर्वकालप्रतीतस्यैदानीमभावात्, न चैषा भ्रान्तिः, दीपादौ परिणाम( माण)भेदस्येवेह वाचकत्वाभावात् , तदभावेऽपि भ्रान्तित्वे घटादेरप्येकस्मिन् क्षणे भेदस्यात्मनोऽपि प्रतिक्षणं भेदस्य प्रसङ्ग इति चेत् ! न- "नेह नाना" [ ] इत्यादिश्रुतिभिः प्रपञ्चस्य मिथ्यात्वेऽवधृते रज्जुसर्पादिवत् प्रतिभासमात्रशरीरत्वमेव प्रतिभासकत्वातिरिक्तकालसत्त्वे बांधकम् , अतो भिन्नकालीनानामात्मभिन्नानां प्रत्यभिज्ञाभ्रान्तिः, आत्मन्येकप्रतीतिरेककालावच्छेदेन घटादौ चैक्यप्रत्यभिज्ञा न भ्रान्तिः, एक. कालावच्छिन्नघटादावात्मनि चाभेदे बाधकाभावात्, पुरुषान्तरप्रतीतेन सदेककालावच्छेदेनापि घटादौ प्रत्यभिज्ञानं भ्रम एव, प्रतिमासस्य भेदात्, यथैकस्यामेव रज्ज्वां मन्दान्धकारवर्तिन्यां दशानां युगपत्सर्पभ्रमेण पलायमानानां परस्परसंवादेनक सर्पः सर्वरनुभूयत इति प्रत्यभिज्ञाभ्रमः, अन्यभ्रमसिद्धस्यान्येन ज्ञातुमशक्यत्वात् / ननु अत्र कथमभेदभ्रमः ? तत्कारणस्य सादृश्यादेः कस्याप्यभावादिति चेत् ? न-स्वप्नाभेदभ्रमवद् दृष्टिसृष्टिसिद्धसादृश्यादिसम्भवात् / न चैवमभेद एवोत्पद्यतामिति वाच्यम्, इष्टापत्तेः, रज्जुसर्यादिषदुत्पन्नस्यैव ग्रहणनियमात् / न च क्वचिदुत्पद्यते क्वचिन्नेत्यत्र नियामकाभावः, मायाया विचित्रशक्तिकत्वाभ्युपगमात् / न च सोऽयं देवदत्त इति दृष्टान्तन तत् त्वमस्यादिवाक्ये जहदजहालक्षणयक्यपरत्वोक्त्ययोग इति वाच्यम्, यद्यपि धर्मवद् धर्म्यभेदोऽपि बाधित एवेति जहदजल्लक्षणाऽपि न युज्यते, तथाऽपि यदा धर्माभदो वाधान गृहीतः किन्तु धर्म्यभेद एव तदा सोऽयमित्यादौ जहदजहल्लक्षणासम्भवेन दृष्टान्तत्वोपपत्तिः / न चामेदस्यापि दृष्टिसष्टित्वेन तज्ज्ञानस्य बाधकत्वायोगः, आत्माभेदस्यात्मरूपत्वेन दृष्टिसृष्टित्वाभावात्, अन्यूनसत्ताकत्वमात्रेण बाधकत्वोपपत्तेश्च / न च साक्षात्कारस्यापि दृष्टिसृष्टित्वेन प्रमाणजन्यत्वाभावात् तत्त्वज्ञानत्वाभावेन ततो मुक्तिर्न स्यादिति वाच्यम्, अबाधितविषयत्वेनैव तत्त्वज्ञानस्वोपपत्तेः, तस्य च दृष्टिसृष्टित्वेऽप्यक्षतेः / न च "ध्रुवा द्यौर्बुवा पृथिवी ध्रुवाः पर्वता इमे ध्रुवं विश्वमिदं जगद्" [ऋ० सं०८.८.३१.] इत्यादिश्रुतिविरोधः, अनित्यतावादिभिरपि ध्रुवेत्यस्यान्यथानयने आवश्यके दृष्टिसष्टिप्रतिपादकश्रत्यनुरोधेन आकल्पं संतानाविच्छेदपरत्वस्यव युक्तत्वात्, अन्यथा ध्रुवो राजेत्यादावगतेः, दृष्टिसृष्टौ च "एवमेवास्मादात्मनः सर्वे प्राणाः, सर्वे लोकाः, सर्वे वेदाः, सर्वाणि भूतानि, सर्व एत आत्मानो व्युञ्चरन्ति" [बू. 2. 1. 20.] इति श्रुतिः / सुप्तोत्थितजीवात् प्राणादिसृष्टिं प्रतिपादयन्ती प्रमाणम् न च सुषुप्तौ प्राणादिपञ्चकस्य सत्वात् किमर्थ पुनः सटिरिति वाच्यम्, “न तु तद् द्वितीयमस्ति ततोऽन्यद् विभकं यत् पश्येत्"[बृहदारण्यकोपनिषद्