________________ नयामृततरङ्गिणी तरङ्गिणीतरनिया समतो नवोपदेशः / 39 चैतन्यमीश्वरः, अज्ञानोपहितं च जीव इति च मुख्यो वेदान्तसिद्धान्तः, एकजीववादास्य इममेव दृष्टिसृष्टिवादमाचक्षते / अस्मिश्च पक्षे जीव एवेश्वरज्ञानवशादुपादानं निमित्तं च, दृश्यं च सर्व प्रातीतिकम् , जडात्मकमायालक्षणाशज्ञानोपहितचैतन्यस्वरूपत्वेऽपीश्वरस्य शुद्धचैतन्यधर्मः स्वयंप्रकाशत्वाऽपरिच्छिन्नत्वादिको निर्बाधमुपतिष्ठत इति जीवादयं विशिष्ट इति / अचानप्रतिबिम्बितमिति- अज्ञानलक्षणमायाप्रतिबिम्बत्वाकान्तं चैतन्य जीव इति स मायाधमैर्जडत्वादिभिः संसृज्यत इति / जीवेश्वरविभागे प्रकारान्तरमुपदर्शयति- अज्ञानानुपहितमिति- यद्यपि एतन्मते एकमुक्ती सर्वमुक्तिरिति अज्ञानविगमे अज्ञानानुपहितं शुद्धचैतन्यमवतिष्ठते, तदानीमीश्वरावस्थानं भवितुमर्हति, तथापि भशानसद्भावकाल * एव जीवेश्वरविभागो विचारमारोहति, तदानीमेवाज्ञानानुपहितत्वविशिष्टं भवदेव शुद्धचैतन्यमीश्वरः, अज्ञानविगमे त्वेकस्यैव शुद्धचैतन्यस्य भावात् तस्य विभागाभावात् तदनीं सदपि शुद्धचैतन्यमज्ञानाभावादेव तदुपहितं तदनुपहितं वेति भक्तव्यकोटिं नाटीकत इति नेश्वरोऽपि तदानीमित्यभिसन्धिः। अज्ञानोपहितं चेति- चकाराच्छुद्धचैतन्यमनुकृष्यते, अज्ञानोपहितत्वे न शुद्धचैतन्यत्वमिति न तस्यानुकर्षः, चैतन्यमानं तु न पूर्वोपात्तमिति कथं तस्याप्यनुकर्ष इति म प्रेरणीयम्, यतः पूर्वप्रकारे बिम्बत्वं प्रतिबिम्बत्वं वा यच्चैतन्यस्य विशेषणतया विवक्षितं तद्रहितत्वमेवात्र शुद्धपदेन विवक्षितम् , पूर्वपक्षे बिम्बप्रतिबिम्बभावकल्पना समस्ति, न चास्मिन् कल्पे सेति पूर्वकल्पादत्र लाघवम् / " इति च मुख्यो वेदान्तसिद्धान्तः, एकजीववादाख्य" इत्यस्य स्थाने " इति च मुख्यो वेदान्तसिद्धान्त एकजीववादाख्यः" इति पाठो युक्तः, उक्तस्वरूप एवैकजीववादनामकः प्रधानो वेदान्त इति तदर्थः। इममेव उक्तस्वरूपवादमेव / दृष्टिसृष्टिवादं यैव यदैव वस्तूनां दृष्टिदर्शनं यस्य जीवस्य तदेव तद् वस्तु सत्त्वमनुभवति दर्शनाभावकाळे नास्त्येव किञ्चिदिति प्रतिपादको वादो दृष्टिसृष्टिवादस्तम् / आचक्षते वेदान्तसिद्धान्तरहस्याभिशाः कथयन्ति / एतद्वादोपपादनं. मधुसूदनसरखतिनाऽद्वैतसिद्धावित्थं कृतम् "शुक्तिरूप्य-खनादिवद् दृष्टिसृष्ट्यन्यथानुपपत्त्याऽपि जगतो मिथ्यात्वसिद्धिः, अथ केयं दृष्टिसृष्टिः ! दृष्टिरेव सष्टिरिति वा 1, दृष्टिव्यतिरिकसष्ट्यभावो वा 2, दृष्टिव्यतिरेकेण सृज्याभावो वा 3, दृष्टिसामग्रीजन्यत्वं वा 4, दृष्टिसमानकालीनसष्टि 5, दृष्टिसमानसत्ताकसृष्टिा ., सदसद्विलक्षणत्वं वा 7, त्रिविधसत्त्वबहिर्भूतत्वे सत्यसद्विलक्षणत्वं वा 8, अज्ञातसत्वाभावो वा 9, ज्ञातैकसत्त्वं वा 10, आये- वृत्तिरूपा, चैतन्यरूपा वा दृष्टिरभिमता, प्रथम चरमवृत्तिविषयब्रह्मणोऽपि दृष्टिसष्ट्यापत्तिः, द्वितीये सर्वदाऽपि सृष्ट्यापत्तिः, न द्वितीयः- चैत्रेण सृष्टो मया दृष्ट इति वेलक्षण्येन व्यवहारानुपपत्तेः, न तृतीयः-ज्ञातो घटो न ज्ञानमित्यनुभवविरोधात्, न चतुर्थः- एकसामग्रीप्रसूतत्वेन घटादेदृष्ट्यभिन्नत्वेनानन्तरोकदोषात् , न पञ्चमः- शाब्दादिज्ञानसमानकालोत्पन्नघटादौ सिद्धसाधनात्, तद्वदन्यत्रार्थान्तरतापत्तेश्च, न षष्ठः-उभयसत्त्वेड. प्युपपत्तेः सिद्धसाधनात, न सप्तमः- अस्यैव मिथ्यात्वरूपत्वेन तत्साधनायैव तदुपन्यासानुपपत्तेः. नाष्टमः- त्रिविधसत्त्व. मध्ये प्रातिभासिकसत्त्वस्याप्यन्तर्भावेन दृष्टिसष्टिपक्षे तद्वति जगति तद्वहिर्भावानुपपत्तेः, न नवमः- तुच्छसाधारण्यात्, न दशमः- सुखादौ सिद्धसाधनात्, तद्वदन्यत्रार्थान्तरापत्तेश्चेति चेत् ? न-दोषप्रयुक्तत्वनिबन्धनस्य ज्ञातैकसत्त्वस्याज्ञातसत्त्वाभावस्य वा प्रतिपन्नोपाधिदृष्टिजन्यज्ञातैकसत्त्वस्य वा दृष्ट्यन्तरावेद्यल्वे सति ज्ञातैकसत्त्वस्य वा विवक्षितत्वात् , तथा च न सुखाद्यशे सिद्धसाधनं तद्वदन्यत्रार्थान्तरं वा। ननु “जीव ईशो विशुद्धा चित् तथा जीवेशयोमिंदा। अविद्या तचितोयोगः षडस्माकमनादयः // 1 // " [ ] इति प्राचां वचनेन बौद्धं प्रति प्रत्यभिज्ञानादिना विश्वस्य स्थायित्वप्रतिपादकेन च सूत्रभाष्यविवरणाविप्रन्थेन च विरोध इति चेत् ?- अनाद्यतिरिक्तसृष्टिविषय एव दृष्टिसष्टिखीकारात. कारणात्मना स्थायित्वस्वीकाराच, तावतैव बौद्धाभिमतक्षणिकत्वनिराकरणोपपत्ते करविरोधः, प्रत्युताकरेषु दृष्टिसृष्टिरुपपादितैव / नन्वेवं प्रतीतिमात्रशरीरत्वेन नियतकारणाजन्यत्वे श्रुतिषु स्वर्गाद्यर्थ ज्योतिष्टोमादिविधेः, ब्रह्मसाक्षात्कारार्थ श्रवणादिविषेराकाशादेर्वाय्वादिहेतुत्वस्य चोक्तिरयुक्तति चेत् ? न-स्वाप्पकार्यकारणभावबोधकवाक्यवदुपपत्तेः। न चैवं वेदान्तवाक्यस्य तन्मीमांसायाश्च स्वाप्रवाक्य-तन्मीमांसातुल्यतापत्तिः, विषयबाधाबाधाभ्यां विरोधोपपत्तेः, अत एक-तृप्त्यर्थ भोजने परप्रत्यायनार्थ शब्दादौ प्रवृत्तेरयोगेन स्वक्रियाव्याघात इति निरस्तम्, स्वामव्यवहारवदुपपत्तेः। अथैवं घटादेः स्वज्ञानात् पूर्वमसत्वेन प्रतिकर्मव्यवस्थानुपपत्तिः, अधिष्ठानस्यापि शुफीदमंशस्य रूप्यादिवत् इदं रजतमिति ज्ञानात् प्रागसत्वेन संप्र